जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 461, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३५ योग या दृष्टि नहीं हो तो स्त्री पतिके साथ मरे । सप्तम भावसे छिद्र ग्रहकी दशा प्राप्त होने पर शुक्रके अष्टवर्गोक्त राशिमें शनि हो और उसके नवांशमें जब गुरु हो तब स्त्रीकी मृत्यु कहे ॥ ४६ ॥ तद्दनभवननाथे पारिजातादिवर्गे सुरगुरुयुतदृष्टे शोभनस्थानयाते । दधिमधुघृतसूपक्षीरपक्कोपदेशैः सह शुचि रुचिरान्नं चारुकान्तामुपैति ॥ ४७ ॥ स्पष्टार्थः ॥ ४७ ॥ इति सप्तमभावविचारः । सप्तमेश अपने पारिजातादि वर्गमें हो, गुरुसे युक्त या दृष्ट हो, शुभ स्थानमें हो तो दधि-मधु-घी-दाल-दूध पक्व पदार्थोंके साथ सुन्दर अन्नका भोजन और रमणीय स्त्री प्राप्त होती है ॥ ४७ ॥ अथाष्टमभावफलम् । अथाधुनाऽष्टमभावफलानि विवक्षुरादौ तत्र विचारणीयकथनपूर्वक मल्पायुर्योगद्वयमाह— आयुर्दायमनिष्टहेतुमुदयव्योमायुरीशार्कजै- रुक्तं तत्सकलं तथापि निधनप्राप्तिं प्रवक्ष्ये पुनः । अल्पायुर्व्ययगोऽथवा रिपुगते पापान्विते रन्ध्रपे लग्नेशेन युते तु तत्र विबले जातोऽल्पजीवी नरः ॥ ४८ ॥ आयुर्दायमिति । उदयव्योमायुरीशार्कजैः = लग्नेश-दशमेशा-ष्टमेश-शनैश्चरैः, जा- तस्यायुर्दायम् , अनिष्टहेतुं = मरणकारणं च विचारयेदिति सकलं पूर्वमुक्तम् ( आयुर्दाया- ध्यायेऽरिष्टाध्याये ) तथापि पुनः निधनप्राप्तिं प्रवक्ष्ये । अत्राष्टमेशाष्टमभावाभ्यामायु र्विचारो निधनविचारश्च कार्य इति तात्पर्यम् । अल्पायुरिति । पापान्विते=पापग्रहेण सहिते रन्ध्रपे = अष्टमभावपतौ व्ययगे = द्वादशे, अथवा रिपुगते = षष्ठमुपगते जातः अल्पायुर्भवेत् । अथ तत्र = रन्ध्रपे तथाभूते विबले लग्ने- शेन युते च जातो नरः अल्पजीवी भवेदिति । Notes—यस्य भावस्याधिपतिः षडष्टव्ययगतो भवति तस्य भावस्य हानिरिति सामान्यो नियमस्तेनाष्टमभावादायुषो विचारस्य सद्भावादष्टमेशे षष्ठे व्यये वा गतेऽल्पायुर्बुद्ध- मिति किं चित्रम् ॥ ४८ ॥ लग्न दशम और अष्टमके स्वामी और शनिसे आयुर्दाय तथा अनिष्टका कारण पहले कहा है, तथापि फिर अष्टमभाव प्रसङ्गसे सब कहते हैं । अष्टमेश द्वादश वा षष्ठ भावमें पापग्रहसे युक्त होतो जातक अल्पायु होवे । वहीं ( १२।६ ) पर यदि अष्टमेश बलहीन तथा लग्नेशके साथ हो तो जातक अल्पजीवी होवे ॥ ४८ ॥ स्वस्थे रन्ध्रपतौ चिरायुरुदयच्छिद्राधिपौ षष्ठगौ रिष्फस्थौ यदि वा समेति मनुजो जातश्चिरायुर्बलम् । व्यापारोदय रन्ध्रराशिपतयः केन्द्रत्रिकोणायगा दीर्घायुर्विबलाः सभानुतनया यद्यल्पमायुर्वदेत् ॥ ४९ ॥ अधुना दीर्घायुर्योगानाह—स्वस्थ इति । रन्ध्रपतौ = अष्टमेशे स्वस्थ्ये = स्वराशिस्थे ( अत्र सूर्यचन्द्रान्यतरस्याष्टमेशत्वे सति स्वस्थ्ये = अष्टमस्थे इत्येवमेव ) जातश्चिरायुः = दीर्घजीवी स्यात् । उदयच्छिद्राधिपौ = लग्नेशाष्टमेशौ, षष्ठगौ, वा रिष्फस्थौ = द्वादशगतौ यदि स्याताम् तदा जातः मनुजः चिरायुर्बलं समेति = दीर्घजीवी भवतीति । व्यापारोदय रन्ध्रराशिपतयः = दशमेश-लग्नेशा-ष्टमेशाः यथासम्भवं केन्द्रत्रिकोणाय- ( १।४।७।१०।५।९।११ ) गाः भवेयुस्तदा जातो दीर्घायुः स्यात् ।