जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 533, कुल 588 में से
संदर्भ में पढ़ेंकालचक्रदशाध्यायः ॥१७॥ ५०७ धनुसे मेषपर जानेपर पुत्र और मित्रकी मृत्यु हो । इसमें शुभग्रह होनेसे भय नहीं है, पापग्रह होनेसे भय है ॥ २० ॥ कन्यासे कर्क पर जानेपर पूर्व भागमें महान् हो । यहां उत्तर दिशाके आश्रयसे शुभ- यात्रा करे ॥ २१ ॥ सिंहसे मिथुनपर जानेवाली दशामें पूर्वदिशाका त्याग करे । यहां कार्यसिद्धिके लिये नैर्ऋत्य दिशामें सुखयात्रा करे ॥ २२ ॥ सव्य चक्रमें कर्कसे सिंहपर जानेवाली दशामें कार्यहानि और रोग हो । उसमें दक्षिण दिशाका आश्रयण कर पीछे आगमन करे ॥ २३ ॥ मीनसे वृश्चिकपर जानेवाली दशामें उत्तर दिशामें सङ्कट प्राप्त हो। धनुसे मेषपर जाने वाली दशामें भय, यात्रा, व्याधि तथा बन्धुकी मृत्यु होती है ॥ २४ ॥ वहां (धनुसे मेषवालीमें) सम्पत्ति विवाहादि शुभ पश्चिममें होता है। यदि उसमें शुभग्रह हों तो मनुष्यको राजासे प्रीति, लव सम्पत्ति करानेवाली होवे ॥ २५ ॥ देहो मेषश्चापसिंहाजभानां जीवश्चापी गोवधूनक्रभानाम् । आकोकेरो देहसंज्ञो नृयुग्मं जीवः सव्ये चापसव्ये विलोमात् ॥ २६ ॥ उक्षा देहो युग्मकोणं गतानां जीवं युग्मागारमाहुर्मुनीन्द्राः । मीनो जीवः कर्कटो देहराशिः सव्ये चक्रे कर्किकीटान्त्यभानाम् ॥ २७ ॥ अधुना पूर्वोक्तकालदशाचक्रे द्वादशराशीनां देहजीवपरिभाषामाह-देह इति । चाप- सिंहाजभानां = धनुःसिंहमेषराशीनां, मेषो = भौमः देहसंज्ञो भवति, चापी = धनुः = गुरुः जीवसंज्ञो भवति । गोवधूनकभानाम् = वृषकन्यामकरराशीनाम्, आकोकेरः = मकरः शनिः देहसंज्ञो भवति । नृयुग्मं = मिथुनं बुधः, जीवसंज्ञो भवति । एवं किल सव्ये भवति । अपसव्ये च विलोमात् । अर्थात् अपसव्ये चापसिंहाजभानाम्, धनुर्देहाभिधं, मेषो जीवाख्यश्चैवं गोवधूनक्रभानां मकरो जीवाख्यः, मिथुनं देहश्च भवतीति ज्ञेयम् । युग्मस्य = मिथुनस्य, कोणगतानां = मिथुनतुलाकुम्भानामुक्षा = वृषाधिपः = शुक्रः, देहसंज्ञो भवति । युग्मागारं = मिथुनं = बुधं, जीवं मुनीन्द्रा आहुः । एतत्किल सव्येऽपसव्ये च समानमेव भवति । अथ कर्किकीटान्त्यभानां = कर्कवृश्चिकमीनानां मीनो (गुरुः) जीवः, कर्कटश्च- न्द्रमा देहश्च भवति । परमेतत् सव्ये चक्रे । अपसव्ये तु विलोममर्थात् कर्किकीटान्त्यभानां मीनो (गुरुः) देहः, कर्कटः (चन्द्रः) जीवश्चेति वाच्यम् । स्पष्टार्थं चक्रं विलोक्यमिति ॥ सव्यचक्रमें मेष-धनु-सिंह-राशिमें मेष देह संज्ञक है, और धनु जीव संज्ञक है। वृष- कन्या-मकर राशियोंका मकर देह संज्ञक और मिथुन जीव संज्ञक है। अपसव्यमें इसका उलटा जाने । राशीशको देहेश और जीवेश जानें । स्पष्टार्थ सं चक्र देखें ॥ २६ ॥ सव्यचक्रमें मिथुन-तुला-कुम्भराशियोंका वृष देह और मिथुन जीव मुनीन्द्रोंने कहा है। कर्क-वृश्चिक-मीनका मीन जीव और कर्क देह संज्ञक है। यहां भी जीव और देहका पति राशिपति समझें । अपसव्यमें इसका विपरीत होता है ॥ २७ ॥ देहजीवसमायुक्तैर्भीमार्कैरविभोगिभिः । एकैकयोगे मरणं बहुयोगे न संशयः ॥ २८ ॥ देहयुक्ते महारोगं जीवयुक्ते महद्भयम् । द्वाभ्यां संयोगमात्रेण हन्यते नात्र संशयः ॥ २६ ॥ अधिरोगो भवेद् द्वाभ्यामपमृत्युस्त्रिभिर्भवेत् । चतुर्भिर्मूतिरापन्ना देहजीवे भवेद्यदि ॥ ३० ॥ युगपद्देहजीवौ तु पापग्रहयुतौ तथा । राजचोरादिभीतिश्च द्वाभ्यां मृत्युनं संशयः ॥ ३१ ॥