जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 495, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६६ शन्यंशके कुत्सितमार्गवृत्त्या शिल्पादिभिर्दारुमयैर्वधाद्यैः । विन्यस्तभारार्जनविप्रलम्भादन्योन्यवैरागममार्गमूलात् ॥ ५० ॥ पूर्वश्लोकै यदुक्तं-'कर्मेशस्थनवांशराशिपवशाद् वृत्ति', तद्ग्रहाणां वृत्तय उच्यन्ते-भैष- ज्येत्यादिभिः । इनस्यांशे=सूर्यस्य नवांशे (सूर्यो यदि कर्मेशस्थनवांशपतिः स्यादित्यर्थः) सति असौ जातकः-भैषज्यं = औषधम् , ऊर्णा = मेषादिकलोम (ऊन, रेशम) तृणानि = घासाः, अम्बुधान्यं = जलजान्नम् , कनकं = सुवर्णम् , एषां व्यापारेण = क्रयविक्रयेण, मुक्तादिकैः= मौक्तिकादीनां (मोती वगैरह) व्यापारेण, अन्योन्यागमदूतवृत्तिभिः = इतस्ततः परस्परं भृत्यकार्यैश्च जीवति=जीवनं यापयति ॥ ४४ ॥ निशाकरांशे = चन्द्रनवांशे = कर्मेशस्थनवांशपतौ चन्द्रे सति-जलोद्भवानां = जलोत्प- न्नानां=शङ्खमुक्तामीनादीनां क्रयविक्रयेण, कृषेः=कृषि-(खेती) कर्मतश्च, मृद्भावविनोदमार्गात्= मृण्मयपात्राधिकरणक-मोदादिना, राज्ञाङ्गनानां=राजपत्नीनां, संश्रयेण =समाश्रयणेन लब्धं यद्वित्तं तस्मात्, वा वसनक्रयात् वस्त्रादेः क्रयविक्रयतश्च जीविकामुपैति ॥ ४५ ॥ धरासुतांशे=मङ्गलनवांशे=कर्मेशस्थनवांशपतौ मङ्गले सति-धातोः (सुवर्णादेः) विवादेन = व्यवहारेण 'विवादो व्यवहारः स्यादि'त्यमरः । रणप्रकारात् = सङ्ग्रामात् , स्त- ब्धाग्निवादात् = स्तब्धानलस्य प्रशान्ताग्नेः (कोयला) व्यवहारतः। कलहप्रवृत्त्या = झकटकव्यापारात्, साहसमार्गरूपात् = अनीक्षितकर्त्तव्यतः, चोरवृत्त्या = तस्करकर्मणा च जीवनं यापयतीति ॥ ४६ ॥ बुधांशे = बुधस्य नवांशे = कर्मेशस्थनवांशपतिः बुधो भवेत्तदा = शिल्पादिना = चित्र-पुस्तक-वस्त्रादिनिर्माणेण, काव्येन=काव्यनिर्माणेण, आगमशास्त्रमार्गात् संहितादिशा- स्त्रज्ञानतः, ज्योतिर्गणानां ज्ञानवशाद् = भाग्यगणनया, परार्थवेदाध्ययनाज्जपाच्च = परस्य हेतोः वेदमन्त्राणामध्ययनेन जपेन च, पुरोहितायाज्यवशात्=पौरोहित्यकर्मतो याजनतश्च प्रवृत्तिः = जीविका भवति ॥ ४७ ॥ जीवांशके = कर्मेशस्थनवांशेशे गुरौ सति—भूसुरदेवतानाम् = ब्राह्मणानां देवानाञ्च, उपासनया = पूजनेन, अध्यापकरूपमार्गात् = छात्राणामध्यापनकर्मतः, पुराणशास्त्रागमनी- तिमार्गात् , धर्मोपदेशैश्चाकुसीदं = स्वजीविकावृत्तिं मनीषिणः आहुः ॥ ४८ ॥ भृगोः सुतांशे = शुक्रस्य नवांशे—सुवर्णमाणिक्यगजाश्वादीनां व्यापारतः, गवां क्रयात् , गुडौदनक्षारदधिक्रयेण स्त्रियाः प्रलोभेन च जीवनम् आहुः ॥ ४९ ॥ शन्यंशके = शनेर्नवांशे—कुत्सितमार्गवृत्त्या = गर्हितकर्मणा, दारुमयैः शिल्पादिभिः = काष्ठमयचित्रादिरचनया, वधाद्यैः = परेषां घातितया पीडनादिना च, विन्यस्तभारात् = भार- वहनात् , जनविप्रलम्भात् = जनानां वञ्चनकर्मतः, अन्योन्यवैरागममार्गमूलात् = परस्परवि- द्वेषमूलतश्च वृत्तिः प्रवक्तव्या ॥ ५० ॥ Notes—अत्र सामान्येन पापग्रहाणां नवांशे कुत्सितवृत्त्या शुभग्रहाणां नवांशे च गतवति कर्मेशे सुवृत्त्या जीविका कथिता । परञ्च तत्र तत्तन्नवांशपतेः स्थितिमवलोक्यैव शुभाशुभत्वे तारतम्येन न्यूनाधिकत्वमपि वाच्यम् । यतो हि पापोऽपि ग्रहो बलीयाञ्छुभोच्चा- दिवर्गगस्तादृक्शुभत्वमाप्नोति । एवं शुभोऽपि निर्बलो नीचारिपापवर्गगो न तावच्छुभ इति चिन्तनीयम् ॥ ४४-५० ॥ लग्न या चन्द्रमासे दशम स्थान का स्वामी सूर्यके अंश (नवांश) में हो तो औषध (दवा), ऊन, तृण, जलधान्य, सोना, मोती आदिके व्यापारसे, परस्पर आने जानेसे, दूत वृत्तिसे जीविका कहे ॥ ४४ ॥ ४० जा०