जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 522, कुल 588 में से
संदर्भ में पढ़ें४६६ सटीकजातकपारिजाते- स्त्रीलोलुपश्च भवति । चन्द्रसुते = बुधे, तथाभूते, पतिः विद्वान् भवति । जीवे = गुरौ, मदस्थानगे = सप्तमगते स्वांशे सति, जितेन्द्रियाणां वरः = श्रेष्ठो भवति भर्तेति । शुक्रे तथा- भूते सति पतिः, कान्तवपुः = मनोरमगात्रः सुखी च भवति । रविजे = शनौ सप्तमे स्वांशे सति पतिः वृद्धः अतिमूर्खश्च भवति । तथा होरारत्ने- अस्तेऽर्के स्वांशगे स्वक्षं भर्त्ता रतिपरो मृदुः । चन्द्रेऽस्ते स्वक्षँगे स्वांशे मृदुस्मरवशः पतिः ॥ भौमेऽस्ते स्वांशगे क्षेत्रे स्त्रीलोलो निर्धनः पतिः । सौम्येऽस्ते स्वांशके क्षेत्रे भर्त्ता विद्वान् भवेत् सुखी ॥ जीवेऽस्ते स्वांशके स्वक्षै गुणवान् विजितेन्द्रियः । शुक्रेऽस्ते स्वांशके क्षेत्रे कन्या सौभाग्यदान् सुखी ॥ मन्देऽस्ते स्वांशके क्षेत्रे वृद्धो मूर्खों भवेत्पतिः । एवं सप्तमराशिस्थैर्ग्रहैर्नॄणां वदेत् फलम् । इति॥ सूर्य अपने नवांशमें सातवें भावमें स्थित हो तो उसका पति कोमलमति तथा रति क्रीडाका विनोदी हो । स्वांशस्थ चन्द्रमा ७ वें हो तो सुखकी प्राप्ति हो । स्वांशस्थ मङ्गल ७ वें हो तो जार पति उस स्त्री में तत्पर रहे । स्वांशस्थ बुध ७ वें हो तो पति पण्डित हो । स्वांशका गुरु सप्तम भावमें हो तो पति जितेन्द्रिय हो । अपने अंशका शुक्र सप्तममें हो तो सुन्दर शरीरवाला सुखी पति हो । शनि स्वांशमें हो तो पति वृद्ध और विशेषतः मूर्ख होवे॥ स्यान्मार्द्दवाङ्गो गुणवान्प्रगल्भो जामित्रराश्यंशकजा तु याऽस्याः । सौरेऽस्तगे स्वांशगृहोपयाते वृद्धोऽतिमूर्खः पतिरेव तस्याः ॥ ५० ॥ स्यादिति । या स्त्री जामित्रराश्यंशकजा = लग्ने सप्तमभावस्य नवांशे समुद्भूता भवति, अस्याः पतिः मार्द्दवाङ्गः = मृदोर्भावो मार्द्दवस्तदङ्गवानर्थात्कोमलगात्रः, गुणवान्, प्रगल्भः ( चतुरः ) च भवति । अत्रोदाहरणं यथा-यदि मेषराशिलग्नं स्यात्तदाऽत्र तुलाराशेर्नवांशेन भवितव्यमेवं सर्वत्रोह्यम् । तथा सति लग्नमानम् ०।२३° । सौर इति स्पष्टार्थः, ४९ श्लोको- क्तस्य-'रविजे वृद्धोऽतिमूर्खो भवेत्' इत्यस्य सदृशार्थश्चेति ॥ ५० ॥ लग्नस्थ सप्तम भाव राशिके नवांशमें (जैसे मेष लग्न गत तुलाके नवांशमें ) उत्पन्न स्त्रीका पति कोमलांग, गुणवान् और चतुर होता है । शनि सप्तम भावमें अपने राशि का नवांशमें हो तो उस स्त्रीका पति वृद्ध तथा अतिमूर्ख होवे ॥ ५० ॥ दुःस्थौ धर्मगृहेशदेवसचिवौ भर्त्ता गतायुर्भवेद् दीर्घायुर्धनवांस्त्रिकोणगृहगौ केन्द्रस्थितौ वा यदि । विद्वान् बोधनवाहनेशसहितौ साराकंजौ कर्षकः स्वर्भानुध्वजसंयुतौ यदि खलः सारीश्वरश्चोरराट् ॥ ५१ ॥ दुःस्थाविति । धर्मगृहेश-देवसचिवौ = नवमभावपतिबृहस्पती यदि दुःस्थौ = षडष्ट- व्ययगतौ भवेतां तदा तस्याः स्त्रिया भर्त्ता गतायुर्भवेन्म्रियत इत्यर्थः । तौ यदि त्रिकोण- ( ५।९ ) गृहगौ वा केन्द्र-( १।४।७।१० ) स्थितौ भवेतां तदा भर्त्ता दीर्घायुश्चिरजीवी धनवाँश्च भवेत् । विद्वानिति । तौ धर्मेशगुरू यदि बोधनवाहनेशसहितौ = बुधचतुर्थेशा- भ्यां संयुतौ भवेतां तदा भर्त्ता विद्वान् भवति । तौ धर्मेशगुरू साराकंजौ = भौमशनिभ्यां सहितौ स्यातां तदा भर्त्ता कर्षकः=कृषिकर्मा भवेत् । तौ धर्मेशगुरू स्वर्भानुध्वजसंयुतौ = राहुकेतुयुतो भवेतां तदा भर्त्ता खलः स्यात् । सारीश्वरश्चोरराट् = तयोर्धर्मेशगुरोरेकतरः अरीश्वरेण ( षष्ठेशेन ) सहितो भवेत्तदा भर्त्ता चोरराट् महान् चोरो भवेदिति ॥ ५१ ॥ धर्मेश और बृहस्पति दुष्ट स्थानमें हों तो पति गतायु (अल्पायु) हो । यदि वे दोनों त्रिकोणमें वा केन्द्रमें हों तो दीर्घायु और धनी हो । यदि वे दोनों केन्द्र-कोणमें बुध या सुखेशसे युक्त हों तो विद्वान् हो । मङ्गल या शनिसे युक्त हों तो कर्षक (खेतिहर) हो । राहु या केतुसे युक्त हो तो खल हो । षष्ठेशसे युक्त हो तो चोरोंका मालिक होवे ॥ ५१ ॥