भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 514, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 514

४८८ सटीकजातकपारिजाते- सौरारगृहे तद्गत् शशिनि सशुक्रे विलग्नगे जाता । मात्रा साकं कुलटा क्रूरग्रहवीक्षिते भवति ॥ द्यूने तु कुजनवांशे शनिना दृष्टे सरोगयोनिः स्त्री । सद्ग्रहभागे चारुश्रोणी पतिवल्लभा भवति ॥ २१ ॥ शनि या मङ्गलकी राशिमें लग्न हो वहां शुक्र चन्द्रमाके सहित हो, उसे पापग्रह देखते हों तो वह स्त्री माताके सहित पुंश्चली हो । सातवेंमें मङ्गलके नवांशको शनि देखता हो तो योनिमें व्याधि हो ! यदि शुभ ग्रहके अंशमें हो तो स्त्रीकी कमर रमणीय हो और वह पतिकी प्यारी होवे ॥ २१ ॥ बलहीनेऽस्तगे पापे सौम्यग्रहानिरीक्षिते । पत्या विसृज्यते नारी नीचारिस्थे च वैरिणी ॥ २२ ॥ श्लोकोऽयं सरलार्थोऽपि च १६ तमश्लोकस्य द्वितीयपदे गतार्थो भवतीति ॥ २२ ॥ निर्बल पापग्रह सप्तम स्थानमें हो उसे शुभग्रह देखते हों तो वह स्त्री पतिसे त्यागी जाय । यदि नीच या शत्रु-स्थानमें वह पापग्रह हो तो वह पतिकी वैरिणी हो ॥ २२ ॥ उत्सृष्टा मदनस्थिते दिनकरे शत्रुग्रहालोकिते ऽविश्वस्ताऽवनिजे वधूरमणयोरन्योन्यवैरं तु वा । सौम्यासौम्ययुते कलत्रभवने जाता पुनर्भूर्ः शनौ कामस्थे रिपुवीक्षिते त्वविधवा जाता जरां गच्छति ॥२३॥ इदानीं स्त्रीजातके सप्तमभावफलं ग्रहपरत्वेनोच्यते-उत्सृष्टेति । दिनकरे = सूर्ये, मदन- स्थिते = सप्तमभावमुपगते, तस्मिन्, शत्रुग्रहेणालोकिते सति स्त्री पतिना उत्सृष्टा = त्यक्ता भवति । अवनिजे=भौमे, मदनस्थिते शत्रुग्रहालोकिते च स्त्री अविश्वस्ता, वा तत्र वधूरम- णयोः=स्त्रीपुंसोरन्योन्यवैरं=परस्पर विद्वेषो भवति । कलत्रभवने = सप्तमे भावे, सौम्यासौ- म्ययुते=शुभपापग्रहैः सहिते सति जाता स्त्री पुनर्भूर्ः=पत्यन्तरकर्त्री, भवति । शनौ, कामस्थे= सप्तमभावस्थे, रिपुणा वीक्षिते च सति जाता स्त्री तु अविधवा सती (कुमारिकैव ) बाल्य इति यावत् जरां वृद्धत्वं गच्छति । अर्थात्शनिः सप्तमे पापद्दष्टो भवेत्तदा कुमारिकैव स्त्री वृद्धत्व- मुपयाति । तस्या विवाहो न भवेदित्यर्थः । तथा बृहज्जातके- 'उत्सृष्टा रविणा, कुजेन विधवा बाल्येऽस्तराशिस्थिते । कन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरां गच्छति' इति ॥ २३ ॥ सूर्य सप्तममें हो उसका शत्रु उसे देखता हो तो वह स्त्री उत्सृष्टा ( त्यागी ) हो । मङ्गल हो तो विश्वाससे हीन अथवा स्त्रीपुरुषमें परस्पर वैर हो । सप्तम भवनमें शुभ अशुभ दोनों प्रकारके ग्रह हों तो पुनर्भूर् हो । शनि सप्तम स्थानमें शत्रुसे देखा जाता हो तो बुढ़ापा तक कुमारी रहती है ॥ २३ ॥ पापर्क्षे मदनस्थिते शनियुते वैधव्यमेत्यङ्गना जारासक्तविलासिनी सितकुजावन्योन्यराश्यंशगौ ॥ चन्द्रे कामगृहं गते तु पतिना सार्द्धं दुराचारिणी मन्दारर्क्षविलग्नौ शशिसितौ बन्ध्या सुतस्थे खले ॥ २४ ॥ पापर्क्ष इति । मदनस्थिते = सप्तमभावगते, पापर्क्षे = पापग्रहर्क्षे, शनियुतेऽथोत्सप्तमो भावः पापराशिस्तत्र शनिः स्थितो भवेत्तदा, अङ्गना = जायमाना कन्या, वैधव्यमेति=भर्तृ- मरणं प्राप्नोति । जारिणीमाह । सितकुजौ = शुक्रमङ्गलौ, अन्योन्यराश्यंशगौ=शुक्रः कुज- राशिनवांशगतः, कुजः शुक्रराशिनवांशगतः स्यात्तदा जाता स्त्री, जारासक्तविलासिनी=पर- पुरुषरतामोदवती भवति । दम्पत्योः व्यभिचारित्वमाह । चन्द्रे, कामगृहं=सप्तमभावं गते तु स्त्री पतिना सार्द्धं दुराचारिणी भवति । चन्द्रमा यदि स्त्रीजातके सप्तमे भवेत्तदा सा स्त्री