जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 507, कुल 588 में से
संदर्भ में पढ़ेंश्रीजातकाध्यायः ।।१६।। ४८१ पुष्टिं करोति । स एव लग्नेशो नीचारिगो भूत्वा यद्भावगः स्यात्तस्यान्यथा=अशुभमेवकरोतीति । इति द्वादशभावफलविचारः । पारिजाते सुधा टीका कपिलेश्वररजिता । अध्याये पञ्चदशके पूत्ति भावफले गता ॥ १५ ॥ दुष्ट स्थानका स्वामी दुष्ट स्थानमें हो तो उस भावकी पुष्टि कहे । आयु स्थानका स्वा- मी जहां विबल होकर रहता है उस भावका नाश होता है। बली लग्नेश शुभग्रहसे दृष्ट युक्त होकर जिस भावमें प्राप्त हो उस भावका विशेष शुभ करता है। नीच, या शत्रु गृहका हो तो अन्यथा (अशुभ) फल देता है ॥ ८३ ॥ इति जातकपारिजाते पञ्चदशाध्याये 'विमला' हिन्दी टीका समाप्ता ॥ १५ ॥ अथ श्रीजातकाध्यायः ॥ १६ ॥ श्रीबलारोग्यसन्तानविद्याकीर्त्तिविवर्द्धनम् । तिथिभग्रहसंयुक्तं जातकं ब्रूमहे वयम् ॥ १ ॥ अर्थार्जने सहायः पुरुषाणामापदर्णवे पोतः । यात्राकाले मन्त्री जातक मपहाय नास्त्यपरः ॥ २ ॥ श्रीमज्जातकपत्रिका परहितं व्योमाधिवासस्फुटैः पञ्चाङ्गद्युचराष्टवर्गसहितस्थानादिषड्वीर्यजैः । आयुर्गोचरयोगभावजफलैः सार्द्धं दशाचक्रजै- र्दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकीर्त्तिदा लिख्यते ॥ ३ ॥ अथाधुना श्रीजातकाध्यायो व्याख्यायते । तत्रादौ त्रिभिः श्लोकैर्जातकविवरण- मुच्यते । श्रीबलारोग्येत्यादि । श्रियः = सम्पदः, बलानि = शौर्याणि, आरोग्यं = नैरूज्यम्, सन्तानाः = अपत्यानि, विद्याः, कीर्त्तयः = यशांसि, एतेषां विवर्द्धनं यतो ज्ञायते तं तिथिभ- ग्रहसंयुक्तं तिथिनक्षत्रग्रहवशाज्जायमानं जातकं वयं ग्रन्थकर्त्तारो ब्रूमहे प्रकटयाम इति । जन्मकालिकग्रहतिथिनक्षत्रवशादेव सकलं शुभाशुभफलं सङ्घटत इति भावः । अयं हिजातकः पुरुषाणामर्थार्जने सहायो भवत्यर्थात् कश्चिज्जातकोक्तसमयेऽर्थार्जने प्रवृत्तो भवति स सुखे- नार्थमुपार्जयति । अथवा जातकशास्त्रबलेन जातकविदां (ज्योतिर्विदाम् ) पुरुषाणामर्थाः कुशलेन सिद्ध्यन्ति । आपदर्णवे पोतः = आपदो विपत्तेरणर्वः समुद्रस्तस्मिन् पोतस्तरणः । जातकशास्त्रमेव पुरुषाणामापदवस्थायां परित्राणोपायं दर्शयतीति भावः । यात्राकाले मन्त्री । यथा मन्त्री नृपमधुनाऽनेन विधिना वर्तितव्यमधुनेदमाचरणीयमित्यादि विजयमार्गमुपदिशति तथैवैतज्जातकशास्त्रमात्मविहितमार्गे गच्छतां पुरुषाणां कौशल्यं प्रकटयतीत्यर्थः । अतएव पुरुषाणां धनोपार्जने सहायकः, आपदर्णवे पोतः, यात्राकाले मन्त्री जातक मपहाय = जातक- शास्त्रं विना अपरो नास्ति, किन्तु जातकबलादेव जनिमतां सर्वं सम्पत्स्यत इति भावः । अत्र तृतीयश्लोकेन जातकपत्रिका-(जन्मपत्रिका) लेखनोपकरणानि प्रदर्श्यन्ते । तात्का- लिकाः स्पष्टग्रहाः, पञ्चाङ्गस्थिता ग्रहाः, ग्रहाणामष्टकवर्गाः, ग्रहाणां स्थानादिषड्बलानि, आयूंषि, योगाः, भावफलानि, दशाचक्राणि चैतैः सहिता दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकी- र्त्तिदा श्रीमज्जातकपत्रिका लिख्यते मनीषिण्येति ॥ १-३ ॥ अब हम श्री, बल, आरोग्य, सन्तान, विद्या और कीर्तिको बढ़ानेवाला तिथि-नक्षत्र-ग्रहसे युक्त जातकको कहते हैं ॥ १ ॥ धनोपार्जनमें सहायक, पुरुषोंके आपत्ति रूपी समुद्रमें जहाज, यात्रा समयमें मंत्री जातकको छोड़ दूसरा नहीं है ॥ २ ॥ ४१ जा०