जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 504, कुल 588 में से
संदर्भ में पढ़ें४७८ सटीकजातकपारिजाते- यदिति । बलहीनदशापहारे = द्वादशस्थो द्वादशेशो वा बलहीनः स्यात्तदा तस्य दशा- न्तर्दशायां, यत्कारकद्युचरवर्गजनात् = तादृशोऽसौ ग्रहो यत्कारको भवेत्तद्वर्गजनात् जात अनर्थं = दुर्गतिं, समेति = प्राप्नोति ॥ ७४ ॥ द्वादशेश शुभवर्गमें हो त। इष्ट व्यय होता है । निर्बल ग्रहसे युत दृष्ट हो तो दुष्ट व्यय हो । दुष्ट फल कारक ग्रह जिस जातिका हो उसी वर्गके द्वारा उस निर्बल ग्रहकी दशा भुक्तिमें जातक दुःख पाता है ॥ ७४ ॥ क्रूरग्रहे बलवति व्ययगेऽरिनाशस्थानाधिपे कृषिधनस्थितिनाशकः स्यात् । रिष्फे चतुर्द्विपदभे सह तत्पदेन खेतेन सर्वपशुभृत्यविनाशमेति ॥ ७५ ॥ क्रूरग्रह इति । अरिनाशस्थानाधिपे=षष्ठाष्टमान्यतराधीशेशे, क्रूरग्रहे=पापग्रहे बलवति च सति, व्ययगे=द्वादशभावमुपगते जातः कृषिधनस्थितिनाशकः स्यात् । रिष्फ इति । द्वादशे भावे चतुर्द्विपदभे = चतुष्पद-( चापापरार्द्धहरिगोमकरादिमेषा- न्यतमे ) भे वा द्विपद-(कन्यान्नृयुग्मघटतौलिशरासनाद्यन्यतमे)भे, तत्पदेन खेतेन चतुष्पद- ग्रहेण (शनिभौमान्यतरेण ) द्विपदग्रहेण (गुरुशुक्रान्यतरेण) वा सह व्यवस्थिते ( चतुष्प- दराशौ चतुष्पदग्रहेण, द्विपदराशौ द्विपदग्रहेणेत्यर्थः ) जातः सर्व-पशु-भृत्य-विनाशमेति ॥ षष्ठेश या अष्टमेश बलवान् पापग्रह होकर १२ वें भावमें हो तो कृषि, धन तथा स्थान का नाश हो । द्वादश भावमें चतुष्पद या द्विपद राशि हो उसमें वैसा ही ग्रह भी हो तो सभी पशुओं और नौकरोंका नाश होता है ॥ ७५ ॥ विप्रादिखेचरयुते सति विप्रमुख्यैः जीवर्गतस्तु तरुणीखचरेण युक्ते । रिष्फे नरग्रहयुते रिपुणा सुहृद्भे जातः सुहृज्जनवशाद्धननाशमेति ॥ ७६ ॥ विप्रादीति । रिष्फे विप्रादिखेचरयुते सति विप्रमुख्यैः=ब्राह्मणादिभिः धनव्ययो वाच्यः । एतदुक्तं भवति । गुरुशुक्रान्यतरे द्वादशे सति ब्राह्मणद्वारेण, कुजार्कान्यतरे सति क्षत्रियेण, चन्द्रे सति वैश्येन, बुधे सति शूद्रेण, शनिराहुकेतूनामम्यतमे म्लेच्छै र्धनव्ययो वाच्य इति । तरुणीखचरेण = स्त्रीग्रहेण = चन्द्रशुक्रान्यतरेण युक्ते रिष्फे तु जीवर्गतः = योषित्जनव- शाद्धनव्ययः स्यात् । रिष्फे नरग्रहयुते = सूर्य-कुज-गुरुयुते, रिपुणा = शत्रुद्वारेण, तस्मिन्नेव रिष्फे सुहृद्भे = मित्रग्रहराशौ, नरग्रहयुतेऽर्थान्न रग्रहस्यासौ द्वादशो भावः सुहृद् भवेत्तदा जातः सुहृज्जनवशात् = मित्रजनद्वारेण धननाशमेति ॥ ७६ ॥ १२ वां भाव विप्रादि ग्रहसे युक्त हो तो विप्रादि जातिसे, जीवसंज्ञकग्रहसे युक्त हो तो स्त्रीवर्गसे, १२ वां भाव नर ग्रहसे युक्त हो तो शत्रुके द्वारा, यदि वह मित्रराशिमें हो तो मित्रसे जातकका धन नाश होता है ॥ ७६ ॥ अथ दानविचारः । त्यागी शुभग्रहयुते कृषकश्च धर्मी पापेऽवसानगृहगे तु विवादशीलः । नेत्रामयः पवनकृच्चपलोऽटनः स्यादुच्चस्वमित्रभवने तु परोपकारी ॥ ७७ ॥ त्यागीति । रिष्फेः शुभग्रहयुते जातः त्यागो = दानशीलः, कृषकः = कृषिकृत्, धर्मी= धर्मात्मा च भवति । पापे = पापग्रहे अवसानगृहगे = द्वादशभावमुपगते तु विवादशीलः = विषमभाषणपरः, पदनकृत् , नेत्रामयः=चक्षूरोगवान् , चपलः=चञ्चलः, अटनः=भ्रमणशीलः, स्यात् । तस्मिन्नेवावसानगृहे पापे उच्च-स्व-मित्रभवने गतवति तु जातः परोपकारी=अ- न्योपकृतिकृद्भवेदिति ॥ ७७ ॥ व्यय भाव शुभग्रहसे युक्त हो तो त्यागी, कृषक और धर्मात्मा हो । द्वादश भाव पापग्रह से युक्त हो तो विवादी, वातव्याधिके कारण नेत्ररोगी, चपल और घूमनेवाला हो । यदि द्वादशस्थ ग्रह उच्च, स्वगृही या मित्र गृही का हो तो परोपकारी होवे ॥ ७७ ॥