भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 513, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 513

स्त्रीजातकाध्यायः ॥१६॥ ४८७ आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भू र्भवेत् क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्येक्षिते प्रोज्झिता । अन्योन्यांशकयोः सितावनिजयोरन्यप्रसक्ताङ्गना द्यूने वा यदि शीतरश्मिसहिते भर्तुस्तदाऽनुज्ञया ॥ १६ ॥ इदानीं विधवा-पुनर्भू-भर्तृत्यक्तयोगानाह—आग्नेयैरिति । आग्नेयैः = पापग्रहैः, अस्तराशिसहितैः = सप्तमस्थानगतैः, विधवा भवति । मिश्रैः = शुभैः पापैश्च सप्तमस्यैः, पुनर्भूर्भवेत् (पुनर्भू लक्षणमग्रिमश्लोके द्रष्टव्यम् ) पुनरन्येन परिणीता भवेत् । हीनबले, क्रूरे = पापग्रहे, अस्तगे=सप्तमभावगे, तथाभूते केनचित् सौम्येन = शुभग्रहेण, ईक्षिते = दृष्टे स्त्री, स्वपतिना प्रोज्झिता = स्वभर्त्रा परित्यक्ता स्यात् । अन्योन्येति । सितावनिजयोः= शुक्राङ्गारकयोः, यत्र तत्रान्योन्‍यांशगयोः शुक्रनवांशे भौमः, भौमनवांशे शुक्नो भवेत्तदा सा अङ्गना = स्त्री, अन्यप्रसक्ता = परपुरुषरक्ता भवति । वा यदि तौ सितावनिजौ, शीतरश्मिना= चन्द्रेण, सहितौ, द्यूने = सप्तमे भावे भवेतां तदा सा स्त्री, भर्तुरनुज्ञया=पतिनिर्देशेन पर- पुरुषमुपयाति न तु स्वेच्छयेति । तथा जातकाभरणे— अन्योन्यांशावस्थितौ भौमशुक्रौ स्यातां कान्तासङ्गताऽन्येन नूनम् । चन्द्रोपेतौ शुक्रवक्रौ स्मरस्थावाङ्गेन स्यात् स्वामिनधामनन्ति ॥ १९ ॥ सातवां भाव यदि पापग्रहोंसे युक्त हो तो स्त्री विधवा हो । यदि पापग्रह, शुभग्रह दोनों हों तो दो बार ब्याही जाय या अनेक पतिवाली हो । बलरहित क्रूरग्रह सप्तम गृहमें हो उसे शुभग्रह देखता हो तो अपने पतिसे त्यागी जाय ( उसका स्वामी उसको छोड़ दे ) । शुक्र और मंगल परस्पर एक दूसरेके अंशमें हों तो अन्य पुरुषमें वह स्त्री प्रसक्त रहे । यदि दोनों सप्तम भवनमें चन्द्रमासे युक्त हों तो पतिकी आज्ञासे पर पुरुष संगिनी हो ॥ १९ ॥ स्वैरिणी या पतिं त्यक्त्वा सवर्णं कामतः श्रयेत् । अक्षतं च प्रजाद्वारं पुनर्भूः संस्कृता पुनः ॥ २० ॥ इदानीं स्वैरिणी-पुनर्भू लक्षणमुच्यते । या स्त्री स्वकीयं पतिं त्यक्त्वा कामतः = स्वे- च्छया, सवर्णं = निजवर्णतुल्यमन्यं पुरुषं श्रयेत् सा स्वैरिणी भवति । अक्षतमिति । विवाहि- तायाः यस्याः स्त्रियाः प्रजाद्वारं = यतः प्रजाः ( अपत्यानि ) निःसरन्ति, 'योनिरिति यावत्' अक्षतं = पुरुषसङ्गेन-(मैथुनेन ) रहितं स्यात् सा स्त्री पुनरन्येन पुरुषेण संस्कृता = विवा- हिता भवति तदा सा 'पुनर्भूः' भवतीति ॥ २० ॥ जो स्त्री अपने पतिको छोड़कर कामसे ( अपनी इच्छासे ) सवर्ण ( अपने जातिके ) अन्य पुरुषका सेवन करे वह स्वैरिणी कहलाती है । प्रथम पतिसे यदि स्त्रीकी योनि अक्षत (मैथुन रहित) हो तो उसकी दूसरी शादी होती है, इस लिये उसका नाम पुनर्भू होता है ॥ सौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं पुंश्चली पापदृष्टे ॥ कौजे ऽस्त्यंशे सौरिणा व्याधियोनिर्च्चारूश्रोणी वल्लभा सद्ग्रहांशे ॥ २१ ॥ इदानीं जनन्या सह पुंश्चली-व्याधियोनि-सुभगयोगानाह—सौरारक्षं इति । सौर- रक्षे = शनिभौमराशौ ( १०।११।१।८ = एषामन्यतमराशौ ) लग्नगते तस्मिन्, सेन्दुशुक्रे = चन्द्रशुक्राभ्यां सहिते, तथाभूते पापदृष्टे = केनचित्पापग्रहेण निरीक्षिते च जाता स्त्री, मात्रा सह पुंश्चली = जनन्या सहितैव परपुरुषगामिनी स्यात् । कौज इति । अस्तांशे = यज्जन्म- तसप्तमे राशौ यन्नवांशो भवति तस्मिन्, कौजे = कुजसम्बन्धिके, अर्थात्सप्तमे राशौ भौम- नवांशे सति तस्मिन्, सौरिणा = शनिना दृष्टे स्त्री व्याधियोनिः = सरोगभगा भवति । चारु श्रोणी वल्लभा सद्ग्रहांशे = तस्मिन् सप्तमे भावे शुभग्रहस्य नवांशे सति स्त्री चारुश्रोणी ( सुन्दरकटियुक्ता ) वल्लभा = भर्तृप्रिया च भवति । तथा च सारावल्याम्—