जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 523, कुल 588 में से
संदर्भ में पढ़ेंस्त्रीजातकाध्यायः ॥१६॥ ४१७ गौराङ्गः पतिरस्तगे दिनकरे कामी सरोषेक्षण- श्चन्द्रे रूपगुणान्वितः कृशतनुर्भोगी रुगार्तो भवेत् । नग्नः क्रूररसोऽलसः पटुवचाः संरक्तकान्तिः कुजे विद्यावित्तगुणप्रपञ्चरसिकः सौम्ये मदस्थानगे ॥ ५२ ॥ दीर्घायुर्नृपतुल्यवित्तविभवः कामी च बाल्ये गुरौ कान्तो नित्यविनोदकेलिचतुरः काव्ये कविः क्ष्मापतिः । मन्दे वृद्धकलेवरोऽस्थिरतनुः पापी पतिः कामगे राहौ वा शिखिनि स्थिते मलिनधीर्नीचोऽथवा तत्समः ॥ ५३ ॥ इदानीं सप्तमभावे ग्रहपरत्वेन भर्तुर्लक्षणमाह—गौराङ्ग इति श्लोकयुगलेन सरलार्थेन ॥ सूर्य सप्तम भवनमें हो तो पति गौर वर्ण हो, कामी और रोष दृष्टिवाला हो। चन्द्रमा सप्तम स्थानमें हो तो पति रूपगुणसे युक्त दुर्बल गात्र भोगी और रोगी हो । मङ्गल सप्तम भावमें हो तो पति नग्न, क्रूर स्वभाववाला, आलसी, चतुरता पूर्वक बोलनेवाला और रक्त गौर कान्तिवाला हो । बुध सप्तम भावमें हो तो विद्या, वित्त, गुण-प्रपञ्चका रसिक हो॥५२॥ बृहस्पति सप्तम स्थानमें हो तो पति दीर्घायु, राजाके सदृश धनी तथा बाल्यावस्थामें ही कामी हो । शुक्र सप्तम स्थानमें हो तो तेजवान्, नित्य विनोद केलि करनेमें चतुर कवि और भूपति हो । शनि सप्तममें हो तो वृद्ध शरीर, एवं चञ्चल शरीरवाला और पापी पति हो । राहु वा केतु हो तो मलिनबुद्धि नीच वा नीचके सदृश हो ॥ ५३ ॥ दिग्देशस्थितिधर्मकर्मजगुणाः पुञ्जातके योषितां ये नारीजनजातके निजपतौ संयोजितास्तत्त्वतः । द्यूनांशोपगतग्रहेषु बलवत्खेटांशतुल्याः सुताः केन्द्रे कामपतिः करोति विपुलं कल्याणकालोत्सवम् ॥ ५४ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते षोडशोऽध्यायः ॥१६॥ दिग्देशेति । पुंजांतके = पुरुषाणां जातके दिग्देशस्थितिधर्मकर्मजगुणाः ये निगदितास्त एव योषितामपि जन्मनि विनिर्देश्याः । एवं नारीजनजातके = स्त्रीजन्मविषये ये निगदिता दिगादिगुणास्ते स्त्रीणां निजपतौ = स्वस्वभर्तृविषये तत्त्वतो विशेषेण संयोजिता भवन्ति । ‘यत्तत्फलं नरभवेऽसममङ्गनानां तत्तद्वदेत्पतिषु वा सकलं विधेयम्’ इति वराहोक्तेन । द्यूनां- शेति । द्यूनांशो = सप्तमभावस्य नवांशे यावन्तो ग्रहा भवेयुस्तेषां मध्ये बलीयसो ग्रहस्य नवांशसंख्यया तुल्याः सुता भवन्ति । एतदुक्तं भवति । यत्र तत्र राशौ लग्नात्सप्तमभावराशेः सम्बन्धिके नवांशे यावन्तो ग्रहा भवेयुस्तेषां मध्ये यो ग्रहः सर्वापेक्षया बली भवेत् असौ ग्रहस्तस्मिन् राशौ यावत्सङ्ख्ये नवांशे व्यवस्थितः स्यात्तन्नवांशसङ्ख्या तुल्याः सुता वाच्या इति । केन्द्र इति । कामपतिः = सप्तमभावेशः, केन्द्रे गतश्चेत् तदा विपुलं कल्याण- कालोत्सवं करोति इति ॥ ५४ ॥ पारिजाते सुधा टीका कपिलेश्वररञ्जिता । अध्याये षोडशे चास्मिन् पूर्तिं स्त्रीजातके गता ॥ १८ ॥ पुरुषके जातकमें दिशा, देश, स्थिति, धर्म, कर्म, इत्यादि जो शुभाशुभ, गुण हैं, वे ही स्त्री जातकमें स्त्रियोंको कहने चाहियें। एवं स्त्री-जातकमें स्त्रीके स्वामीको कहने चाहिये। सप्तमभावके नवांशमें जितने ग्रह हों उनमें सबसे बली ग्रहके नवांशके तुल्य पुत्र कहे। यदि सप्तमेश केन्द्रमें हो तो बड़ा कल्याण समय प्राप्त कराता है ॥ ५४ ॥ इति जातकपारिजाते षोडशे स्त्रीजातकाध्याये ‘विमला’ हिन्दी टीका समाप्ता ॥ १६ ॥