भारतकोश
संग्रह पर लौटें

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

स्त्रीजातकाध्यायः ।।१६।। ४६५ इदानीं स्त्रियाः सोदरप्राप्तियोगावाह—सहजेति श्लोकद्वयेन : सहजभवननाये = तृतीयभावेशे, पुङ्ग्रहे = पुरुषग्रहे = रविभौमगुरुणामन्यतमे, पुङ्ग्रहांशे = पुरुषग्रहराशौ = सिंह-मेष-वृश्चिक-धनुः-मीनानामन्यतमे स्थिते, पुरुषखचरेण = रविभौमगुरुणामन्यतमेन युक्ते वा केनचित् पुङ्ग्रहेणालोकिते, वा सहजेशे नयनभवने = द्वितीयभावे केन्द्रे ( १।४।७। १० ) कोण-( ५।९ ) गे वा सति बलिष्ठे = सबले च जाता स्त्री बहुधनसुखदन्तं सोदरम् = एकजनन्यां जातं भ्रातरं, याति = प्राप्नोति । सहोदरेति ! तृतीयैकादशभावेशौ, विलग्नतः = स्त्रीजन्मलग्रनात् पञ्चमराशिगतौ भवेतां तदा जातवधूः = समुत्पन्ना स्त्री, नृपालस्य = राज्ञः तेजोगुणरूपाणि इव तेजोगुणरूपाणि सन्त्यस्य तं (

४६६ सटीकजातकपारिजाते- स्त्रीलोलुपश्च भवति । चन्द्रसुते = बुधे, तथाभूते, पतिः विद्वान् भवति । जीवे = गुरौ, मदस्थानगे = सप्तमगते स्वांशे सति, जितेन्द्रियाणां वरः = श्रेष्ठो भवति भर्तेति । शुक्रे तथा- भूते सति पतिः, कान्तवपुः = मनोरमगात्रः सुखी च भवति । रविजे = शनौ सप्तमे स्वांशे सति पतिः वृद्धः अतिमूर्खश्च भवति । तथा होरारत्ने- अस्तेऽर्के स्वांशगे स्वक्षं भर्त्ता रतिपरो मृदुः । चन्द्रेऽस्ते स्वक्षँगे स्वांशे मृदुस्मरवशः पतिः ॥ भौमेऽस्ते स्वांशगे क्षेत्रे स्त्रीलोलो निर्धनः पतिः । सौम्येऽस्ते स्वांशके क्षेत्रे भर्त्ता विद्वान् भवेत् सुखी ॥ जीवेऽस्ते स्वांशके स्वक्षै गुणवान् विजितेन्द्रियः । शुक्रेऽस्ते स्वांशके क्षेत्रे कन्या सौभाग्यदान् सुखी ॥ मन्देऽस्ते स्वांशके क्षेत्रे वृद्धो मूर्खों भवेत्पतिः । एवं सप्तमराशिस्थैर्ग्रहैर्नॄणां वदेत् फलम् । इति॥ सूर्य अपने नवांशमें सातवें भावमें स्थित हो तो उसका पति कोमलमति तथा रति क्रीडाका विनोदी हो । स्वांशस्थ चन्द्रमा ७ वें हो तो सुखकी प्राप्ति हो । स्वांशस्थ मङ्गल ७ वें हो तो जार पति उस स्त्री में तत्पर रहे । स्वांशस्थ बुध ७ वें हो तो पति पण्डित हो । स्वांशका गुरु सप्तम भावमें हो तो पति जितेन्द्रिय हो । अपने अंशका शुक्र सप्तममें हो तो सुन्दर शरीरवाला सुखी पति हो । शनि स्वांशमें हो तो पति वृद्ध और विशेषतः मूर्ख होवे॥ स्यान्मार्द्दवाङ्गो गुणवान्प्रगल्भो जामित्रराश्यंशकजा तु याऽस्याः । सौरेऽस्तगे स्वांशगृहोपयाते वृद्धोऽतिमूर्खः पतिरेव तस्याः ॥ ५० ॥ स्यादिति । या स्त्री जामित्रराश्यंशकजा = लग्ने सप्तमभावस्य नवांशे समुद्भूता भवति, अस्याः पतिः मार्द्दवाङ्गः = मृदोर्भावो मार्द्दवस्तदङ्गवानर्थात्कोमलगात्रः, गुणवान्, प्रगल्भः ( चतुरः ) च भवति । अत्रोदाहरणं यथा-यदि मेषराशिलग्नं स्यात्तदाऽत्र तुलाराशेर्नवांशेन भवितव्यमेवं सर्वत्रोह्यम् । तथा सति लग्नमानम् ०।२३° । सौर इति स्पष्टार्थः, ४९ श्लोको- क्तस्य-'रविजे वृद्धोऽतिमूर्खो भवेत्' इत्यस्य सदृशार्थश्चेति ॥ ५० ॥ लग्नस्थ सप्तम भाव राशिके नवांशमें (जैसे मेष लग्न गत तुलाके नवांशमें ) उत्पन्न स्त्रीका पति कोमलांग, गुणवान् और चतुर होता है । शनि सप्तम भावमें अपने राशि का नवांशमें हो तो उस स्त्रीका पति वृद्ध तथा अतिमूर्ख होवे ॥ ५० ॥ दुःस्थौ धर्मगृहेशदेवसचिवौ भर्त्ता गतायुर्भवेद् दीर्घायुर्धनवांस्त्रिकोणगृहगौ केन्द्रस्थितौ वा यदि । विद्वान् बोधनवाहनेशसहितौ साराकंजौ कर्षकः स्वर्भानुध्वजसंयुतौ यदि खलः सारीश्वरश्चोरराट् ॥ ५१ ॥ दुःस्थाविति । धर्मगृहेश-देवसचिवौ = नवमभावपतिबृहस्पती यदि दुःस्थौ = षडष्ट- व्ययगतौ भवेतां तदा तस्याः स्त्रिया भर्त्ता गतायुर्भवेन्म्रियत इत्यर्थः । तौ यदि त्रिकोण- ( ५।९ ) गृहगौ वा केन्द्र-( १।४।७।१० ) स्थितौ भवेतां तदा भर्त्ता दीर्घायुश्चिरजीवी धनवाँश्च भवेत् । विद्वानिति । तौ धर्मेशगुरू यदि बोधनवाहनेशसहितौ = बुधचतुर्थेशा- भ्यां संयुतौ भवेतां तदा भर्त्ता विद्वान् भवति । तौ धर्मेशगुरू साराकंजौ = भौमशनिभ्यां सहितौ स्यातां तदा भर्त्ता कर्षकः=कृषिकर्मा भवेत् । तौ धर्मेशगुरू स्वर्भानुध्वजसंयुतौ = राहुकेतुयुतो भवेतां तदा भर्त्ता खलः स्यात् । सारीश्वरश्चोरराट् = तयोर्धर्मेशगुरोरेकतरः अरीश्वरेण ( षष्ठेशेन ) सहितो भवेत्तदा भर्त्ता चोरराट् महान् चोरो भवेदिति ॥ ५१ ॥ धर्मेश और बृहस्पति दुष्ट स्थानमें हों तो पति गतायु (अल्पायु) हो । यदि वे दोनों त्रिकोणमें वा केन्द्रमें हों तो दीर्घायु और धनी हो । यदि वे दोनों केन्द्र-कोणमें बुध या सुखेशसे युक्त हों तो विद्वान् हो । मङ्गल या शनिसे युक्त हों तो कर्षक (खेतिहर) हो । राहु या केतुसे युक्त हो तो खल हो । षष्ठेशसे युक्त हो तो चोरोंका मालिक होवे ॥ ५१ ॥

