जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 480, कुल 588 में से
संदर्भ में पढ़ेंअथ दशमैकादशद्वादशभावफलाध्यायः ॥ १६ ॥ तत्र दशमभावफलम् । अथाधुना षोडशाध्यायो व्याख्यायते । अस्मिन्नध्याये कर्मायव्ययभावानां फलानि निर्दिशानि । तत्र प्रथमं दशमभावफलं विवक्षुर्दशमभावे विचारणीयविषयानाह— आज्ञामानविभूषणानि वसनव्यापारनिद्राकृषि- प्रव्रज्यागमकर्मजीवनयशोविज्ञानविद्याः क्रमात् । कर्मस्वामिदिनेशबोधनगुरुच्छायासुतैश्चिन्तये- दुक्तानि प्रविहाय पूर्वमशुभे मानी विमानो भवेत् ॥ १ ॥ आज्ञेति । आज्ञा, मानम्, विभूषणानि, वसनम्, व्यापारः, निद्रा, कृषिः, प्रव्रज्या, आगमः, कर्म, जीवनम्, यशो विज्ञानम्, विद्या इत्येतान् विषयान्, कर्मस्वामिदिनेशबो- धनगुरुच्छायासुतैः = दशमेश-सूर्य-बुध-बृहस्पति-शनैश्चरैः, क्रमात्, पूर्वम् = इतः प्रथमम्, उक्तानि, प्रविहाय = त्यक्त्वा, सञ्चिन्तयेत् = विचारयेत् । अत्र क्रमादित्यनेन कर्मस्वामिदि- नेशबोधनगुरुच्छायासुतैरित्यत्र पूर्वपूर्वस्याभावे उत्तरोत्तरो ग्राह्य इत्यर्थः । अशुभे, माने = दशमे भावे अशुभे पापक्रान्ते, पापदृष्टे च जातो नरः, विमानः = मानरहितः = अप्रतिष्ठः लोकैरनादृतश्च भवेदिति ॥ १ ॥ आज्ञा (हुकूमत), मान, भूषण, वस्त्र, व्यापार, निद्रा, कृषि, प्रव्रज्या, आगम, कर्म, जीवन, यश, विज्ञान और विद्या इन सबका विचार दशमेश, सूर्य, बुध, गुरु और शनिसे क्रमसे करे । १० वें भावमें अशुभ ग्रह हो तो मान-रहित हो ॥ १ ॥ अथ कर्मविचारः । कर्मेशे बलवर्जिते चपलधीर्जातो दुराचारवान् जीवज्ञासितभानवो विबलिनो दुःस्था विकर्मप्रदाः । गङ्गास्नानफलं समेति दशमे राहौ दिनेशेऽथवा मीने कर्मणि चन्द्रजारसहिते जातः स मुक्तो भवेत् ॥ २ ॥ कर्मेश इति । कर्मेशे = दशमभावेशे, बलवर्जिते = निर्बले सति जातो नरः परः चपलधीः = अव्यवस्थितबुद्धिः, दुराचारवान् = कुत्सितकर्मकृच्च भवेत् । जीवज्ञासितभानवः = गुरु-बुध- शनि-सूर्याः विबलिनो भूत्वा यदि दुःस्थाः = दुःस्थान (६।८।१२) गताः स्युस्तदा जातस्य विकर्मप्रदाः भवेयुः । अस्मिन् योगे जातः गर्हितकर्मा भवेदिति भावः । राहौ वा दिनेशे = सूर्ये दशमे सति जातो नरो गङ्गास्नानफलं, समेति = प्राप्नोति । कर्मणि = दशमे भावे, मीने = मीनराशौ सति तस्मिन् चन्द्रजारसहिते = बुधभौमाभ्यां संयुक्ते च स जातो नरः मुक्तः = निर्धूततापः = जीवन्मुक्तो भवेदिति ॥ २ ॥ कर्मेश (दशमेश) निर्बल हो तो जातक चञ्चल बुद्धि और दुराचारी हो । बृहस्पति, बुध, शनि और सूर्य बलरहित और दुष्टस्थानमें हों तो जातक सत्कर्महीन हो । दशवेंमें राहु वा सूर्य हो तो गङ्गास्नानका फल देता है । मीन राशि दशवेंमें हो वह बुध और मङ्गलसे युक्त हो तो जातक मुक्त हो ॥ २ ॥ मानेश्वरे शुक्रयुते च केन्द्रे तुङ्गस्थिते तादृशतोयपूतः । व्यये बुधे तद्भुवनाधिपे वा स्वोच्चान्विते तादृशपुण्यभाक् स्यात् ॥ ३ ॥ मानेश्वर इति । शुक्रेण युते, मानेश्वरे = दशमभावपतौ केन्द्रे, वा तुङ्गस्थिते = उच्चगते- सति जातः तादृशतोयपूतः = गङ्गाजले निर्मलीकृतकायो भवेत् । व्यय इति । तद्भुवनाधिपे