जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 497, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७१ इदानीं पापरतयोगमाह—कर्मराश्यंशप इति । कर्मराश्यंशपः = कर्मराशेः ( दशम- भावस्य ) यो नवांशस्तत्पतिः यत्र राशौ भवेत् तद्राशीशो यदि पापखेचरस्तथा धूमाद्यु- पग्रहसम्बन्धी स्यात्तदा जातः पापरतः = पापकर्मानुरागी भवेत् ॥ ५३ ॥ दशमेश जहां हो उस स्थानका स्वामी पापग्रह हो तथा यदि धूमादि उपग्रहका सम्बन्धी हो तो पापमें रत होवे ॥ ५३ ॥ सिद्धारम्भः कर्मगे चन्द्रलग्नाद्भानौ भौमे साहसी पापबुद्धिः । विद्वान् सौम्ये वाक्पतौ राजतुल्यः शुक्रे भोगी भानुजे शोकतप्तः ॥ ५४ ॥ इदानीं चन्द्राद्दशमे ग्रहस्थितिवशात्फलान्याह, तत्र तावदेकैकग्रहस्य फलम्-सिद्धा- रम्भ इति । चन्द्रलग्नात् = जन्मकालीनचन्द्राधिष्ठितराशितः, कर्मगे=दशमस्थानगते, भानौ= सूर्ये जातः सिद्धारम्भः = सिद्धाः ( साफल्यमुपगत ) आरम्भाः ( सङ्कल्पाः ) यस्य = सिद्धमनोरथ इति यावद्भवति । भौमे = मङ्गले चन्द्राद्दशमे सति जातः, साहसी = असमी- क्षितकृद् भवति । पापबुद्धिश्च भवति । सौम्ये = बुधे तथाभूते सति, विद्वान् = पण्डितो भवति । वाक्पतौ = बृहस्पतौ तथाभूते सति राजतुल्यो भवेन्न तु राजेति । शुक्रे तथासति भोगी = विविधभोगयुक्तो भवति । भानुजे=शनैश्चरे तथाभूते जातः, शोकतप्तः=चिन्ताकुल- चित्तो भवेदिति ॥ ५४ ॥ चन्द्रलग्नसे सूर्य दशवें हो तो सिद्धारम्भ होवे ( वह जिस कर्मका आरम्भ करे उसकी सिद्धि जरूर हो ), मंगल हो तो साहसी और पापबुद्धि, बुध हो तो विद्वान्, गुरु हो तो राजतुल्य, शुक्र हो तो भोगी और शनि हो तो शोकसे संतप्त होवे ॥ ५४ ॥ चन्द्रात्कर्मगते रवौ सरुधिरे मत्तः परस्त्रीरतो- ज्योतिर्विच्च सचन्द्रजे जलधनस्त्रीभूषणादिप्रियः । सिद्धार्थो नृपसंमतश्च सगुरौ शुक्रेण युक्ते नृप- प्रीतिस्त्रीधनवृद्धिभाक् शनियुते दीनो दरिद्रो भवेत् ॥ ५५ ॥ इदानीं चन्द्राद् दशमे भौमादिसहितस्य सूर्यस्य फलान्याह—चन्द्रादिति । सरुधिरे = मङ्गलेन सहिते रवौ चन्द्रात्कर्मगते सति जातः मत्तः, परस्त्रीरतश्च भवेत् । सचन्द्रजे = बुधयुक्ते रवौ चन्द्राद् दशमे सति ज्योतिर्वित् = ज्योतिषशास्त्रज्ञः, जलधनस्त्रीभूषणादिप्रियः = जलधनानि ( शङ्खमुक्तादीनि ) स्त्रियः ( सुवासिन्यः ) भूषणादयः ( अलङ्करणादयः ) प्रियाः ( अभीष्टाः ) यस्य स तथा भूतो भवेत् । सगुरौ=गुरुणा सहिते रवौ तथाभूते जातः सिद्धार्थः = सफलमनोरथः, नृपसंमतः=राजप्रियश्च भवेत् । शुक्रेण युक्ते रवौ तथा सति नृपप्रीतिस्त्रीधनवृद्धिभाग् भवेत् । शनियुते रवौ चन्द्राद्दशमे सति जातः, दीनः = अप्रसन्न- वदनः, दरिद्रः = निस्वश्च भवेदिति ॥ ५५ ॥ चन्द्रमासे दशवेंमें सूर्य मंगलके साथ हो तो मतवाला तथा परस्त्रीगामी हो । बुधके साथ हो तो ज्योतिषी, जलधन-स्त्री-भूषण आदि का प्रिय होवे । बृहस्पतिके साथ हो तो सिद्धार्थ ( पूर्णमनोरथ ), राजसंमत ( मंत्री ) हो । शुक्रसे युक्त हो तो राजासे प्रीति तथा स्त्री-धन-की वृद्धिवाला और शनिसे युक्त हो तो दुःखी तथा दरिद्र होवे ॥ ५५ ॥ चन्द्रात्कर्मणि भूसुते बुधयुते शास्त्रोपजीवी भवेत् सेज्ये नीचजनाधिपः सभृगुजे वैदेशिकः स्याद्वणिक् । सार्कौ साहसिकोऽसुतश्च शशिनः कर्मस्थिते बोधने सेज्ये षण्ढतनुश्च दीनवचनः ख्यातो नृपालप्रियः ॥ ५६ ॥ भाने चन्द्रमसो बुधे सभृगुजे विद्यावधूवित्तवान् सार्कौ पुस्तकलेखकश्च विषमाचारप्रवृत्तोऽथवा ।