जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 483, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४५७ शुक्रेण, पूर्णचन्द्रेण वा वीक्षिताः, युता वा भवेयुस्तदा जातः वाजपेयादिभाक् = वाजपेय- प्रभृतियज्ञकृद्भवेत् । तथा ते ग्रहास्तस्य जातस्य जीर्णोद्धारणमुख्यगोपुरतटाकारामपुण्यप्रदा भवन्ति । अर्थादसौ जातकः जीर्णोद्धारणम् = पुरातनस्य मठमन्दिरादेः संस्कारम्, मुख्य- गोपुरादेः = प्रसिद्धगोशालादेर्निर्माणम्, तटाकादेर्निर्माणम्, आरामादेः = उद्यानादेर्निर्माण- मित्यादि पुण्यकार्यं कुर्यादिति । यज्वेति । कर्मपतौ = दशमेशे, शुभे = शुभग्रहे, शशिना = चन्द्रेण युते, माने = दशमगते तस्मिन् विराहुध्वजे = राहुकेतुभ्यां रहिते च सति जातः, यज्वा = कृतयज्ञो भवेदिति ॥ ८ ॥ दशमेश, बुध और बृहस्पति बलवान् हों तो यज्ञादि सत्कर्मके देनेवाले होवें । यदि वे सौम्यग्रहसे दृष्ट या युत हों तो वाजपेयादि यज्ञके करानेवाले होते हैं, तथा जीर्णोद्धार प्रभृति गोशाला, तालाब, बाग आदि निर्माणका पुण्य देते हैं । यदि दशमेश शुभग्रह तथा चन्द्रमाके साथ हो और १० वेंमें राहु और केतु नहीं हो तो जातक यज्ञकर्ता होवे ॥ ८ ॥ उच्चस्थे शशिजेऽहिकेतुवियुते भाग्योपयातेऽथवा कर्मस्वामिनि भाग्यगे च मनुजो यागादिसत्कर्मवान् ॥ कर्मेशे निजतुङ्गगे बुधयुते तारासुते चास्तगे तुङ्गस्थानगते सति क्रतुफलं जातः समेति ध्रुवम् ॥ ९ ॥ उच्चस्थ इति स्पष्टार्थ एवेत्यलम् ॥ ९ ॥ बुध अपने उच्च (कन्या) राशिमें राहु-केतुसे रहित हो अथवा ९ वें भावमें हो और दशमेश नववेंमें हो तो मनुष्य यज्ञ आदि कर्म करनेवाला होता है। दशमेश अपनी उच्च राशिमें बुधसे युक्त हो या सप्तममें उच्चका बुध हो तो जातक निश्चय यज्ञफलको प्राप्त करे॥ कर्मस्थे शशिनन्दने सवनकृत्साहिध्वजे कर्महा कर्मेशे रिपुरन्ध्ररिष्फगृहगे कर्मावरोधी भवेत् ॥ कर्मेशस्य बुधस्य कर्मभवने राहौ मखध्वंसक- स्तुङ्गस्थानगतोऽपि कर्मगृहपो दुःस्थानगः कर्महा ॥ १० ॥ कर्मस्थ इति । शशिनन्दने=बुधे, कर्मस्थे=दशमभावगते सति, सवनकृत्=यज्ञान्नवस्तु- सम्पादकः भवेत् । तथाभूते शशिनन्दने, साहिध्वजे = राहुणा केतुना वा सहिते सति जातः कर्महा=यज्ञादिकर्मनाशको भवेत् । कर्मेश इति । दशमेशे, रिपुरन्ध्ररिष्फगृहगे=षष्ठाष्टमव्ययान्य- तमभावगते सति, कर्मावरोधी=अन्यस्यापि कर्त्तव्यस्य यज्ञादिकर्मणः निरोधकः भवेत् । कर्मेशस्येति । कर्मेशस्य बुधस्य=दशमेशत्वविशिष्टस्य बुधस्य, कर्मभवने=दशमे स्थाने राहौ सति । अत्रेदमुकं भवति । दशमभावपतिः बुधो भवेत्तथा बुधो यत्र भवेत्तस्माद्दशमे स्थाने राहुर्भवेत्तदा, जातः-मखध्वंसकः = यज्ञविनाशकः स्यादिति । धनुः-कन्ययोरन्यतरे लग्ने बुधो दशमेशो भवितुमर्हतीति चिन्त्यम् । तुङ्गस्थानगतोऽपीति । कर्मगृहपः = दशमेशः, तुङ्गस्थानगतोऽपि = स्वकीयोच्चराशि गतः अपि यदि, दुःस्थानगः=षडष्टव्ययगतः स्यात्तदा जातः, कर्महा=कर्मनाशकः भवेत् । षष्ठेऽष्टमे व्यये वा भावे दशमेश उच्चगतोऽपि जातम् कर्मविनाशकमेव करोतीति भावः ॥१०॥ बुध कर्ममें हो तो सवन (यज्ञार्थ औषध संग्रह) करनेवाला हो। यदि बुध राहु-केतुसे युक्त हो तो कर्मकी हानि करने वाला हो। दशमेश षष्ठ, अष्टम या द्वादशम हा तो कर्मका अवरोधी (रोकनेवाला) हो । 'दशमेश-बुधसे दशममें राहु हो तो वह यज्ञनाशक होवे । कर्मेश उच्चराशिगत होने पर भी यदि दुःस्थान (६।८।१२) में हो तो जातक कर्मका नाशक होवे ॥ १० ॥ ३६ जा०