स्त्रीजातकाध्यायः ॥१६॥ ४१७ गौराङ्गः पतिरस्तगे दिनकरे कामी सरोषेक्षण- श्चन्द्रे रूपगुणान्वितः कृशतनुर्भोगी रुगार्तो भवेत् । नग्नः क्रूररसोऽलसः पटुवचाः संरक्तकान्तिः कुजे विद्यावित्तगुणप्रपञ्चरसिकः सौम्ये मदस्थानगे ॥ ५२ ॥ दीर्घायुर्नृपतुल्यवित्तविभवः कामी च बाल्ये गुरौ कान्तो नित्यविनोदकेलिचतुरः काव्ये कविः क्ष्मापतिः । मन्दे वृद्धकलेवरोऽस्थिरतनुः पापी पतिः कामगे राहौ वा शिखिनि स्थिते मलिनधीर्नीचोऽथवा तत्समः ॥ ५३ ॥ इदानीं सप्तमभावे ग्रहपरत्वेन भर्तुर्लक्षणमाह—गौराङ्ग इति श्लोकयुगलेन सरलार्थेन ॥ सूर्य सप्तम भवनमें हो तो पति गौर वर्ण हो, कामी और रोष दृष्टिवाला हो। चन्द्रमा सप्तम स्थानमें हो तो पति रूपगुणसे युक्त दुर्बल गात्र भोगी और रोगी हो । मङ्गल सप्तम भावमें हो तो पति नग्न, क्रूर स्वभाववाला, आलसी, चतुरता पूर्वक बोलनेवाला और रक्त गौर कान्तिवाला हो । बुध सप्तम भावमें हो तो विद्या, वित्त, गुण-प्रपञ्चका रसिक हो॥५२॥ बृहस्पति सप्तम स्थानमें हो तो पति दीर्घायु, राजाके सदृश धनी तथा बाल्यावस्थामें ही कामी हो । शुक्र सप्तम स्थानमें हो तो तेजवान्, नित्य विनोद केलि करनेमें चतुर कवि और भूपति हो । शनि सप्तममें हो तो वृद्ध शरीर, एवं चञ्चल शरीरवाला और पापी पति हो । राहु वा केतु हो तो मलिनबुद्धि नीच वा नीचके सदृश हो ॥ ५३ ॥ दिग्देशस्थितिधर्मकर्मजगुणाः पुञ्जातके योषितां ये नारीजनजातके निजपतौ संयोजितास्तत्त्वतः । द्यूनांशोपगतग्रहेषु बलवत्खेटांशतुल्याः सुताः केन्द्रे कामपतिः करोति विपुलं कल्याणकालोत्सवम् ॥ ५४ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते षोडशोऽध्यायः ॥१६॥ दिग्देशेति । पुंजांतके = पुरुषाणां जातके दिग्देशस्थितिधर्मकर्मजगुणाः ये निगदितास्त एव योषितामपि जन्मनि विनिर्देश्याः । एवं नारीजनजातके = स्त्रीजन्मविषये ये निगदिता दिगादिगुणास्ते स्त्रीणां निजपतौ = स्वस्वभर्तृविषये तत्त्वतो विशेषेण संयोजिता भवन्ति । ‘यत्तत्फलं नरभवेऽसममङ्गनानां तत्तद्वदेत्पतिषु वा सकलं विधेयम्’ इति वराहोक्तेन । द्यूनां- शेति । द्यूनांशो = सप्तमभावस्य नवांशे यावन्तो ग्रहा भवेयुस्तेषां मध्ये बलीयसो ग्रहस्य नवांशसंख्यया तुल्याः सुता भवन्ति । एतदुक्तं भवति । यत्र तत्र राशौ लग्नात्सप्तमभावराशेः सम्बन्धिके नवांशे यावन्तो ग्रहा भवेयुस्तेषां मध्ये यो ग्रहः सर्वापेक्षया बली भवेत् असौ ग्रहस्तस्मिन् राशौ यावत्सङ्ख्ये नवांशे व्यवस्थितः स्यात्तन्नवांशसङ्ख्या तुल्याः सुता वाच्या इति । केन्द्र इति । कामपतिः = सप्तमभावेशः, केन्द्रे गतश्चेत् तदा विपुलं कल्याण- कालोत्सवं करोति इति ॥ ५४ ॥ पारिजाते सुधा टीका कपिलेश्वररञ्जिता । अध्याये षोडशे चास्मिन् पूर्तिं स्त्रीजातके गता ॥ १८ ॥ पुरुषके जातकमें दिशा, देश, स्थिति, धर्म, कर्म, इत्यादि जो शुभाशुभ, गुण हैं, वे ही स्त्री जातकमें स्त्रियोंको कहने चाहियें। एवं स्त्री-जातकमें स्त्रीके स्वामीको कहने चाहिये। सप्तमभावके नवांशमें जितने ग्रह हों उनमें सबसे बली ग्रहके नवांशके तुल्य पुत्र कहे। यदि सप्तमेश केन्द्रमें हो तो बड़ा कल्याण समय प्राप्त कराता है ॥ ५४ ॥ इति जातकपारिजाते षोडशे स्त्रीजातकाध्याये ‘विमला’ हिन्दी टीका समाप्ता ॥ १६ ॥

अथ कालचक्रदशाध्यायः ॥ १७ ॥ प्रणम्य परमात्मानं शिवं परमकारणम् । खेचरं चक्रमध्यस्थं चतुःषष्टिकलात्मकम् ॥ १ ॥ पप्रच्छ देवदेवेशमीश्वरं सर्वमङ्गला । कालचक्रगतिं सर्वां विस्तराद्वद मे प्रभो ॥ २ ॥ अथाधुना कालचक्रदशाध्यायो व्याख्यायते । तत्र प्रथमं कालचक्रगतिविषये भगवत्याः शङ्करं प्रति प्रश्नः—'प्रणम्येति श्लोकयुगलेन' सरलार्थेन ॥ १-२ ॥ परम कारण परमात्मा खेचर ग्रह-चक्र मध्यस्थ चौसठ कला वाले उस देवदेवेश ईश्वर श्री शिवजीको भगवती श्री सर्वमङ्गला (गौरी) देखकर प्रणाम कर बोली-हे प्रभो ! मुझे समस्त कालचक्र गतिको विस्तारसे कहिये ॥ १-२ ॥ ईश्वर उवाच । अहमादित्यरूपोऽस्मि चन्द्रमास्त्वं प्रचक्षसे । संयोगेन वियोगेन जगत्स्थावरजङ्गमम् ॥ ३ ॥ भगवत्याः पूर्वोक्तं (कालचक्रविषयकं) प्रश्नं निशम्य तदुत्तरमाह महादेवः—अहमिति । अहं किल सर्वेषामात्मा, आदित्यरूपः = सूर्य इवास्मि । 'सूर्य आत्मा जगतस्तस्थुषश्च' इति श्रुतौ गीतत्वात् । त्वं चेश्वरी चन्द्रमाः प्रचक्षसे, सर्वेषां मनस्त्वात् । 'चन्द्रमा मनसो जातः' इति तथा "आत्मा रविः शीतकरस्तु चेतः" इति ज्योतिषे च बहुधाऽभिहितत्वात् । अत एवात्म-मनसोः संयोगेन वियोगेन स्थावरजङ्गमं = चराचरं, जगत् प्रकटीभवति, तिरोभवति चेति । इदमुक्तं भवति । सूर्याचन्द्रमसावेव दशायां कारणत्वेन गृह्येते । ताभ्यामेव नक्षत्रस्य कालस्य चावगमनात् ॥ ३ ॥ श्री शङ्करजी बोले—मैं सूर्य स्वरूप हूं, तू प्रत्यक्ष चन्द्रमा हो, हमारे तुम्हारे संयोग वियोगसे ही समस्त चराचर संसारकी सृष्टि और लय होते हैं ॥ ३ ॥ पञ्च प्राचीरालिखेद्भागसङ्ख्यास्तिर्यग्रेखा वर्जितान्तश्चतुष्काः ॥ प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूत्तराद्याः ॥ ४ ॥ धराजशुक्रज्ञशशीनसौम्यसितारजीवार्कजमन्दजीवः । क्रमेण मेषादिकरा शिनाथास्तद्दशापाश्चेति वदन्ति सन्तः ॥ ५ ॥ भूतैकविंशाद्रिरयो नवदिक् षोडशाब्धयः । सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥ ६ ॥ आश्वीपुनर्वसू हस्तमूलप्रोष्ठपदादिषु । अंशकान् गणयेन्मेषात्प्रादक्षिण्यक्रमं वदेत् ॥ ७ ॥ रोहिणीमघवैशाखवैष्णवादिषु भेषु च । अंशकान् वृश्चिकादीनां गणयेदपसव्यतः ॥ ८ ॥ दक्षिणाभिकनक्षत्रं द्वादशांशकराशिषु । चक्रं प्रदक्षिणीकृत्य मीनान्ते विन्यसेत्पुनः ॥ ९ ॥ उत्तरात्रयनक्षत्रं वृश्चिकाद्यप्रदक्षिणम् । कृत्वा चापान्तकेऽन्यस्मिन् ज्ञातव्ये दक्षिणोत्तरे ॥ १० ॥ सव्यापसव्यमार्गेण चाश्विन्यादि त्रिकं त्रिकम् । देहादि गणयेत्सव्ये वामे जीवादि गण्यते ॥ ११ ॥

मेषगोयमकुलीरमन्दिरेष्वंशकेषु परमायुरुच्यते । ज्ञानकं मदगजास्तदा क्रमात्तत्र कोणभवनेषु तद्वदेत् ॥ १२ ॥ एवमायुः परिज्ञानं देहजीवौ प्रकल्प्य च । सव्ये तु प्रथमांशस्तु देह इत्यभिधीयते ॥ १३ ॥ जीवः सर्वेष्वन्त्यपादौ विलोममपसव्यके । इदानीं कालचक्रक्रममाह—पद्म प्राचीति । तत्र चक्रलेखनप्रकारो हि चक्रदर्शनेन स्फुट- स्यात् । कालचक्रे सूर्यादीनां दशावर्षाणि क्रमेण भूतादयः सन्ति । अर्थात् सूर्यस्य = ५ व० । चन्द्रस्य = २१ व० । मं० = ७ व० । बु० = ९ व० । गुरोः = १० व० । शु० = १६ व० । शनेः = ४ वर्षाणि । एतानि किल वर्षाणि प्रतिराशि खण्डनवके राशीनां ( 'पौर- ज्ञावो मातासहोधी' इत्यादि वक्ष्यमाणसव्यापसव्योपगतानां ) स्वामिनां वशतो ज्ञेयानि । सव्यचक्रवाक्यानि— [L1

५०० सटीकजातकपारिजाते- अथ कालचक्रदशा— सव्यनक्षत्राणि—१, २, ३, ७, ८, ९, १३, १४,

नक्षत्राणिपादाःदेहाधीशाः
अश्विनी १, पुनर्वसु ७, हस्त १३, मूल १९, पूर्वभाद्र २५मं.पो=१
मं=७ चरं=२
शु=१६चगा=३
बु=९ चबो=४
चं=२१च
^श.न=१०
श=४ चक्ष=११
श=४ चत्र=१२
वृ=१०दा=८
मं=७ च
^शु.रू=२
शु=१६पो=१
मं=७त्र=१२
वृ=१०क्षु=११
श=४
^चं.वा=४
चं=२१णी=५
सू=५च=६
बु=९स्थं=७
शु=१६
भरणी २ पुष्य ८ चित्रा १४ पूर्वाषाढ २० उत्तरभाद्र २६मं.हं=८
मं=७स=७
शु=१६श्र=६
बु=९व=४
चं=२१
^श.क्ष=११
श=४ज्ञा=१०
श=४धी=९
वृ=१०क=१
मं=७
^शु.सु=७
शु=१६द्=८
मं=७थि=९
वृ=१०न=१०
श=४
^चं.चा=४
चं=२१मां=५
सू=५गा=३
बु=९र=२
शु=१६
कृ ३ श्लेषा ९ स्वाती १५ उत्तराषाढ़ २१ रेवती २७मं.पौ=१
मं=७रं=२
शु=१६गा=३
बु=९बो=४
चं=२१
^श.न=१०
श=४क्ष=११
श=४त्र=१२
वृ=१०दा=८
मं=७
^शु.रू=२
शु=१६पो=१
मं=७त्र=१२
वृ=१०क्षु=११
श=४
^चं.वा=४
चं=२१णी=५
सू=५च=६
बु=९स्थं=७
शु=१६

