जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 503, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७७ लग्नादन्त्यतदीशभानुतनयैर्दूरारटनं दुर्गतिं दातृत्वं शयनादिसौख्यविभवं वित्तक्षयं चिन्तयेत् । रिष्फस्थे चरखेचरे चरगृहे दुःस्थाननाथेऽथवा नानादेशवनाटनो हि शनिना युक्तेऽथवाऽऽलोकिते ॥ ७२ ॥ लग्नादिति । दूरारटनं = दूरदेशादिभ्रमणम् , दुर्गतिं = यातनाम् , दातृत्वं = दानकर्म ( त्यागम् ), शयनादिसौख्यविभवं = पर्य्यङ्कादिसुखसम्पत्तिम् , वित्तक्षयं = धनापव्ययश्चै- तानि, लग्नादन्त्यतदीशभानुतनयैः = द्वादशभाव-द्वादशभावेश -शनैश्चरैः, चिन्तयेत् = विचारयेत् । रिष्फस्थ इति । चरखेचरे = चरप्रकृतिग्रहे = चन्द्रे ( २ अ० ४७ श्लो० द्र० ), अथवा दुःस्थाननाथे = षष्ठव्ययान्यतमभावपतिग्रहे चरगृहे सति, रिष्फस्थे=व्ययभावमुपगते तस्मिन् शनिना युक्ते अथवा आलोकिते च सति जातो जनः, हि=निश्चयेन, नानादेशवनाटनः=विवि- धदेशेषु वनेषु च भ्रमणशीलो भवेदिति ॥ ७२ ॥ अब व्ययभावका विचार कहते हैं:—१२ वें भाव, द्वादशेश और शनिसे दूरका जाना, दुर्गति, दान, शयनादिसौख्य, विभव और वित्तक्षयका विचार करे । द्वादश भावमें चरग्रह हो अथवा चरगृहमें दुष्ट स्थानका स्वामी हो शनिसे युक्त या दृष्ट हो तो जातक नानाप्रकारके देश और वनमें घूमनेवाला होवे ॥ ७२ ॥ अथ व्ययविचारः । रिष्फस्थानगते शुभे शुभयुते सौम्यग्रहालोकिते तन्नाथे विबलेऽरिनीचगृहगे वित्तव्ययाभावभाक् । रिष्फस्थे विबले बलेन सहिते रिष्फाधिपे वित्तहा मिश्रव्योमचरान्विते तु सकलं मिश्रव्ययं देहिनाम् ॥ ७३ ॥ रिष्फस्थानगत इति । शुभयुते = केनचित् शुभग्रहेण सहिते, शुभे = कस्मिंश्चिच्छुभ- ग्रहे रिष्फस्थानगते=द्वादशभावमुपगते, तस्मिन् सौम्यग्रहेणालोकिते, तथा तन्नाथे = द्वाद- शेशे, विबले = बलरहिते, अरिनीचगृहगे वा सति, जातः वित्तव्ययाभावभाक् = धनव्ययर- हितः ( धनसञ्चयकृदेव ) भवेत् । अथ धनहानियोगः—रिष्फस्थ इति । द्वादशे भावे विबले ग्रहे गतवति, रिष्फाधिपे = द्वादशेशे बलेन सहिते च सति जातः वित्तहा = धनक्षयकरः स्यात् । मिश्रेति । तस्मिन् द्वादशभावेशे वा द्वादशे भावे मिश्रव्योमचरान्विते = पापेन सौम्येन च सहिते तु देहिनां = जनिमताम् सकलं मिश्रव्ययं = साधारणं ( सन्मार्गेऽसन्मार्गेऽपि ) धनव्ययं ब्रूयादिति ॥ ७३ ॥ १२ वें भावमें शुभग्रह शुभग्रहसे युत और दृष्ट हो उसका स्वामी विबल, नीच, शत्रु- गृहमें हो तो धनका व्यय न हो । द्वादशमें निर्बल ग्रह हो और द्वादशेश बलसे युक्त हो तो धनकी हानि करनेवाला हो । १२ वां भाव या द्वादशेश मिश्रग्रह ( शुभग्रह और पापग्रह ) से युक्त हो तो मिश्रव्यय ( शुभ तथा अशुभमें खर्च ) हो ॥ ७३ ॥ इष्टव्ययो भवति शोभनवर्गयाते दुष्टव्ययो विबलखेटयुतेक्षिते वा । यत्कारकद्युचरवर्णजनादनर्थं जातः समेति बलहीनदशापहारे ॥ ७४ ॥ इदानीं शुभाशुभव्ययविचारमाह—इष्टव्यय इति । द्वादशे द्वादशेशे वा शोभनवर्ग- याते, वा सबलखेटयुतेक्षिते जातः इष्टव्ययः = सन्मार्गे धनव्ययकृद् भवति । अथवा तस्मिन् विबलखेटयुतेक्षिते, दुष्टव्ययः = अपमार्गे व्ययकृद्भवति ।