जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 508, कुल 588 में से
संदर्भ में पढ़ें४८२ सटीकजातकपारिजाते- दूसरोंके उपकारके लिये दीर्घायु पुत्र-स्वामी-स्त्री-सुख विपुल श्री तथा यशको बताने वाली स्त्रीजातक पत्रिकाको लिखा है। जिसके अन्दर सभी स्पष्टग्रहके अष्टकवर्ग, षड्बल, आयु, गोचर, भावफल और अनेक दशाचक्र दर्शाये गये हैं ॥ ३ ॥ स्त्रीणां जन्मफलं नृयोगमुदितं यत्तत्पतौ योजयेत्- तासां देहशुभाशुभं हिमकराल्लग्नाच्च वीर्याधिकात् । भर्तॄणामगुणं गुणं मदगृहाच्छिद्राच्च तेषां मृतिम् सौम्यासौम्यबलाबलेन सकलं सञ्चिन्त्य सर्वं वदेत् ॥ ४ ॥ इदानीं स्त्रीणां जातकफलान्युच्यन्ते । स्त्रीणां जन्मफलं = जन्मकालवशाज्जातं शुभा- शुभं फलं यन्नृयोगं पुरुषसम्भवमुदितं तत्सर्वं तासां पतौ = स्वामिनि योजयेत् । एतदुक्तं भवति । स्त्रीषु यद्यत्फलमक्षमं तत्तत्तासां पतिविषये बिजानीयात् । यथा राजयोगादिकं पुरुषसम्भाव्यम् । अथ तासां स्त्रीणां देहशुभाशुभं = शरीरसौख्यदुःखं हिमकराच्चन्द्रवशा- द्वाग्नाज्जन्मलग्नाच्च वीर्याधिकाद्यांश्चन्द्रलग्नयोर्मध्ये यो बलवान् भवेत्तद्वशाच्छारीरिकं सुखदुःखं विचिन्त्यम् । चन्द्रे लग्ने वा शुभे शरीरसौख्यम् । लग्ने चन्द्रे वा विबले (क्रूरे) शरीरकष्टमिति ब्रूयात् । तासां स्त्रीणां भर्तॄणां = पतीनामगुणं = दोषं गुणं च मदगृहाज्ज- न्मलग्नात्सप्तमं यद्गृहं तस्मात्सप्तमभावाच्चिन्तयेत् । तेषां पतीनां, छिद्रादष्टमभावात् (स्त्रीणां जन्माष्टमगृहात् ) मृतिः विवेचनीया । अन्यत्सकलं सौम्यासौन्यबलेन शुभपाप- बलेन सञ्चिन्त्य = विविच्य सर्वं शुभाशुभं वदेत् । यस्मिन् शुभबलाधिक्यं तच्छुभम्, यस्मिन्नशुभबलाधिक्यं तदशुभमिति ब्रूयादिति । तथाऽत्र वराहमिहिरः- यद्यत्फलं नरभवेऽक्षममङ्गनानां तत्तद्वदेत्पतिषु वा सकलं विधेयम् । तासां तु भर्तृमरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥ इति ॥४॥ पुरुषोंके योगफल जो कहे गये हैं वे स्त्रियोंके योगमें उसके पतिके वास्ते कहने चाहियें। स्त्रियोंके देहका शुभाशुभ फल लग्न या चन्द्रमामें अधिक बलीसे विचारे । सप्तमसे पतिके अगुण और गुणको विचारे । अष्टमसे पतिकी मृत्यु विचारे । यह शुभ और पापग्रहोंका बलाबळ विचार कर सभी फल कहने चाहिये ॥ ४ ॥ स्त्रीणां जन्मनि लग्नशीतकरयोर्मध्ये बली यस्ततः सम्पद्रूपबलानि तन्नवमतः पुत्रायुवृद्धिं वदेत् । सौमङ्गल्यमनिष्टमष्टमगृहाद् भर्तुःश्रियं सप्तमात् केचिद्भर्तुःशुभाशुभं शुभगृहादिच्छन्ति होराविदः ॥ ५ ॥ वैधव्यं निधनेन लग्नभवनात्तेजो यशः सम्पदः पुत्रं पञ्चमभावतः पतिसुखं कामेन केचिद्विदुः । प्रव्रज्यामपि योषितामतिसुखं धर्मोपयाताद्ग्रहैः शेषं भावजयौगजन्ममखिलं नारीनराणां समम् ॥ ६ ॥ स्त्रीणां, जन्मनि = जन्मकाले लग्नशीतकरयोः = जन्मलग्नचन्द्रयोर्मध्ये यो बली भवेत्त- तस्तस्माद्बलयुक्ताच्चन्द्राल्लग्नाद्वा स्त्रीणां सम्पदः = श्रियः, रूपमाकृत्यादि, बलानि = शौर्याणि ज्ञेयानि । तन्नवमतः = स्त्रीजन्मलग्नान्नवमभावतः पुत्रायुवृद्धिं = पुत्रस्यात्मजस्यायुष्यायस्य द्रव्या- देर्लाभस्य च वृद्धिं वदेत् । सौमङ्गल्यं = सौभाग्यं, अनिष्टं=मरणञ्चाष्टमगृहाच्चिन्त्यम् । सप्तम- भावात्स्त्रीणां भर्तुःश्रियं = पतिसौख्यं विचिन्तयेत् । अत्र केचित् होराविदो जातकशास्त्रवेत्तारो भर्तुःशुभाशुभं स्त्रीणां शुभगृहान्नवमभावादिच्छन्ति । परं तन्नाचार्याभिमतं केचिदिति पदो- पादानादिति । अतः सप्तमभावादेव पतिशुभाशुभं विचार्यमिति ॥ ५ ॥