कालचक्रदशाध्यायः ॥१७॥ ५०१ सव्यमार्गवाक्यानि १५, १९, २०, २१, २५, २६, २७, इति पञ्चदश ।

परमायुर्वर्षाणिजीवाधिपाःराशयः
मा=५ सू=५ वता=६ बु=९ वस=७ शु=१६ वहो=८ मं=७ वधी=९ बृ=१० च१०० व.बृ.मेषः
सी=७ शु=१६ चच=६ बु=९ वर्व=४ चं=२१ण=५ सू=५ वगः=३ बु=९ व८५ व.बु.वृषः
र्नि=१० श=४धा=९ बृ=१०य=१ मं=७रं=२ शु=१६गं=३ बु=९८३ व.बु.मिथुनं
द=८ मं=७धि=९ बृ=१०न=१० श=४क्ष=११ श=४त्रं=१२ बृ=१०८६ व.बृ.कर्कः
शां=५ सू=५ब=३ बु=९र=२ शु=१६प=१ मं=७त्रं=१२ बृ=१०१०० व.बृ.सिंहः
र=२ शु=१६शो=३ बु=६भी=४ चं=२१मा=५ सू=५च=६ बु=९८५ व.बु.कन्या
क्ष=११ श=४त्र=१२ बृ=१०ज=८ मं=७सि=७ शु=१६तः=६ बु=९८३बु.तुला
को=१ मं=७त्र=१२ बृ=१०श्चु=११ श=४र्नि=१० श=४धिः=९ बृ=१०८६बृ.वृश्चिकः
मा=५ सू=५ता=६ बु=९स=७ शु=१६हो=८ मं=७धी=९ बृ=१०१००बृ.धनुः
सी=७ शु=१६च=६ बु=९र्व=४ चं=२१ण=५ सू=५गः=३ बु=९८५बु.मकरः
र्नि=१० श=४धा=९ बृ=१०य=१ मं=७रं=२ शु=१६गं=३ बु=९८३बु.कुम्भः
द=८ मं=७धि=९ बृ=१०न=१० श=४क्ष=११ श=४त्रं=१२ बृ=१०८६बृ.मीनः

५०२ सटीकजातकपारिजाते- अथापसव्य- १, ध-न-क्षे-त्र-प-रा-ङ्ग-मि-च ॥ २, ता-सा-द-त्र-क्षु-र्नि-धि-र्दा-सा ॥ ५, त्र-क्षु-र्नि-धि-दा-स-स्त-मे-च ॥ ६, गि-रा-यु-ध-न-ङ्ग-त्र-प-रः ॥

नक्षत्राणिपादाःजीवाधिपःअथ कालचक्रदशा-
अपसव्यनक्षत्राणि—४,५,६,१०,
रोहिणी ४, मघा १०,
विशाखा १६, श्रवण २२,वृ.ध=९
वृ=१०न=१०
श=४क्षे=११
श=४त्र=१२
वृ=१०
बु.ता=६
बु=९सा=७
शु=१६द=८
मं=७त्र=१२
वृ=१०

कालचक्रदशाध्यायः ॥१७॥ ५०३ चक्रवाक्यानि— ३, च-र्मी-ओ-गी-रा-य-ध-न-र्क्षम् ॥ ४, त्र-यो-रा-गी-मा-मे-त्ता-म-ह ॥ ७, गौ-मां-चा-ची-स-दा-त्रि-क्षुं-न्ने ॥ ८, धि-ज-सित-मि-चा-ज्ञा-रि-का ॥ ऽपसव्यचक्रवाक्यानि— ११,१२,१६,१७,१८,२२,२३,२४ | परमायुर्वर्षाणि | देहाधिपः | राशयः अंशाः | | प=१ मं=७ | रां=२ शु=१६ | ग=९ बु=३ | मि=५ सू=५ | व=४ चं=२१ | ८६ | चं. | वृश्चकः | | क्षु=११ श=४ | नि=१० श=४ | धि=९ वृ=१० | र्दा=८ मं=७ | सा=७ शु=१६ | ८३ | शु. | तुला | | रा=२ शु=१६ | य=१ मं=७ | ध=९ वृ=१० | न=१० श=४ | क्षं=११ श=४ | ८५ | शनिः | कन्या | | मा=५ सू=५ | से=४ चं=२१ | त्ता=६ बु=९ | स=७ शु=१६ | ह=८ मं=७ | १०० | मं. | सिंहः | | र्दा=८ मं=७ | स=७ शु=१६ | स्त=६ बु=९ | मे=५ सू=५ | च=४ चं=२१ | ८६ | चं. | कर्कः | | न=१० श=४ | क्ष=११ श=४ | त्र=१२ वृ=१० | प=१ मं=७ | रः=२ शु=१६ | ८३ | शु. | मिथुनं | | स=७ शु=१६ | दा=८ मं=७ | त्रि=१२ वृ=१० | क्षुं=११ श=४ | न्ने=१० श=४ | ८५ | श. | वृषः | | मि=५ सू=५ | वा=४ चं=२१ | ज्ञा=३ बु=९ | रि=२ शु=१६ | का=१ मं=७ | १०० | मं. | मेषः | | र्दा=८ मं=७ | स=७ शु=१६ | स्त=६ बु=९ | मे=५ सू=५ | व=४ चं=२१ | ८६ | चं. | मीनः | | न=१० श=४ | क्ष=११ श=४ | त्र=१२ वृ=१० | प=१ मं=७ | रः=२ शु=१६ | ८३ | शु. | कुम्भः | | स=७ शु=१६ | दा=८ मं=७ | त्रि=१२ वृ=१० | क्षु=११ श=४ | न्ने=१० श=४ | ८५ | श. | मकरः | | मि=५ सू=५ | वा=४ चं=२१ | ज्ञा=३ बु=९ | रि=२ शु=१६ | का=१ मं=७ | १०० | मं. | धनुः |

५०४ सटीकजातपारिजाते- अथ देहजीवपरिज्ञानमुच्यते । प्रतिराशि नवखण्डानि ( अंशाः ) भवन्ति । तेषु सव्यमार्गे प्रथमोऽशो देहसंज्ञोऽन्तिमोऽशो जीवसंज्ञो भवति । एतद्विलोममपसव्यकेऽर्थात्प्रथमो जीवसंज्ञोऽन्त्यो देहाभिधो भवति । एतच्चक्रलेखनप्रकारः पाराशरीये— द्वादशारं लिखेच्चक्रं तिर्यगूर्ध्वसमानकम् । गृहा द्वादश जायन्ते सव्यचक्रे यथाक्रमम् ॥ द्वितीयादिषु कोष्ठेषु राशीन्मेषादिकाँल्लिखेत् । एवं द्वादशराश्याख्यकालचक्रमुदीरितम् ॥ विश्वर्क्षपूर्वाभाद्रं च रेवती सव्यतारकः । एतद्दशोडुपादीनामश्विन्यादौ च वीक्षयेत् ॥ विशदस्तत्प्रकारस्तु कथ्यते शृणु पार्वति ! । देहजीवौ मेष-चापौ दशाद्यचरणस्य च ॥ मेषादिचापपर्यन्तं राशिपाश्च दशाधिपाः । देहजीवौ नक्रयुग्मौ दिगीशार्काष्टभूधराः ॥ षड्वेदशरलोकाश्च राशिपाश्च दशाधिपाः । दक्षादिदशताराणां तृतीयचरणेषु च ॥ गौर्देहो मिथुनं जीवो द्विकार्कैशदशांशकाः । अक्षिशराम्नायनाथास्ते दशाधिपतयः क्रमात् ॥ आश्विन्यादिदशोद्भूनां चतुर्थचरणेषु च । कर्कमीनौ देहजीवौ कर्कादिनवमेश्वराः ॥ दशाधिपा नव ज्ञेयाः शृणु पार्वति ! निश्चितम् । याम्येज्यचित्रातोयर्क्षा उत्तराभाद्रतारकाः ॥ एतत्पञ्चोडुपादीनां भरण्यादौ च वीक्षयेत् । याम्यप्रथमपादस्य देहजीवावलीमृगौ ॥ नागागर्तुपयोधीपुरामाक्षीन्द्रर्कमेश्वराः । याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने ॥ रुद्रद्विद्वन्नन्दचन्द्राक्षिरामाङ्गीपुरसेश्वराः । याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने । सप्ताष्टाङ्गदिगीशार्कगजादिसरराशिपाः । देहजीवौ कर्कचापौ चतुर्थचरणे स्मृतौ ॥ वेदबाणाग्निनेत्रेन्दुसूर्येशदशनन्दपाः । सव्यमेवं विजानीयात् , अपसव्यं तु कथ्यते ॥ द्वादशारं लिखेच्चक्रं तिर्यगूर्ध्वसमानकम् । द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखेत् ॥ प्राजापत्यमहेन्द्राग्निश्रवणं च चतुष्टयम् । धातृवृद्धीक्षयेद् देहजीवौ कर्कधनुर्धरौ ॥ नवदिग्मुद्रसूर्येन्दुनेत्राग्निश्वब्धिराधिपाः । धातृद्वितीयचरणे तुलास्त्री देहजीवकौ ॥ षट्सप्ताष्टार्क रुद्रा दिङ्नवा गिरिराशिपाः । धातृतृतीयचरणे ( देह ) जीवौ कुम्भाङ्गनाधिपौ । षड्बाणाब्धिगुणाक्षीन्दु नन्ददिग्मुद्रराधिपाः । रोहिण्यन्तेपदे देहजीवावलिमृगौ स्मृतौ । सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टराधिपाः । चान्द्ररौद्रभगार्यम्णमित्रेन्द्रवसुवारुणम् । एतत्ताराष्टकं चैव विज्ञेयं चान्द्रवत् क्रमात् । देहजीवौ कर्कमानौ मृगाद्यचरणस्य च ! व्यस्तमीनादिकर्कान्तं राशिपाश्च दशाधिपाः । गौर्देहो मिथुनं जीव इन्द्रभस्य द्वितीयेके । त्रिद्वन्द्वह्वदिगीशार्कचन्द्रद्विभवनाधिपाः । देहजीवौ नक्रयुग्मौ मृगपादे तृतीयेके । त्रिबाणाब्धिरसागाष्टसूर्येशदशराधिपाः । मेषचापौ देहजीवाविन्द्रभस्य चतुर्थके । व्यस्तं चापादिमेषान्तं राशिपाश्च दशाधिपाः । एवं व्यस्ततरे ज्ञेयं देवजीवदशादिकम् । स्पष्टं तवाग्रे कथितं पार्वति ! प्राणवल्लभे ! ॥ अत्र प्रसङ्गाज्जन्मकालीननक्षत्रतो राशीनमंशावगमनप्रकारो लिख्यते । जन्मकाले गतन- क्षत्रसङ्ख्या त्रिभक्ता कार्या, शेषं चतुर्गुणं कार्यं, तज्जन्मनक्षत्रस्य वर्त्तमानचरणेन सहितं कुर्यादेवं फलं राशिमानं स्यात्; तस्य राशोः यत्पूर्णायुर्म्मानं तदेव तस्य पूर्णायुर्भवति । अथ जन्मनक्षत्रस्य वर्त्तमानचरणे यद् भुक्तमानं तद्राशिपूर्णायुर्मानेन सङ्गुणं नवशतेन भक्तं च कार्यं, फलं भुक्तदशामानं भवेत् । तदूनं पूर्णायुर्म्मानं भोग्यदशामानं स्यादिति । अत्रोदाहरणम्— कल्प्यते कस्यचिज्जन्म कृत्तिकानक्षत्रस्य चतुर्थचरणे वर्त्तते; तत्र चतुर्थचरणे भुक्तमानं दण्डादि ७।८। तदा— ‘गततारा त्रिभिर्भक्ता शेषं चत्वारिसङ्गुणम् । वर्त्तमानपदेनाढ्यं राशीनामंशको भवेत्’ ॥ इत्युक्तप्रकारेण गतनक्षत्रसङ्ख्या = २ । त्रिभक्ता तदा शेषं = २ । एतच्चतुर्गुणं जातं =

