जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 50, कुल 588 में से
संदर्भ में पढ़ें२४ सटीकजातकपारिजाते- ६ त्रिंशांशचक्रम् ।
| मे. | वृ. | मि. | क. | सिं. | क. | तु. | वृ. | ध. | म. | कुं. | मी. | राशि. |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | स्वामी अंश |
| श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | स्वामी अंश |
| बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | बृ. ८ | स्वामी अंश |
| बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | बु. ७ | श. ५ | स्वामी अंश |
| शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | शु. ५ | मं. ५ | स्वामी अंश |
अथ दशवर्गजाताः संज्ञाविशेषाः । मूलत्रिकोणस्वगृहोच्चभागवर्गोत्तमानां दशवर्गजानाम् ॥ संयोगजातोत्तमनामपूर्वा वैशेषिकांशा इति ते वदन्ति ॥ ४४ ॥ उत्तमं तु त्रिवर्गैक्यं चातुर्वर्गन्तु गोपुरम् । वर्गपञ्चकसंयोगं सिंहासनमिहोच्यते ॥ ४५ ॥ वर्गद्वयं पारिजातं षष्णां पारावतांशकः । सप्तमं देवलोकः स्यादष्टमं च तथा भवेत् ॥ ४६ ॥ ऐरावतं तु नवकं फलं तेषां पृथक् पृथक् ॥ ३ ॥ अत्र दशवर्गवशाज्जाताः काश्चित् विशेषसंज्ञा उच्यन्ते । दशवर्गजानां = दशवर्गातः समुत्पन्नानां स्वस्वमूलत्रिकोणस्वगृहोच्चभागवर्गोत्तमानां ( पूर्वोक्तानां ) च संयोगजातोत्तम- नामपूर्वाः = वर्गाणामैक्येनोत्पन्ना उत्तमनामपूर्वाः = उत्तमाद्या वैशेषिकांशास्ते विशेषयोगाः भवन्तीति विद्वांसो वदन्ति । अथ के ते विशिष्टसंज्ञा योगाः कथं चोत्पद्यन्ते तत्राह— उत्तममिति । त्रिवर्गैक्यं = त्रयाणां स्ववर्गाणामैक्ये ( दशवर्गेषु चेत् त्रयः स्ववर्गा भवन्ति तदा ) उत्तमं १ । चातुर्वर्गं तु गोपुरसंज्ञम् २ । वर्गपञ्चकसंयोगम् इह सिंहासनमुच्यते ३ । वर्गद्वयं पारिजातम् ४ । षष्णां वर्गाणामैक्ये पारावतांशकः ५ । सप्तमं = सप्तवर्गाणामैक्यं देवलोकः ६ । अष्टमं चाष्टवर्गैक्यमपि तथा = देवलोक एव भवेत् । नवमं = नववर्गैक्यं ऐराव- तम् ७ । दशैक्यं = ( दशवर्गे स्वकीया एव यदि सर्वे वर्गाः स्युस्तदा ) वैशेषिकांशो भवति ८ । तथोक्तं ग्रन्थान्तरे— "द्विवर्गैक्ये परिजातयोगस्तज्नो धनी भवेत् । त्रिवर्गैक्य उत्तमं श्रीश्चतुर्वर्गेस्तु गोपुरः ॥ सिंहासनः पञ्चवर्गे योगस्तज्नो नृपो भवेत् । षड्वर्गैक्ये पारावतयोगोऽत्र शास्त्रविच्चरः ॥ सप्ताष्टैक्ये देवलोकयोगस्तज्नः सुढो नृपः । नववर्गैक्य ऐरावतयोगोऽत्र सार्वभौमकः ॥ दशवर्गैक्ये वैशिशिको योगोऽस्मिन्बुद्धिमाञ्चरः । इति ॥ अत्र पराशरमतेन भेदो दृश्यते । तद्वचनञ्च— "पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते । चतुर्भिर्गोपुराख्यं स्याच्छरैः सिंहासनं तथा ॥ पारावतं भवेत्षड्भिर्देवलोकं च सप्तभिः । वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् ॥ दिग्भिः श्रीधामयोगः स्यादिति" ।