भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 509, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 509

स्त्रीजातकाध्यायः ।।१६। ४८३ निधनेन स्त्रीणामष्टमभावेन तासां वैधव्यं = पतिनिधनं विचार्यम् । लग्नभवनाज्जन्मल- ग्नात्तेजः = कान्तिः, यशः, सम्पदः= श्रियो विचार्याः । पञ्चमभावतः पुत्रमपत्यं चिन्तयेत् । कामेन = सप्तमभावेन पतिसुखं चिन्त्यम् । इति केचिदन्ये विज्ञा ऊचुः । धर्मोपयातग्रहैः = नवमभावस्थितग्रहैस्तत्र बलवद्ग्रहवशात् , योषितां = स्त्रीणां, प्रव्रज्यां = सन्यासं अपि चातिसुखं विचिन्त्यम् । शेषमवशिष्टं भावजं फलं योगजन्यं चाखिलं फलं, नारीनराणां = स्त्रीपुरुषाणां, समम् = समानमेव भवति । न च तेषु कश्चिद्भेद इति ॥ ६ ॥ स्त्रियोंके जन्मसमय लग्न और चन्द्रमामें जो बली हो उससे धन, रूप और बल और उसके नवमे भावसे पुत्र और आयकी वृद्धिको कहे । अष्टम गृहसे शुभ और अनिष्ट कहे । सप्तम गृहसे स्वामीका शुभाशुभ कहे । किसीका मत है कि नवम भवनसे स्वामीका शुभा- शुभ फल कहे ॥ ५ ॥ अष्टमसे वैधव्य योग, लग्नसे तेज-यश-सम्पत्ति विचारे । पञ्चम भावसे पुत्र विचारे । सप्तमसे पतिका सुख विचारना किसीका मत है । नवममें प्राप्तग्रह-( संन्यास ) से प्रव्रज्या और स्त्रियोंका विशेष सुख विचारे । शेष भावोंके फल स्त्री और पुरुषके समान हैं ॥ ६ ॥ युग्मे लग्ननिशाकरौ यदि वरस्त्री रूपशीलान्विता सौम्यालोकितसंयुतौ गुणवती साध्वी च सम्पद्युता । ओजर्क्षे पुरुषाकृतिश्च चपला पुंश्चेष्टिता पापिनी पापव्योमचरेण वीक्षितयुतौ जाता दुराचारिणी ॥ ७ ॥ लग्नेन्दू विषमर्क्षगौ शुभयुतौ सौम्यग्रहालोकितौ नारी मिश्रगुणाकृतिः स्थितिगतिप्रज्ञावती जायते । युग्मागारगतौ तु पापसहितौ पापेक्षितौ वा तथा तद्राशीशयतेक्षकग्रहबलादाहुः समस्तं विदः ॥ ८ ॥ इदानीं लग्नेन्दुवशात्स्त्रीफलमाह । यदि लग्ननिशाकरौ = स्त्रिया जन्मलग्नं चन्द्रश्च, युग्मे=समराशौ ( २।४।६।८।१०।१२ राशीनामन्यतमे ) स्यातां तदा जाता स्त्री, वरस्त्रीरूप- शीलान्विता भवति । तौ युग्मगतौ लग्नेन्दू सौम्यैः शुभग्रहैरालोकितौ दृष्टौ वा संयुतौ भवेतां तदा स्त्री गुणवती साध्वी सम्पद्युता च भवति । ओजर्क्षे इति । तौ लग्नेन्दू यदि ओजर्क्षे = विषम-( १।३।५।७।९।११ ) राशौ भवेतां तदा जाता स्त्री, पुरुषाकृतिः = पुरुषस्वभावा, चपला=चाञ्चल्ययुक्ता, पुंश्चेष्टिता=पुंश्चली, पापिनी च भवति । तौ लग्नेन्दू विषमर्क्षगौ, पाप- व्योमचरेण = पापग्रहेण, विक्षितौ = दृष्टौ, वा युतौ = सहितौ भवेतां तदा जाता स्त्री दुरा- चारिणी दुष्कर्मकर्त्री भवति । तथा च—फलदीपिकायाम्— 'उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ सुतनयपतिभूषा—सम्पदुत्कृष्टशीला । अशुभसहितदृष्टौ चौजगौ पुंस्वभावा कुटिलमतिरवश्या भर्तृ'रघ्ना दरिद्रा' ॥ इति । तौ लग्नेन्दू, विषमर्क्षगौ शुभग्रहेण युतौ, सौम्यग्रहालोकितौ वा भवेतां तदा जाता नारी= स्त्री, मिश्रगुणाकृतिः=स्त्री-पुरुषोभयाकृतिगुणयुक्ता तथा स्थितिगतिप्रज्ञावती=दिग्देशकालादि- बुद्धियुक्ता जायते । तावेव लग्नेन्दू, युग्मागारगतौ=समराशिगतौ, पापसहितौ वा पापदृष्टौ भवेतां तदा तथाऽर्थात्पूर्वोक्त-(मिश्रगुणाकृतिरित्यादि) फलयुक्ता भवति । अथ तद्राशीशयुते- क्षकग्रहबलात्=तस्याः कन्याया यो राशीशश्चन्द्राधिष्ठितराशिपतिस्तत्र यस्य यस्य ग्रहस्य योगो दृष्टिश्च भवति, तेषु बलीयसो ग्रहस्यानुरूपं समस्तं फलंविदो होराशास्त्रज्ञा वदन्ति ॥७-८॥ यदि सम राशिमें लग्न और चन्द्रमा दोनों हों तो श्रेष्ठ स्त्रीके रूप और शीलसे स्त्री युक्त हो । यदि उसे शुभग्रह देखते हों तो वह स्त्री गुणवती साध्वी और संपत्ति युक्त हो । लग्न और चन्द्रमा यदि विषम राशिमें हों तो स्त्री पुरुषकी आकृतिवाली, चंचल, पर-पुरुष पर चेष्टा