(२ X ४) = ८ । कृत्तिकानक्षत्रस्य वर्त्तमानेन पदेना=( ४ ) नेन सहित जातं=(८ + ४) १२ । अतएव मीनांशदशायां तस्य जन्म जातमस्तत्पूर्णायुर्मानं = ८६ षडशीतिः । अथ कृत्ति- काचतुर्थचरणभुक्तमान—( ७।८ ) मेतत् मीनांशपूर्णायुर्मानेनानेन ( ८६ ) संगुणितं जातं= ( ७।८ ) X ८६ = ४२८प X ८६ = ३६८०८प । एतत् नवशतेन ( ९००) भक्तम् । जातं भुक्तदशामानं वर्षादि=४०।१०।२३।१२ । एतत् पूर्णायुर्माना—(८६) दस्माच्छोधितं जातं= ८६—( ४०।१०।२३।१२ ) भोग्यदशामानम् = ४५।१।३६।४८; स्पष्टार्थं चक्रं विलोक्यम् ॥ पांच रेखायें पूर्वसे पश्चिम तक ( खड़ी ) लिखे और पांच रेखायें बेड़ी लिखे इस तरह १६ कोष्ठ होते हैं; उनमें बीचके ४ कोष्ठों को त्याग दे, तो १२ कोष्ठका चक्र होता है उसमें पूर्वखे ईशान पर्यन्त मेषादि द्वादश राशि के स्वामी प्रत्येक कोष्ठ के स्वामी जानने चाहिये ॥४॥ मेषादि राशिके और मेषादि नवांशके क्रमसे मंगल, शुक्र, बुध, चन्द्र, सूर्य, बुध, शुक्र, मंगल, बृहस्पति, शनि, शनि और गुरु पति हैं ऐसा मनीषा गण कहते हैं ॥ ५ ॥ सूर्यादि ग्रहके ५।२१।७।९।१०।१६।४ क्रमसे दशा वर्ष हैं। जो ग्रह जिस राशिका स्वामी है उस ग्रहका वर्ष ही उस राशिका भी वर्ष जाने जैसे-( सिंह ५, कर्क २१, मे-वृ ७, मि-कं ९, ध-मी. १०, वृ-तु १६, म-कु ४) ॥ ६ ॥ अश्विनी, पुनर्वसु, हस्त, मूल और पूर्वाभाद्रपदादि तीन २ नक्षत्रोंके पादोंमें सव्यक्रमसे मेषसे अंशोंको गिने । रोहिणी, मघा विशाखा और श्रवण आदि नक्षत्रमें वृश्चिक आदि राशिसे अंशकोंको क्रमसे गिने । सव्यके प्रत्येकसे तीन नक्षत्रके चार २ चरणोंसे १२ राशि- योंमें मेषसे प्रदक्षिणा करके मीन पर्यंत लिखे । अपसव्यके प्रत्येक नक्षत्रसे तीन नक्षत्रके चार २ चरणोंसे वृश्चिकसे उलटा क्रमसे धनु पर्यन्त लिखे । सव्य और अपसव्य मार्गसे अश्विनी आदिसे तीन २ नक्षत्र जिसमें सव्य क्रमसे देहादि और वाममें जीवादि जाने । इसका स्पष्टीकरण संस्कृत चक्रसे कीजिये ॥ ७-११ ॥ मेष-वृष-मिथुन-कर्क-राशियोंके अंशमें क्रमसे ज्ञानक ( १०० वर्ष) मद (८५ व.) गज (८३ व ) तष्टा (८६) वर्ष परमायु कहे हैं। और ये ही उनके कोण (१।९) गृहमें पूर्णायु हैं ॥ इस प्रकार आयुका परिज्ञान करके देह और जीवकी कल्पना करके फलका विचार करे। पहला अंश 'देह' संज्ञक है। सबके अन्त्यमें 'जीव' है। अपसव्यमें विलोम (पहला जीव और अन्त्यमें 'देह' ) जाने ॥ १३ ॥ देहजीवे यदा राहुः केतुर्भौमो रविः स्थितः ॥ १४ ॥ तदा तस्मिन्भवेन्मृत्युर्देहे रोगः प्रवर्तते । देहजीवगृहं यातः सौम्यो जीवश्च भार्गवः ॥ १५ ॥ सुखसम्पत्करं सर्वं शोकरोगविनाशनम् ॥ मिश्रखेचरसंयुक्ते मिश्रं फलमवाप्नुयात् ॥ १६ ॥ इदानीं पूर्वपरिभाषितदेहजीवयोः फलमाह—देहजीव इत्यादिभिः । पूर्वपरिभाषिते देहे जीवे च सम्प्राप्ते निर्दिष्टग्रहे निर्दिष्टं फलं वाच्यम् । तथा च बृहत्पाराशरे— देहजीवसमायोगे भौमार्कैरविजादिभिः । एकैकयोगे मरणं बहुयोगे तु का कथा ॥ यत्र स्थाने तु सञ्जीवो देहयोगसमन्वितः । तत्र पापग्रहैर्योगे तद्दशामरणं भवेत् ॥ देहयोगे महाबाधा जीवयोगे तु मृत्युदः । द्वाभ्यां संयोगमात्रेण हन्यते नात्र संशयः ॥ जीवे जीवो यदा राहुः सौरिर्वक्रो रविः स्थितः । मृत्युकालगतिं ज्ञात्वा शान्तिं कुर्याद्यथाविधि ॥ जीवे जीवो यदा सोमः सौम्यो वाऽपि सितः स्थितः । तदा सौख्यं प्रकुर्वन्ति रोगमृत्युविनाशनम् ॥ पापक्षेत्रदशायोगे देहजीवौ तु दुःखदौ । शुभक्षेत्रदशायोगे शुभयोगे शुभं भवेत् । देहे शुभग्रहैर्युक्ते भूषणादि ध्रुवं भवेत् । जीवे शुभग्रहैर्युक्ते पुत्रदारादिकाँल्लभेत ॥ इति १४-१६ यदि सव्य या अपसव्य चक्रमें देह-जीवमें राहु, केतु, मंगल और सूर्य स्थित हो तो ४३ जा०

