जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 482, कुल 588 में से
संदर्भ में पढ़ें४५६ सटीकजातकपारिजाते- लग्नेश और दशमेश एक स्थानमें हों वा दोनों (१।१०) का एकाधिपत्य हो (कन्या और मीन लग्न होनेसे लग्नेश और दशमेश एक हो सकेगा) तो जातक स्वार्जित उत्तम धनसे यज्ञादि करे। राहु-केतुके साथ हो तो क्षुद्र जातिके धनसे और गुरुसे युक्त हो तो राजाके धनसे यज्ञादि कर्म करे। दशमेश सूर्यादि जिस ग्रहसे युक्त हो वह जिस जातिका कारक हो उस जातिके धनसे यज्ञादि होते हैं ॥ ५ ॥ बहुशुभयुजि माने वाजपेयादिसिद्धिः सितबुधयुतराशिस्वामिनौ दुर्बलाब्यौ यदि कृतसवनोऽपि प्राप्तकर्मप्रनष्टो भवति परमकमा दानवाचारशीलः ॥ ६ ॥ बह्विति । माने = दशमे भावे, बहुशुभयुजि = बहूनां शुभग्रहाणां संयोगे सति वाजपे- यादिसिद्धिः = वाजपेयप्रमुखमखपूर्तिर्भवति जातस्येति शेषः । यदि सितबुधयुवराशि- स्वामिनौ = शुक्रबुधाक्रान्तराशीशौ दुर्बलाब्यौ = निर्बलौ भवेतां तदा कृतसवनोऽपि = सम्पादिताभिषवोऽपि ("सुत्याऽभिषवः सवनं च सा" इत्यमरः) प्राप्तकर्मप्रनष्टः = दुर्दैवविपाकादुपस्थिताध्वरेऽक्षमोऽभूत्वा परमकमा = उत्कृष्टकर्मकृदपि, दानवाचारशीलः = राक्षसाचरणयुक्तो भवेदिति ॥ ६ ॥ दशममें बहुत शुभग्रह हों तो वाजपेय यज्ञ करे। यदि शुक्र तथा बुधसे युत राशिके स्वामी निर्बल हो तो यज्ञकार्य प्रारम्भ करके भी कर्म नष्ट होता है और वह परमकर्म करनेवाला भी राक्षसी स्वभाववाला होता है ॥ ६ ॥ चन्द्रात् कर्मणि शोभने बलयुते तुङ्गादिवर्गस्थिते वागीशेन युतेक्षिते नरवरो यज्वा यशस्वी भवेत् ॥ जीवज्ञासुरपूजितस्थितगृहाधीशा विनाशं गता जातः सत्फलकर्मवानपि कृतां कर्मश्रियं नाप्नुयात् ॥ ७ ॥ चन्द्रादिति । बलयुते = सबले, शोभने = बुध-शुक्रयोरन्यतरे ग्रहे तुङ्गादिवर्गस्थिते सति, चन्द्रात् = जन्मकालीनचन्द्राधिष्ठितराशितः, कर्मणि = दशमे गते तस्मिन्, वागीशेन = गुरुणा, युतेक्षिते=सहिते दृष्टे वा सति जातः, नरवरः=पुरुषेषु श्रेष्ठः, यज्वा = विधिनिष्टवान् (कृतोत्तमाध्वरः 'यज्वा तु विधिनिष्टवान्, इत्यमरः) यशस्वी = यशोधनः = लोके लब्ध- प्रतिष्ठ इति भवेत् । जीवेत्यादि । जीवः = गुरुः, ज्ञः = बुधः, असुरपूजितः = शुक्रः, एते यत्र यत्र तिष्ठन्ति तत्तद्गृहाधीशाः = राशिस्वामिनः (गुरु-बुध-शुक्राक्रान्तराशिषतयः) चेद् विनाशम् = अष्टमभावं गताः स्युस्तदा जातः सत्फलकर्मवान् = कृतसत्परिणामककर्मा अपि, कृतां = सम्पादितां, कर्मश्रियं = परिणामसम्पदां, नाप्नुयात्=न लभेत् । अस्मिन्योगे विधिना कर्माणि कृत्वाऽपि कर्मसाफल्यं न प्राप्नोतीति भावः ॥ ७ ॥ चन्द्रमासे दशवेंमें बलवान् शुभग्रह उच्चादि वर्गमें हो बृहस्पतिसे युक्त वा दृष्ट हो तो मनुष्योंमें श्रेष्ठ तथा यज्ञ करनेवाला यशस्वी हो । बृहस्पति, बुध और शुक्र जहांपर स्थित हों उनके स्वामी अष्टममें हों तो जातकको सत्कर्मवान् होने पर भी किये हुए कर्मका फल (कल्याण) प्राप्त नहीं होता है ॥ ७ ॥ कर्मेशाज्ञसुरार्चिता बलयुता यज्ञादिसत्कर्मदाः सौम्यव्योमचरेण धीक्षितयुतास्ते वाजपेयादिभाक् । जीर्णोद्धारणमुख्यगोपुरतटाकारामपुण्यप्रदा यज्वा कर्मपतौ शुभे शशियुते माने विशाहुध्वजे ॥ ८ ॥ कर्मेशेत्यादि । कर्मेशः = दशमेशः, ज्ञः = बुधः, सुरार्चितः = बृहस्पतिश्चैते यदि बल- युताः = बलशालिनः स्युस्तदा यज्ञादिसत्कर्मदा भवेयुः । ते त्रयो यदि सौम्यव्योमचरेण =