जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 510, कुल 588 में से
संदर्भ में पढ़ें४८४ सटीकजातकपारिजाते- करनेवाली, पापिनी होती है। पापग्रहसे दृष्ट-युत हों तो वह स्त्री व्यभिचारिणी होती है ॥७॥ लग्न और चन्द्रमा विषम राशिमें हों शुभग्रहसे युक्त हों और उन्हें शुभग्रह देखते हों तो स्त्री मिश्रित गुण, आकृति, स्थिति, चाल और बुद्धिवाली होती है। यदि दोनों युग्म (सम) राशिमें हों पापग्रहसे युक्त हों वा पापग्रह उन्हें देखता हो तो भी मिश्र गुणादि कहे। उस समय जन्म राशिपति पर जिस ग्रहका योग या दृष्टि हो उस ग्रहके बलानुसार विद्वान् समस्त फल कहते हैं ॥ ८ ॥ ओजे विलग्ने पुरुषैर्बलिष्ठैर्बलान्वितैश्चन्द्रबुधासुरेज्यैः । सामान्यशक्तौ सति सूर्य्यपुत्रे जाता हि तस्या बहवो धवाः स्युः ॥ ९ ॥ इदानीं कुलटायोगमाह—ओज इति । ओजे विलग्ने = विषमराशिके जन्मलग्ने, पुरु- षैः (रविभौमगुरुभिः) ग्रहैः यत्र तत्र बलिष्ठैः = स्थानादिवीर्ययुक्तैः, चन्द्रबुधासुरेज्यैः = चन्द्रबुधशुक्रैः, बलान्वितैः = सबलैः, सूर्य्यपुत्रे = शनैश्चरे, सामान्यशक्तौ = साधारणबलयुक्ते सति जाता = या स्त्री जायते, तस्याः स्त्रियाः, हि = निश्चयेन बहवो धवाः = स्वामिनो भव- न्ति । इत्थं भूते योगे जाता कन्या अनेकान् पतीन् वृणुते । कुलटा भवतीत्यर्थः ॥ ९ ॥ विषम राशिमें लग्न हो पुरुष ग्रह बली हों चन्द्रमा, बुध तथा शुक्र बलवान् हों, शनि सामान्य शक्ति युक्त हो तो उत्पन्न होनेवाली स्त्रीके बहुत पति होवें ॥ ९ ॥ युग्मे विलग्ने कुजसौम्यजीवशुक्रैर्बलिष्ठैः खलु जातकन्या । विख्यातनाम्नी सकलार्थतत्त्वबुद्धिप्रसिद्धा भवतीह साध्वी ॥ १० ॥ इदानीं साध्वीस्त्रीयोगमाह—युग्म इति । युग्मे विलग्ने = समराशिके लग्ने, कुजसौम्य- जीवशुक्रैः = मङ्गल बुध गुरु शुक्रैः, बलिष्ठैर्यंत्र तत्रस्थैः, जातकन्या = तदानीं जनिता कन्या, खलु = निश्चयेन, विख्यातनाम्नी = लोकेषु गीयमाना, सकलार्थानां तु तत्त्वबुद्धौ = सारावगमे प्रसिद्धा, साध्वी = सती (सदाचारवती) च भवति ॥ १० ॥ सम राशि लग्नमें, मंगल, बुध, गुरु और शुक्र बलवान् हों तो उत्पन्न कन्या निश्चय विख्यात नामवाली, सकल अर्थ, तत्त्व बुद्धिमें प्रसिद्धा तथा साध्वी होती है ॥ १० ॥ सौरे मध्यबले बलेन सहितैः शीतांशुशुकेन्दुजैः शेषैर्वीर्य्यसमन्वितैः पुरुषिणी यद्योजराश्युद्गमे । जीवारासृजिदैन्दवेषु बलिषु प्राग्लग्नराशौ समे विख्याताखिलशास्त्रयुक्तिकुशला स्त्री ब्रह्मवादिन्यपि ॥ ३१ ॥ इदानीं पुरुषिणीयोगं ब्रह्मवादिनीयोगञ्चाह—सौर इति । सौरे = शनौ, मध्यबले = सामा- न्यबलसहिते, शीतांशुशुकेन्दुजैः = चन्द्रशुकबुधैर्यत्र तत्र, बलेन रहितैः = निर्बलैः, शेषैः = सूर्य- भौमगुरुभिर्यत्र तत्र गतैर्वीर्यसमन्वितैः = सबलैः, यद्योजराश्युद्गमे = यदि विषमराशिरुद्गमे लग्ने भवति ( १।३।५।७।९।११ राशीनामन्यतमे लग्न इत्यर्थः) तदा जाता स्त्री पुरुषिणी = विविधपुरुषा भवतीति । ब्रह्मवादिनीमाह—जीवारासृजिदैन्दवेषु = गुरुभौमशुक्रबुधेषु, यत्र तत्र बलिषु, प्राग्लग्नराशौ समे = जन्मलग्ने सम- (२।४।६।८।१०।१२ एतदन्यतम) राशौ सति जाता स्त्री विख्याताखिलशास्त्रयुक्तिकुशला = प्रसिद्धानि चाखिलानि शास्त्राणि तेषां युक्तिषु (विवेकेषु) कुशला (प्रौढमतिः), ब्रह्मवादिन्यपि = मोक्षशास्त्रेऽपि दक्षा भवतीति ॥ ११ ॥ शनि मध्यबली हो, चन्द्र-शुक्र और बुध बलसे हीन हों, शेष ग्रह बलयुक्त हों, यदि विषम राशिके लग्नमें जन्म हो तो पुरुषिणी (परपुरुषगामिनी) हो । समराशिमें प्रथम लग्न हो और बृहस्पति, शुक्र, बुध बलवान् हों तो वह स्त्री विख्यातनाम्नी, सम्पूर्ण शास्त्र युक्ति में कुशल और ब्रह्मवादिनी होवे ॥ ११ ॥