जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 521, कुल 588 में से
संदर्भ में पढ़ेंस्त्रीजातकाध्यायः ।।१६।। ४६५ इदानीं स्त्रियाः सोदरप्राप्तियोगावाह—सहजेति श्लोकद्वयेन : सहजभवननाये = तृतीयभावेशे, पुङ्ग्रहे = पुरुषग्रहे = रविभौमगुरुणामन्यतमे, पुङ्ग्रहांशे = पुरुषग्रहराशौ = सिंह-मेष-वृश्चिक-धनुः-मीनानामन्यतमे स्थिते, पुरुषखचरेण = रविभौमगुरुणामन्यतमेन युक्ते वा केनचित् पुङ्ग्रहेणालोकिते, वा सहजेशे नयनभवने = द्वितीयभावे केन्द्रे ( १।४।७। १० ) कोण-( ५।९ ) गे वा सति बलिष्ठे = सबले च जाता स्त्री बहुधनसुखदन्तं सोदरम् = एकजनन्यां जातं भ्रातरं, याति = प्राप्नोति । सहोदरेति ! तृतीयैकादशभावेशौ, विलग्नतः = स्त्रीजन्मलग्रनात् पञ्चमराशिगतौ भवेतां तदा जातवधूः = समुत्पन्ना स्त्री, नृपालस्य = राज्ञः तेजोगुणरूपाणि इव तेजोगुणरूपाणि सन्त्यस्य तं (