५०६ सटीकजातकपारिजाते- उस दशामें मृत्यु हो। केवल देहमें हों तो रोग हो। देह या जीव गृहमें बुध, बृहस्पति, शुक्र हों तो सम्पूर्ण सुख-सम्पत्ति करें और शोक रोगका संहार करें। यदि देह-जीव मिश्र ग्रहसे युक्त हो तो मिश्र फल होवे ॥ १४-१६ ॥ सिंहावलोकसमये मण्डूकगतिसम्भवे । अपमृत्युभयं तस्मिन् प्रायश्चित्ताद्विमुच्यते ॥ १७ ॥ सिंहावलोकसमय इति । सिंहावलोकनं मण्डूकगतिञ्चाग्रे (८९-९१ श्लोके ) वक्ष्यति। “कालचक्रगतिस्त्रेधा निश्चिता पूर्वसूरिभिः । मण्डूकगमनं चैव पृष्ठतो गमनं तथा ॥ सिंहावलोकनं नाम पुनरागमनं भवेत् । पृष्ठतो गमनं चैव कर्किकेसरिणोरपि ॥ मीनवृश्चिकयोश्चापमेषयोः केसरी गतिः । कन्याकर्कटयोः सिंहयुग्मयोर्मण्डुकी गतिः” इति ॥ तथा पाराशरीये-“प्रथमे गतिर्मण्डूकी द्वितीये मर्कटी तथा। बाणायनवपर्यन्तं गतिः सिंहावलोकनम् ॥ कन्यायां कर्कटे वाऽपि सिंहसे मिथुनेऽपि च। मण्डूकीगतिसंज्ञो वै तादृशं रोगकारणम् ॥ मीने तु वृश्चिके वाऽपि चापे मेषे तथैव च। सिंहावलोकनं चैव तादृशं च फलं लभेत्” इति॥ अत्रैतदुक्तं भवति । कालचक्रदशायामुक्तलक्षणकेऽन्तरे प्राप्ते सति तत्तत्फलं वाच्यम् । तत्र गतिज्ञानाय चक्रमेव द्रष्टव्यम् । लक्षणलक्षिते ग्रहे विविच्य फलमूहनीयमित्यलं पल्लवितेन ॥ १७ ॥ सिंहावलोकके समयमें मण्डूकगतिके सम्भव होने पर अपमृत्युका भय होता है वह प्रायश्चित्त (शान्ति) करनेसे छूटता है। (सिंहावलोक, मण्डूकगति, पृष्ठगमनका विवरण आगे ८९-९१ श्लोकमें कहेंगे) ॥ १७ ॥ मीनात्तु वृश्चिके याते ज्वरं भवति देहिनाम् । पाथोनात्कर्कटे याते मातृबन्धुवधूमृतिः ॥ १८ ॥ कर्कटात्तु हरौ याते व्रणरोगं वदेद् बुधः । सिंहात्तु मिथुनं याते स्वस्त्रीव्याधिर्मृतिर्भवेत् ॥ १९ ॥ पुत्रबन्धुमृतिं विद्याच्चापान्मेषं गते पुनः । शुभग्रहेऽस्मिन्न भयं पापग्रहयुते भयम् ॥ २० ॥ कन्यायाः कर्कटे याते पूर्वभागे महान्भवेत् । उत्तरां दिशमाश्रित्य शुभयात्रां गमिष्यति ॥ २१ ॥ सिंहात्तु मिथुनं याते पूर्वभागं विवर्जयेत् । कार्यारम्भे तु नैर्ऋत्यां सुखयात्रां गमिष्यति ॥ २२ ॥ कर्कटाद्दक्षिणे सिंहे कार्यहानिश्च रोगकृत् । दक्षिणां दिशमाश्रित्य पश्चादागमनं भवेत् ॥ २३ ॥ मीनात्तु वृश्चिके क्रान्ते उदग्गच्छति सङ्कटम् । चापान्मेषे भयं यात्रा व्याधिर्बन्धुमृतिर्भवेत् ॥ २४ ॥ तत्र सम्पद्विवाहादि शुभं भवति पश्चिमे । शुभारूढे नृपप्रीतिं सर्वसम्पत्करं नृणाम् ॥ २५ ॥ सरलार्थाः किलैते श्लोकाः ॥ १८-२५ ॥ मीनसे वृश्चिक पर जानेवाली अन्तर्दशामें मनुष्योंको ज्वर होता है। एवं कन्यासे कर्कमें जाने पर माता-बन्धु-स्त्रीको मृत्यु होतो है ॥ १८ ॥ कर्कसे सिंहमें जानेवाली दशामें पण्डित लोग व्रण रोग कहते हैं। सिंहसे मिथुन में जाने पर अपनी स्त्रीकी व्याधिसे मृत्यु होती है ॥ १९ ॥

कालचक्रदशाध्यायः ॥१७॥ ५०७ धनुसे मेषपर जानेपर पुत्र और मित्रकी मृत्यु हो । इसमें शुभग्रह होनेसे भय नहीं है, पापग्रह होनेसे भय है ॥ २० ॥ कन्यासे कर्क पर जानेपर पूर्व भागमें महान् हो । यहां उत्तर दिशाके आश्रयसे शुभ- यात्रा करे ॥ २१ ॥ सिंहसे मिथुनपर जानेवाली दशामें पूर्वदिशाका त्याग करे । यहां कार्यसिद्धिके लिये नैर्ऋत्य दिशामें सुखयात्रा करे ॥ २२ ॥ सव्य चक्रमें कर्कसे सिंहपर जानेवाली दशामें कार्यहानि और रोग हो । उसमें दक्षिण दिशाका आश्रयण कर पीछे आगमन करे ॥ २३ ॥ मीनसे वृश्चिकपर जानेवाली दशामें उत्तर दिशामें सङ्कट प्राप्त हो। धनुसे मेषपर जाने वाली दशामें भय, यात्रा, व्याधि तथा बन्धुकी मृत्यु होती है ॥ २४ ॥ वहां (धनुसे मेषवालीमें) सम्पत्ति विवाहादि शुभ पश्चिममें होता है। यदि उसमें शुभग्रह हों तो मनुष्यको राजासे प्रीति, लव सम्पत्ति करानेवाली होवे ॥ २५ ॥ देहो मेषश्चापसिंहाजभानां जीवश्चापी गोवधूनक्रभानाम् । आकोकेरो देहसंज्ञो नृयुग्मं जीवः सव्ये चापसव्ये विलोमात् ॥ २६ ॥ उक्षा देहो युग्मकोणं गतानां जीवं युग्मागारमाहुर्मुनीन्द्राः । मीनो जीवः कर्कटो देहराशिः सव्ये चक्रे कर्किकीटान्त्यभानाम् ॥ २७ ॥ अधुना पूर्वोक्तकालदशाचक्रे द्वादशराशीनां देहजीवपरिभाषामाह-देह इति । चाप- सिंहाजभानां = धनुःसिंहमेषराशीनां, मेषो = भौमः देहसंज्ञो भवति, चापी = धनुः = गुरुः जीवसंज्ञो भवति । गोवधूनकभानाम् = वृषकन्यामकरराशीनाम्, आकोकेरः = मकरः शनिः देहसंज्ञो भवति । नृयुग्मं = मिथुनं बुधः, जीवसंज्ञो भवति । एवं किल सव्ये भवति । अपसव्ये च विलोमात् । अर्थात् अपसव्ये चापसिंहाजभानाम्, धनुर्देहाभिधं, मेषो जीवाख्यश्चैवं गोवधूनक्रभानां मकरो जीवाख्यः, मिथुनं देहश्च भवतीति ज्ञेयम् । युग्मस्य = मिथुनस्य, कोणगतानां = मिथुनतुलाकुम्भानामुक्षा = वृषाधिपः = शुक्रः, देहसंज्ञो भवति । युग्मागारं = मिथुनं = बुधं, जीवं मुनीन्द्रा आहुः । एतत्किल सव्येऽपसव्ये च समानमेव भवति । अथ कर्किकीटान्त्यभानां = कर्कवृश्चिकमीनानां मीनो (गुरुः) जीवः, कर्कटश्च- न्द्रमा देहश्च भवति । परमेतत् सव्ये चक्रे । अपसव्ये तु विलोममर्थात् कर्किकीटान्त्यभानां मीनो (गुरुः) देहः, कर्कटः (चन्द्रः) जीवश्चेति वाच्यम् । स्पष्टार्थं चक्रं विलोक्यमिति ॥ सव्यचक्रमें मेष-धनु-सिंह-राशिमें मेष देह संज्ञक है, और धनु जीव संज्ञक है। वृष- कन्या-मकर राशियोंका मकर देह संज्ञक और मिथुन जीव संज्ञक है। अपसव्यमें इसका उलटा जाने । राशीशको देहेश और जीवेश जानें । स्पष्टार्थ सं चक्र देखें ॥ २६ ॥ सव्यचक्रमें मिथुन-तुला-कुम्भराशियोंका वृष देह और मिथुन जीव मुनीन्द्रोंने कहा है। कर्क-वृश्चिक-मीनका मीन जीव और कर्क देह संज्ञक है। यहां भी जीव और देहका पति राशिपति समझें । अपसव्यमें इसका विपरीत होता है ॥ २७ ॥ देहजीवसमायुक्तैर्भीमार्कैरविभोगिभिः । एकैकयोगे मरणं बहुयोगे न संशयः ॥ २८ ॥ देहयुक्ते महारोगं जीवयुक्ते महद्भयम् । द्वाभ्यां संयोगमात्रेण हन्यते नात्र संशयः ॥ २६ ॥ अधिरोगो भवेद् द्वाभ्यामपमृत्युस्त्रिभिर्भवेत् । चतुर्भिर्मूतिरापन्ना देहजीवे भवेद्यदि ॥ ३० ॥ युगपद्देहजीवौ तु पापग्रहयुतौ तथा । राजचोरादिभीतिश्च द्वाभ्यां मृत्युनं संशयः ॥ ३१ ॥

