जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 484, कुल 588 में से
संदर्भ में पढ़ें४५८ सटीकजातकपारिजाते- व्यापारधर्मभवने शुभखेटयुक्ते तन्नाथजीवतनूपा बलशालिनश्चेत् । आचारधर्मगुणकर्मविधिप्रयुक्तश्रद्धापरो भवति विप्रकुलाग्रगण्यः ॥ ११ ॥ व्यापारधर्मभवन इति । व्यापारः = दशमभावः । धर्मः = नवमभावः । अन्यत्स्पष्ट मेवेत्यलम् ॥ ११ ॥ दशम और नवम गृहमें शुभग्रह हों उन भावोंके स्वामी, बृहस्पति और लग्नेश बलवान् हों तो आचार-धर्म-गुण-कर्म-विधिमें प्रयुक्त और श्रद्धालु हो, तथा ब्राह्मण कुलमें मुख्य हो ॥ ११ ॥ सौम्यन्वितानि गुरुकर्मकलत्रपुत्रलग्नानि पञ्च भवनानि शुभेक्षितानि । तन्नायकाश्च बलिनो यदि सर्वतत्त्वविद्याधिकक्रतुसमस्तगुणप्रसिद्धः ॥ १२ ॥ सौम्यन्वितानीति । गुरु-कर्म-कलत्र-पुत्र-लग्नानि = नवम-दशम-सप्तम-पञ्चम- प्रथमेत्येतानि गृहाणि ( भावाः ) यथासम्भवं सौम्यन्वितानि = शुभग्रहसंयुक्तानि शुभेक्षि- तानि वा भवेयुस्तथा तन्नायकाश्च = नवमेश-दशमेश-सप्तमेश-पञ्चमेश-लग्नेशाश्च यदि बलिनः भवेयुस्तदा जातः सर्वतत्त्वविद्याधिकः, क्रतुकरः, समस्तैः गुणैः प्रसिद्धश्च भवेदिति ॥ यदि नवम, दशम, सप्तम, पंचम और लग्न ये पांच गृह शुभग्रहसे युक्त हों या शुभग्रह से दृष्ट हों और उन स्थानोंके स्वामी बलवान् हों तो सर्व तत्त्व, अधिकविद्या, सब यज्ञ आदि गुणोंसे प्रसिद्ध होवे ॥ १२ ॥ ज्ञानव्योमाधिवासास्तनुगुरुदशमस्थानपाः षड्बलाढ्या जातः षट्शास्त्रवेत्ता निखिलनिगमविज्ज्ञानदीक्षामुपैति । धर्मव्यापारलग्नाधिपबुधविबुधाचार्यपाकापहारे सत्कर्माचारसर्वक्रतुफलनिगमज्ञानविद्याकरः स्यात् ॥ १३ ॥ ज्ञानेत्यादि । ज्ञानव्योमाधिवासाः=ज्ञानञ्च व्योम च = ज्ञानव्योमनी, तेऽधिवसन्तीति = ज्ञानव्योमाधिवासाः । तत्र ज्ञानं = २।४।५। भावास्तेषु ज्ञानस्य विचारात् । व्योम = १० भावः । अत एव ज्ञानव्योमाधिवासाः = द्वितीय-चतुर्थ-पञ्चम-दशमभावगता ग्रहा यदि तनुगुरुदशमस्थानपाः = लग्न-नवम-दशमभावानामधिपाः स्युस्तथा षड्बलाढ्याः = पूर्वो- क्तैः षड्बलैः सहिताः स्युः तदा जातः षट्शास्त्रवेत्ता, निखिलनिगमविद् भवति, तथा ज्ञान- दीक्षां च प्राप्नोति । धर्मेति । धर्मव्यापारलग्नाधिपबुधविबुधाचार्याणां=नवमेश-दशमेश-लग्नेश-बुध-गुरु- णाम्, पाकापहारे=दशान्तर्दशाकाले जातो नरः-सत्कर्माचारशीलः, सर्वक्रतुफलयुक्तः, सक- लनिगमज्ञान-विद्याकरश्च भवेदिति ॥ १३ ॥ ज्ञानस्थान ( ५।४।२ ) तथा दशममें लग्नेश, नवमेश, दशमेश अपने षड्बलसे युक्त हों तो जातक छः शास्त्रोंका ज्ञाता, सम्पूर्णनिगमका विज्ञ हो और ज्ञानदीक्षा प्राप्त करे । उसको नवम-दशम-लग्नके स्वामी, बुध और गुरुकी दशा-अन्तर्दशामें सब सत्कर्म, आचार, सब यज्ञफल, वेदज्ञान और विद्याकी प्राप्ति हो ॥ १३ ॥ चन्द्रे तृतीये जलराशियुक्ते करोति जीर्णोद्धरणादि पुण्यम् । तटाककूपादिकमत्र लग्नात् कर्मेश्वरे गोपुरभागयुक्ते ॥ १४ ॥ चन्द्र इति । जलराशियुक्ते=मृगापरार्द्धान्त्यकुलीरान्यतम-( १ अ० १७ श्लो० द्र० ) राशौ गतवति चन्द्रे, तृतीये = लग्नात्तृतीयाभावे व्यवस्थिते सति जातः जीर्णोद्धरणादि=पुरा- तनस्य जलाशयारामदेवमन्दिरादेः उद्धारः (पुनः संस्कारः) इत्यादि पुण्यं=धर्मकार्यं करोति । लग्नात् कर्मेश्वरे = दशमभावेशे गोपुरभागयुक्ते गोपुरादिवैशेषिकांशे गते सति, अत्र=अस्मिन्योगे जातः तटाककूपादिकं पुण्यं करोति ॥ १४ ॥