जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 502, कुल 588 में से
संदर्भ में पढ़ेंआयस्थ इति । विबलः = निर्बलः, वा ग्रहयुद्धे पराजितबलः, वा नीचारिदुःस्थानपः = नीचगतः, शत्रुगृहस्थः, दुःस्थान-(६।८।१२) पतीर्वा ग्रहो यदि आयस्थः = लाभस्थान- (११) गतः स्यात्तदा रेकायोगकरः = दारिद्र्ययोगकरः (६ अ० द्र०) स्यादसौ जातकः प्रतिदिनं भिक्षाटनं कुर्यात् । अस्मिन् योगे जातो नरो भिक्षारशी भवेदिति भावः ॥ ६९ ॥ धनेश, और लाभेश यदि लग्नेशके मित्र हों तो उसका धन सत्कर्म-देवता-विप्र- पुण्य-विषयमें दान आदिके योग्य कहे । विबल, पराजित, नीचगत, शत्रुगृहस्थ, दुःस्थानपति और रेकायोगकर्त्ता ग्रह यदि ११ भावमें प्राप्त हो तो प्रतिदिन भिक्षा मांगनेवाला हो ॥ ६९ ॥ लाभेशो दिनपेऽथवा शशधरे भूपालतुल्याश्रयाद् भौमे मन्त्रिजनाग्रजानुजकृषिद्वारैर्धनं लभ्यते । विद्याबन्धुसुतैः सुधाकरसुते जीवे निजाचारतः शुक्रे रत्नवधूगजादिपशुभिर्मन्दे कुवृत्त्या श्रियम् ॥ ७० ॥ इदानीं सूर्यादिग्रहे लाभभावेशो सति फलानि-लाभेशे दिनप इति। स्पष्टार्थ एवेति॥ ७०॥ यदि सूर्य वा चन्द्रमा लाभेश हो तो राजाके सदृश धनवान्के आश्रयसे, मंगल लाभेश हो तो मन्त्री, ज्येष्ठ तथा छोटे भाईसे और कृषिसे धन प्राप्त हो । बुध लाभेश हो तो विद्या-बन्धु-पुत्रसे धन लाभ हो । बृहस्पति लाभेश हो तो अपने आचारसे धन प्राप्त हो । शुक्र हो तो रत्न-स्त्री तथा हाथी आदि पशुसे लाभ हो । यदि शनि लाभेश हो तो कुवृत्तिसे धन लाभ होवे ॥ ७० ॥ लाभस्थानपतौ विलग्नभवनात् केन्द्रत्रिकोणस्थिते लाभे पापसमन्विते तु धनवान् तुङ्गादिराश्यंशके । तत्तत्कारकवर्गतो बलवशाद् योगानुसारं वदेत् तत्तत्खेटदशापहारसमये वित्तं वदेत्तद्दिशि ॥ ७१ ॥ लाभस्थानपताविति । एकादशभावस्वामिनि ग्रहे विलग्नभवनात् = जन्मलग्नात् केन्द्रे त्रिकोणे वा स्थिते, वा लाभे= एकादशभावे, पापसमन्विते=पापेन केनचित् सहिते, वा लाभेशे तुङ्गादिराश्यंशके विद्यमाने सति जातो जनस्तु धनवान् भवेत् । तथा च सर्वार्थचिन्तामणौ- “लाभेश्वरे केन्द्रगते त्रिकोणे वा समन्विते । लाभे वा पापसंयुक्त धनलाभमुदीरयेत्” । इति ॥ कया रीत्या धनलाभं वदेदित्याह - तत्तदिति । बलवशात् योगानुसारं च = धनला- भयोगे यो ग्रहो योगकृद्भवेत्तद्बलानुसारं (न्यूनाधिक्यम्) तत्तत्कारकवर्गतः = स योगकृद् ग्रहो यद्भावस्य कारको भवेत्तद्वर्गवशाल्लाभं वदेत् । कदा कुत्र च लाभं वदेदित्याह । तस्य योगकृतो ग्रहस्य दशापहारसमये, तद्दिशि च = योगकृद् ग्रहो यदिगधिपो भवेत्तस्यां दिशि वित्तं = धनलाभं वदेदिति ॥ ७१ ॥ लाभ स्थानका स्वामी लग्नसे केन्द्र या कोणमें स्थित हो लाभमें पापग्रह हो वा लाभेश उच्च आदि राशि या उसके नवांशमें हो तो धनवान् होवे । लाभ कारक ग्रहके साथ और योगके अनुसार उस ग्रहकी जाति द्वारा लाभ कहे । लाभ कारक ग्रहकी दशा तथा अन्त- र्दशामें उसी ग्रहकी दिशामें लाभ कहना चाहिये ॥ ७१ ॥ इति लाभभावविचारः । अथ व्ययभावफलम् ॥ अथाधुना व्ययभावफलानि विवक्षुरादौ व्ययभावे विचारणीयविषयकथनपूर्वकं विविध- देशवनाटनयोगमाह —