५८८ सटीकजातकपारिजाते- अग्निबाधां रवौ विद्याच्चन्द्रे ज्वलनबाधनम् भौमे शस्त्रकृता पीडा वायुबाधाकरं बुधे ॥ ३२ ॥ गुरौ चोदरबाधा स्यात् शुक्रेऽग्निभयमाप्नुयात् । शनौ गुल्मेन बाधा स्याद् राहौ विषकृतां रुजम् ॥ ३३ ॥ अस्मिन् कालचक्रे प्रतिराशिं या देहजीवसंज्ञाः परिभाषितास्तासु यथासम्भवं देह- जीवसमायुक्तैः भौम-शनि-सूर्य-राहुभिः निर्दिष्टं फलं ब्रूयात् । तत्रैकैकयोग एव मरणं भवति । बहुयोगे तु अवश्यमेव मरणं वाच्यम् । यथा पूर्वोक्तोदाहरणे मीनांशदशायां देहः कर्कटः ( चन्द्रः ), जीवो मीनः ( गुरुः ) वरीवर्त्ति । अत्र यदि देहे जीवे वा राशौ, वोभयत्रापि यदि भौमार्किरविभोगिनामन्यतमः सर्वे वा सम्प्राप्ता भवेयुस्तदा मीनांश- दशायां निर्दिष्टग्रहान्तरे तस्य मरणं वक्तव्यमित्यर्थः । पक्षान्तरमाह-देहयुक्त इति । देहे गतवति भौमादिपापग्रहे महारोगं, जीवे गतवति महद्भयं, द्वाभ्यां देहे जीवे च संयोग- मात्रेण नरस्तदन्तरे हन्यते, अत्र संशयो नेति । अन्यत्स्पष्टार्थमेवेति ॥ २८-३३ ॥ मंगल, शनि, रवि या राहु देह और जीवमें संयुक्त हो तो एक २ के योगमें भी मरण कहे । बहुतके योगमें तो निःसन्देह मृत्यु कहे ॥ २८ ॥ पूर्वोक्त कोई ग्रह देहयुक्त हो तो महारोग, जीवयुक्त हो तो महाभय होता है। दोनोंका संयोग होनेसे मृत्यु होती है ॥ २९ ॥ दो ग्रहोंसे युक्त देह या जीव हो तो अधिरोग, तीनसे अपमृत्यु, चारसे निश्चित मृत्यु हो ॥ देह और जीव दोनों पापग्रहसे युक्त हों तो राजासे और चोरसे भय हो । दोनों दो दो पापग्रहोंसे युक्त होनेसे मृत्यु हो, इसमें संशय नहीं है ॥ ३१ ॥ उस देह या जीवमें सूर्य हो तो अग्निबाधा, चन्द्रमा हो तो ज्वलन बाधा, मंगल हो तो शस्त्रसे पीडा, बुध हो तो वायु की बाधा हो ॥ ३२ ॥ बृहस्पति हो तो उदर बाधा, शुक्र हो तो अग्निका भय हो, शनि हो तो गुल्म बाधा हो, राहु हो तो विषका किया रोग हो ॥ ३३ ॥ भ्रातृस्थानगतो जीवो दारस्थानगतः कुजः । तथा जन्मगतो मन्दो राहुर्नवमराशिगः ॥ ३४ ॥ चन्द्रोऽष्टमगृहं यातः सूर्यो रिष्फगृहं गतः । बुधः सप्तमभावस्थो भार्गवः शत्रुराशिगः ॥ ३५ ॥ इत्येवं मरणस्थानं तस्मिन्पापयुतेऽथवा । पापदृष्टेऽरिनिचस्थे दुर्बले दुःखमाप्नुयात् ॥ ३६ ॥ अधुना कानिचिन्मरणस्थानान्युच्यन्ते-भ्रातृस्थानेति । १. जीवो ( गुरुः ) यदि भ्रातृस्थानगतः = तृतीयभावस्थो भवेत्तदा तृतीयं मरणस्थानं भवति । २. कुजो दारस्थान- ( ७ ) गतः स्यात्तदा दारस्थानं ( ७ ) मरणं ज्ञेयम् । ३. जन्मगतः =लग्नस्थितः, मन्दः । ४. नवमस्थितो राहुः । ५. अष्टमगतः चन्द्रः । ६. द्वादशगतो रविः । ७. सप्तमगतो बुधः । ८. अष्टमस्थः शुक्रश्च यदि भवति तदा किलैतत् मरणस्थानं भवति । तस्मिन् = मरणस्थाने, पापयुते = पापग्रहेण सहिते अथवा पापदृष्टे अरिनीचस्थे ( तत्तद्राशौ यो ग्रहो भवेत्तस्य ग्रहस्यासौ राशिर्नीचो वा शत्रुगृहं स्यात् तदा ) दुर्बले वा ग्रहे सति तद्योगकारकदशायां नरो दुःखमाप्नुयात् । अत्र बहूनां योगकर्त्तृग्रहाणां मध्ये बलवतो ग्रहणं भवति । तद्दशायां दुःखं प्राप्नुयाज्जातक इति ॥ ३४-३६ ॥ भ्रातृ स्थानमें बृहस्पति हो, सप्तम स्थानमें मंगल हो, जन्म स्थानमें शनि हो, राहु नवम राशिमें हों, चन्द्रमा अष्टम गृहमें हो, सूर्य १२ वें हो, बुध ७वें हो, शुक्र छठे हो तो

कालचक्रदशाध्यायः ॥१७॥ ५०६ ये मरण स्थान हैं। इनके पाप युक्त होने पर वा पाप दृष्ट होनेपर तथा शत्रु नीच-स्थानीय- दुर्बल-ग्रहयुत होनेपर कष्ट होता है ॥ ३४-३६ ॥ अथ देहजीवफलम् । भानुः करोति विविधापदमर्थनाशमतिज्वरारिजनभीतिपदच्युतिं च ॥ पित्तातिगुल्मग्रहणीक्षयकर्णरोगं पश्चादिबन्धुमरणं सहजादिनाशम् ॥ ३७ ॥ इति सूर्यफलम् । चन्द्रः स्वबन्धुजनसङ्गमकन्यकाप्तिमरोग्यभूषणसुखाम्बरराजपूज्यम् । दानक्रियादिसुरभूसुरपुण्यतीर्थस्नानार्चनं मृदुसुखाम्नसुखं करोति ॥ ३८ ॥ इति चन्द्रफलम् । भौमः करोति तनुतापरुगम्निचोरभीतिं स्वबन्धुकलहं सहजादिनाशम् । क्षेत्रार्थनाशपदविच्युतियुद्धनीतिं गुल्मार्शकुष्ठविषशत्रुभयं कुवृत्तिम् ॥ ३६ ॥ ज्वरमासुरिकापैत्त्यं ग्रन्थिस्फोटं कुजस्य च । विषाग्निशस्त्रचोरारिनृपभीतिं वदेद् बुधः ॥ ४० ॥ इति भौमफलम् । सौम्यः करोति सुहृदाप्तमहत्प्रसादविज्ञानशीलनिगमागमशास्त्रबोधम् । स्त्रीपुत्रदारनृपभूषणगोजाश्वलाभं विवेकधनबुद्धियशोऽभिवृद्धिम् ॥ ४१ ॥ इति बुधफलम् । जीवः करोति विविधार्थसुखं महत्त्वं राज्याभिषेकमवनिप्रभुपूजनाद्यम् । स्त्रीपुत्रलाभसुखभूषणभोजनार्थमारोग्यकीर्तिविजयं च परोपकारम् ॥ ४२ ॥ इति गुरुफलम् । शुक्रः करोति रतिलाभसुखाङ्गनादिचित्राम्बरार्थपशुवाहनरत्नजालम् । गानक्रियानटनगोष्ठिमहत्प्रतापं सत्कीर्तिदानविभवं सुजनैः समाजम् ॥ ४३ ॥ इति शुक्रफलम् । मन्दः करोति कलहं तनुकृच्छ्रमृत्युबन्ध्वार्त्तिमग्निरिपुभूतभयं विपार्तिम् । मानार्थहानिमभिमानकलत्रपुत्रनाशं गृहार्थकृषिवाणिजगोविनाशम् ॥४४॥ इति शनिफलम् । राहौ देहेऽरिपीडाऽऽत्मबन्धुकष्टपरिश्रमम् । पक्षाघातादिपीडां च राजभीतिं वदेन्नृणाम् ॥ ४५ ॥ इति राहुफलम् । केतौ चोरानिपीडादिरक्तस्त्रावादिपीडनम् । दारिद्र्यं बन्धुनाशं च स्थाननाशं धनक्षयम् ॥ ४६ ॥ इति केतुफलम् । अधुना देहजीवयोः ग्रहपरत्वेन फलानि दशभिः श्लोकैराह । देहजीवयोः बुधगुरुशु- क्राणामेव शुभं फलं भवतीति सारार्थः । श्लोकास्तु सरलार्था अतो विस्तरभयान्न व्याह्याता इति ॥ ३७-४६ ॥ इति देहजीवफलम् । सूर्य यदि देह या जीवमें हो तो विविध प्रकारकी आपत्ति, धननाश, पीड़ा, ज्वर, शत्रुसे भय, पदच्युति, पित्तरोगसे गुल्म-ग्रहणी-क्षय-कर्णरोग, पशु तथा परिवारका मरण, और भ्रातृनाश करता है ॥ ३७ ॥

५१० सटीकजातकपारिजाते- चन्द्रमा देह या जीवमें बन्धुवोंसे समागम, कन्याकी प्राप्ति, आरोग्यता, भूषण-सुख वस्त्र, राजपूज्य, वा दान क्रियादि, देव ब्राह्मणकी सेवा पुण्यतीर्थमें स्नान-पूजन और बहु अन्नसुखको करता है ॥ ३८ ॥ मंगल देह-जीवमें होनेसे शरीरमें ताप-रोग, अग्नि तथा चोरसे भय, कुटुम्बमें कलह भ्रातृनाश, क्षेत्र-धननाश, पदच्युति, युद्धनीति, गुल्म-बवासीर-कोढ-विष-शस्त्रसे भय और कुवृत्ति (निकृष्ट जीविका) को करता है। ज्वर, मसूरिका (शीतला) पित्त विकार, गँठिया बाव, विष-अग्नि-शस्त्र-शत्रु और राजासे भय मंगलका फल कहे ॥ ३९-४० ॥ बुध देह या जीवमें मित्रसे खूब प्रसन्नताकी प्राप्ति, विज्ञान-शील-निगमागम शास्त्रका बोध, स्त्री पुत्र-नृपभूषण-गौ-हाथी-घोड़ेका लाभ, विवेक-धन-यशकी वृद्धि करता है ॥ ४१ ॥ देह या जीवमें स्थित बृहस्पति-विविध प्रकारके धन-सुख, महत्त्व, राज्याभिषेक, राजा से पूजन आदि, स्त्री-पुत्रका लाभ, सुख-भूषण-ओजन-धन, आरोग्यता, कीर्ति, विजय, और परोपकारिता करता है ॥ ४२ ॥ शुक्र देह या जीवमें रतिका लाभ स्त्रियोंसे सुख, अनेक वस्त्र, धन-पशुवाहन-रत्नसमूह का लाभ, नाच-गानकी गोष्ठीमें विशेष प्रताप, सत्कीर्ति, दान, विभव और सुजनोंसे सत्संग कराता है ॥ ४३ ॥ देह जीवमें शनि कलह, शरीरको जीर्ण, मृत्यु, भ्रातृ दुःख, अग्नि-शत्रु-भूतका भय, विषसे पीड़ा, मान-अर्थकी हानि, गौरव-स्त्री-पुत्रका नाश और गृह-धन-कृषि-व्यापार- तथा गाय बैलोंका नाश करता है ॥ ४४ ॥ जीव या देहमें राहु हो तो शत्रुसे अपनेको पीड़ा, बन्धुको कष्ट, मनस्ताप, पक्षाघातादि पीड़ा और राजभय, मनुष्योंको कहे ॥ ४५ ॥ केतु देह या जीवमें हो तो अग्निसे पीड़ा, वृक्ष गिरना इत्यादि पीड़ा, दरिद्रता, बन्धु- नाश, स्थाननाश और धनक्षय होता है ॥ ४६ ॥ अथ चक्रदशाफलम् । लग्नचक्रदशाकाले देहारोग्यं महत्सुखम् । कीर्तिभूषणराज्यार्थसुतदाराम्बरायतिम् ॥ ४७ ॥ शुभक्षेत्रे शुभं सर्वं पापर्चे फलमन्यथा । तद्गतापासमयुक्ते शुभयुक्ते शुभादिकम् ॥ ४८ ॥ स्वक्षेत्रतुङ्गमित्रस्थखेचरेण समन्विते । विलग्नचक्रपाके तु राज्यार्थनृपपूजनम् ॥ ४९ ॥ नीचमूढारिराशिस्थखेचरेण समन्विते । पुत्रदारादिनाशं च मिश्रे मिश्रफलं वदेत् ॥ ५० ॥ इति लग्नफलम् । द्वितीयारांशिश्चक्रे तु धनधान्यविवर्द्धनम् । ओजनं सुतदारार्त्तिं क्षेत्रगोनृपपूजनम् ॥ ५१ ॥ विद्याप्तिं धाकपटुत्वं च सद्गोष्ठ्या कालयापनम् । शुभर्चे फलमेवं स्यात्पापर्चे फलमन्यथा ॥ ५२ ॥ इति द्वितीयफलम् । तृतीयाराशिवक्रस्य परिपाके महत्सुखम् । भक्ष्यभोज्यफलाप्तिं च शौर्यं धैर्यं मनोरथम् ॥ ५३ ॥

कालचक्रदशाध्यायः ॥ १७॥ ५११ कर्णाभरणवस्त्राप्तिं कण्ठभूषणमायतिम् । अन्नपानादिसम्पत्तिं शुभराशौ शुभं वदेत् ॥ ५४ ॥ इति तृतीयफलम् । चतुर्थराशिचक्रस्य पाके वाहनभूषणम् । सीमाप्तिं तीर्थयात्रादिमहज्जननिषेवणम् ॥ ५५ ॥ चित्तशुद्धिं महोत्साहं स्त्रीसुताप्तिं कृषिक्रियाम् । बन्धुक्षेत्राभिवृद्धिं च गृहलाभं महत्सुखम् ॥ ५६ ॥ आरोग्यमर्थलाभं च सुगन्धाम्बरभूषणम् । शुभर्क्षे शोभनं विद्यात्पापर्क्षे सर्वनाशनम् ॥ ५७ ॥ इति चतुर्थफलम् । सुतैराश्यात्मके चक्रे राज्याप्तिं राजपूजनम् । स्त्रीसुताप्तिं महाधैर्यमारोग्यं बन्धुपोषणम् ॥ ५८ ॥ अन्नदानं यशोलाभमानन्दाब्धिमहोदयम् । उपकर्तृत्वमर्थाप्तिं वाहनाम्बरभूषणम् ॥ ५९ ॥ [L

५१२ सटीकजातसपारिजाते- इति नवमफलम् । कर्मचक्रदशाकाले राज्याप्तिं नृपपूजनम् । सत्कीर्तिदारपुत्रात्मबन्धुसङ्गं महोत्सवम् ॥ ७० ॥ आज्ञाधरत्वमारोग्यं सद्गोष्ठ्या कालयापनम् । सत्कर्मफलमैश्वर्यं शुभराशौ वदेद् बुधः ॥ ७१ ॥ इति दशमफलम् । ११ लाभचक्रदशाकाले धनाप्त्यारोग्यभूषणम् । विचित्रवस्त्रागमनं गृहोपकरणं लभेत् ॥ ७२ ॥ स्त्रीपुत्रबन्धुसौख्याप्तिमृणद्रव्यायतिं शुभम् । राजप्रीति महत्सङ्गं प्रवदन्ति शुभोदये ॥ ७३ ॥ इति लाभफलम् । १२ व्ययचक्रदशाकाले देहार्तिं स्वपदच्युतिम् । चोराग्निनृपकोपादिवन्धुस्त्रीनृपपीडनम् ॥ ७४ ॥ उद्योगभङ्गमलस्यं कृषिगोभूमिनारानम् । दारिद्र्यं कर्मवैकल्यं पापर्क्षे तु न संशयः ॥ ७५ ॥ इति व्ययफलम् । इदानीं भावपरत्वेन कालचक्रदशाफलान्याह । अत्रेदमनवधेयम् । नक्षत्रपादवशात् सव्यापसव्यचक्रे यद्राश्यंशसम्बन्धिनी दशा समागच्छति स राशिर्जन्मकाले लग्नादिको यो भावस्तदुक्तं फलमत्र विनिर्दिशेत् । तत्र शुभराशिके शुभसंयुते व भावे कथितफलं शुभतर- मन्यथा (पापर्क्षे पापयुते च भावे) अशुभं च वाच्यमिति । श्लोकार्थाः सर्वे स्पष्टार्था एवे- त्युपेक्ष्यन्ते ॥ ४७-७५ ॥ अब १२ भावोंकी कालचक्र-दशाके फल कहते हैं—लग्नकी चक्रदशाकालमें देहकी आ- रोग्यता, महासुख, कीर्ति-भूषण-राज्य-अर्थ-पुत्र-स्त्री-वस्त्रकी प्राप्ति होती है ॥ ४७ ॥ यदि लग्न शुभ क्षेत्रमें हो तो शुभफल हो, पापक्षेत्रसे अन्यथा (अशुभ) फल होता है। उसी प्रकार पापग्रहयुक्त लग्नका भी फल है। शुभग्रहसे युक्त लग्नके होने पर शुभ फल होता है ॥ ४८ ॥ स्वगृह-उच्चस्थान-मित्रगृहमें प्राप्त ग्रहसे लग्न यदि युक्त हो तो लग्नकी चक्र दशामें राज्य-धनकी प्राप्ति और राजपूजन होता है ॥ ४९ ॥ नीच राशि-अस्तंगत-शत्रुराशिस्थ ग्रहसे लग्नके युक्त होने पर पुत्र-स्त्री आदिका नाश होता है । मिश्रमें मिश्र फल कहे ॥ ५० ॥ द्वितीय भावकी चक्र दशामें धन-धान्यकी वृद्धि होती है। भोजन, पुत्र, स्त्री-जमीन- की प्राप्ति तथा राजपूजन होता है। विद्याकी प्राप्ति, बोलनेमें पटुता, सज्जनोंके सङ्गसे कालका यापन होता है। दूसरे भावमें शुभ राशि होनेसे शुभफल एवं पापराशिसे पाप- फल होते हैं ॥ ५१-५२ ॥ तीसरे भावकी चक्रदशामें उत्तम सुख, सुन्दर भोजनादिका लाभ, साहस, धैर्य और स- न्तोषका लाभ, कर्णाभूषण, वस्त्र, कण्ठभूषण, सुन्दर अन्न और जलादिका लाभ होना कहे। ३ रा भाव शुभ होनेसे उक्त फल खूब उत्तम अन्यथा साधारण और अधम जानें ॥५३-५४॥ चौथे भावकी चक्रदशामें सवारी, भूषण, जमीन और तीर्थ आदिकी यात्राका लाभ हो, सज्जनोंसे सङ्ग हो, चित्तकी शुद्धि, उत्साह, स्त्री-पुत्रकी प्राप्ति, खेतीमें उन्नति, मित्रोंसे प्रेम, गृहोंका लाभ, महत् सुख, आरोग्य, धनलाभ, सुगन्ध और वस्त्रोंकी प्राप्ति होवे। यहां भी शुभ राशि होनेसे शुभफल तथा पापराशि होनेसे फलोंका नाश हो ॥ ५५-५७ ॥

कालचक्रदशाध्यायः ॥१७॥ ५१३ पुत्रभावकी चक्रदशामें राज्यप्राप्ति, राजासे आदर, स्त्री-पुत्रकी प्राप्ति, धीरज, आरोग्य, बन्धुओंका पालन, अन्नदान, यशका लाभ, मङ्गलादिकी प्राप्ति, दूसरोंका उपकार, धनलाभ, सवारी और वस्त्राभरणोंकी प्राप्ति होवे। यहां भी शुभ और पापराशि तथा ग्रहोंके संयोगसे फलमें शुभाशुभ कहे ॥ ५८-६० ॥ छठे भावकी चक्रदशामें अग्निका भय, चोर-शत्रु-विष और राजाओंसे भय, पीडा, स्थानकी हानि, प्रमेह-गुल्म-पाण्डु-ग्रहणी और क्षय रोगसे भारी भय, स्त्रीके लिये अयश, पुत्र और बन्धुओंका नाश, जेल आदिमें बन्धन, विष आदि घातक वस्तुओंका खाना, कर्ज और गरीबीसे पीड़ा ये सब फल होते हैं। यदि छठा भाव शुभराशि हो तो उक्त फलोंमें कमी होती है। पापराशि होनेसे उक्त फल पूर्ण होते हैं ॥ ६१-६३ ॥ सातवें भावकी दशामें विवाह, स्त्रीसुख, पुत्रोदय, सुन्दर पक्वान्नादि भोजन, खेती- पशु-वाहन और भूषणकी प्राप्ति, राजासे आदर, सुन्दर यश होते हैं। यहां शुभराशि और शुभग्रहोंके योगसे फलमें विशेषता होती है ॥ ६४-६६ ॥ मृत्यु भावकी दशामें बहुत दुःख, धननाश, स्थाननाश, मित्रनाश, गुदारोग, उदररोग, दरिद्रता, अन्नसे अरुचि और अन्नका अभाव, शत्रुसे भय कहना चाहिये। यहां ८ वां भाव पापराशि और पापग्रह युक्त हो तो फल पूर्ण रूपसे होवे ॥ ६६-६७ ॥ नववें भावकी दशामें निश्चय शुभफल होते हैं। पुत्र, मित्र, स्त्री, धन, खेती, पशु और गृह एवं भूषणोंकी प्राप्ति, शुभकार्यकी सिद्धि, सज्जनोंसे प्रेम ये फल होते हैं। यहां शुभ- राशि और शुभग्रहोंके योगसे उक्तफलोंमें विशेषता भी होवे ॥ ६८-६९ ॥ दशवें भावकी दशामें राज्यप्राप्ति, राजासे आदर, सुयश-स्त्री-पुत्र-मित्रका उदय, मङ्ग- लोदय, हुकूमत, नीरोगता, सज्जनोंसे सङ्ग, सुन्दर कार्य कहने चाहिये। यहां शुभराशि होने से उक्तफल खूब सुन्दर होवे ॥ ७०-७१ ॥ लाभ भावकी दशामें धनलाभ, आरोग्य, भूषण, सुन्दर वस्तुओंका लाभ, स्वगृहके सामग्रियोंका लाभ, स्त्री-पुत्र-मित्र-बन्धुओंका उदय, लहनेका लाभ, राजासे प्रेम और सज्ज- नोंसे सङ्ग होते हैं ॥ ७२-७३ ॥ व्यय भावकी दशामें शरीरमें पीड़ा, पदका नाश, चोर-अग्नि-राजाओंके कोपसे भय, बन्धु-स्त्री और राजासे पीड़ा, उद्योगका नाश, आलस्य, खेती-पशु प्रभृतिकी क्षति, दरि- द्रता और कर्मोंमें विफलता होती है। यहां पापराशि और पापग्रहोंके योगसे फलमें विशे- षता कहनी चाहिये। उपर्युक्त फलोंमें यह विशेषता जाननी चाहिये कि शुभफलोंमें भाव यदि शुभराशि और शुभग्रह युक्त हो तो शुभमें विशेषता और पापफलोंमें पापराशि और पापयुक्त हो तो पापमें विशेषता इसका उलटा हो तो उलटा फल कहे ॥ ७४-७५ ॥ अथ चक्रदशाफलेषु विशेषः । लग्नादिद्वादशान्तानां भावानां फलमीदृशम् । प्रोक्तमत्र विशेषोऽस्ति विशेषात्कथ्यतेऽधुना ॥ ७६ ॥ तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् । राशीश्वरे बलयुते स्वोच्चमित्रस्ववर्गके ॥ ७७ ॥ मित्रान्विते शुभैर्दृष्टे यत्प्रोक्तं तच्छुभं वदेत् । बलहीनेऽरिनिचस्थे दिनेशकरपीडिते ॥ ७८ ॥ षष्ठाष्टमव्ययस्थाने पापशत्रुनिरीक्षिते । तद्राशिपे तु जनने कष्टं राश्युद्भवं फलम् ॥ ७९ ॥ फलं तद्विगुणं कष्टं शुभं राश्युद्भवं फलम् । अधिपस्य बलं हीनं यदि चानर्थमाप्नुयात् ॥ ८० ॥

५१४ सटीकजातकपारिजाते- अधिपस्य बलाधिक्यं राश्युद्भवफलं शुभम् । यदि चेद् द्विगुणं सौम्यं फलत्येव न संशयः ॥ ८१ ॥ अधिपै चरराशिस्थे चरराश्यंशकेऽपि वा । चरराश्युद्भवं चक्रं विदेशगमनप्रदम् ॥ ८२ ॥ यावच्चक्रं तदा ज्ञेयं यद्येकस्मिन् चरे सति । विदेशगमनं वाऽपि स्वस्थानाप्तिं विनिर्दिशेत् ॥ ८३ ॥ इदानीमुक्ते द्वादशभावदशाफले वैशिष्ट्यमाह—लग्नादीति । लग्नादिद्वादशान्तानां भावानामीदृशं पूर्वोक्तं फलं यत्प्रोक्तं तत्र यो विशेषोऽस्ति असौ विशेषात् (विस्तरेण) अधुना कथ्यते मयेति शेषः । तत्तद्भावानां राशीशवीर्येण यथायोग्यं फलं प्रयोजयेत् (भावाधिपस्य बलवशादेवोक्तफलेषु न्यूनाधिक्यं वाच्यमिति भावः) राशीश्वरे = तत्तद्भा- वेशे बलयुते, स्वोच्चगते, स्वमित्रस्यात्मनो वा वर्गगते, वा मित्रान्विते शुभैर्दृष्टे सति यत्फलं तच्छुभं वदेत् । तथा राशीश्वरे बलहीने, वा रिपुराशौ वा नीचे वा दिनेशकर- पीडिते (अस्तङ्गते) वा षष्ठाष्टमव्ययभावानामन्यतमगते, वा पापेन, शत्रुणा च निरीक्षिते सति तद्राश्युद्भवं = चक्रदशायां तद्भावजं फलं कष्टमशुभं भवति । यदि अधिपस्य = तत्तद्भावाधिपतेः बलं हीनं स्यात्तदा तद्राश्युद्भवं फलं शुभमपि द्विगुणं कष्टमशुभत्वं प्राप्नु- यादिति । यदि अधिपस्य = भावेशस्य बलाधिक्यं भवेत्तदा तद्राश्युद्भवं शुभं फलं द्विगुणं सौम्यं फलति । अत्र संशयः = सन्देहो न । अत्र भावफलस्य शुभहेतवे तत्तद्भावाधिपतेः बलाधिक्यमपेक्षितमिति भावः । भावाधिपे चरराशिस्थे, वा चरराश्यंशकेऽपि स्थिते, वा चरराश्युद्भवं चक्रं = कालचक्रदशा यदि चरराशिसम्बन्धिनी भवेत्तदा विदेशगमनप्रदं भवति जातस्येति । चक्रदशायां यद्येकस्मिन् चरे (तद्भावे चरराशौ, वा भावेशे चरराशिस्थे वा चरनवां- शस्थे इत्यादि) सति यावच्चक्रं = चक्रदशाकालं यावत् (अत्रापि चरराश्यन्तरे विशेषेण) विदेशगमनं वा स्वस्थानाप्तिं = तद्राशिनिर्दिष्टपदलाभं विनिर्दिशेत् ॥ ७६-८३ ॥ लग्नादि द्वादश भाव पर्यन्त भावोंकी कालचक्रदशाके फल इस प्रकारके कहे हैं। यहां पर जो विशेष है वह विस्तर रूपसे अब कहते हैं ॥ ७६ ॥ प्रत्येक भावके उस २ राशीशके बलानुसार यथायोग्य फलकी योजना करे। राशीश बलसे युक्त हो, अपने उच्च स्थानमें हो, मित्र राशिमें हो, स्ववर्ग में हो, मित्रसे युक्त हो या शुभदृष्ट हो तो जो फल कहे हैं वे सब ठीक २ होते हैं । भावेश यदि बलसे हीन हो शत्रु या नीच राशिस्थ हो, सूर्यसे पीडित हो, षष्ठ-अष्टम-द्वादश-स्थानमें हो, पापग्रह तथा शत्रु ग्रह देखता हो तो उस भावका चक्रदशाफल कष्टजनक होता है ॥ ७७-७९ ॥ यदि भाव राशिका फल बुरा हो तो उस भावकी अशुभ चक्र दशाका फल दूना खराब होता है । वही यदि भावपति निर्बल हो तो और भी अनर्थ (बुरा फल) होता है ॥ ८० ॥ यदि भावाधिपतिका बल विशेष हों और राश्युत्पन्न फल भी अच्छा हो तो उसका चक्रदशाफल दूना शुभ होता है इसमें संशय नहीं है ॥ ८१ ॥ भावाधिपति चरराशिमें हो, अथवा चरराशिके नवांशमें हो तो चरराशिवाले भावका चक्रदशाफल विदेश यात्रा करानेवाला हो ॥ ८२ ॥ यदि एक भी चर हो, याने भाव या भावपति चरराशिमें या चरनवांशमें हो तो उसकी समूची चक्रदशामें विदेशगमन वा स्वस्थानकी प्राप्ति जाने ॥ ८३ ॥ संज्ञाध्याये च यत्प्रोक्तं कर्माजीवे च यत्फलम् । फलमाश्रयजं यद्यत्स्थानजन्यं च यत्फलम् ॥ ८४ ॥