जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 534, कुल 588 में से
संदर्भ में पढ़ें५८८ सटीकजातकपारिजाते- अग्निबाधां रवौ विद्याच्चन्द्रे ज्वलनबाधनम् भौमे शस्त्रकृता पीडा वायुबाधाकरं बुधे ॥ ३२ ॥ गुरौ चोदरबाधा स्यात् शुक्रेऽग्निभयमाप्नुयात् । शनौ गुल्मेन बाधा स्याद् राहौ विषकृतां रुजम् ॥ ३३ ॥ अस्मिन् कालचक्रे प्रतिराशिं या देहजीवसंज्ञाः परिभाषितास्तासु यथासम्भवं देह- जीवसमायुक्तैः भौम-शनि-सूर्य-राहुभिः निर्दिष्टं फलं ब्रूयात् । तत्रैकैकयोग एव मरणं भवति । बहुयोगे तु अवश्यमेव मरणं वाच्यम् । यथा पूर्वोक्तोदाहरणे मीनांशदशायां देहः कर्कटः ( चन्द्रः ), जीवो मीनः ( गुरुः ) वरीवर्त्ति । अत्र यदि देहे जीवे वा राशौ, वोभयत्रापि यदि भौमार्किरविभोगिनामन्यतमः सर्वे वा सम्प्राप्ता भवेयुस्तदा मीनांश- दशायां निर्दिष्टग्रहान्तरे तस्य मरणं वक्तव्यमित्यर्थः । पक्षान्तरमाह-देहयुक्त इति । देहे गतवति भौमादिपापग्रहे महारोगं, जीवे गतवति महद्भयं, द्वाभ्यां देहे जीवे च संयोग- मात्रेण नरस्तदन्तरे हन्यते, अत्र संशयो नेति । अन्यत्स्पष्टार्थमेवेति ॥ २८-३३ ॥ मंगल, शनि, रवि या राहु देह और जीवमें संयुक्त हो तो एक २ के योगमें भी मरण कहे । बहुतके योगमें तो निःसन्देह मृत्यु कहे ॥ २८ ॥ पूर्वोक्त कोई ग्रह देहयुक्त हो तो महारोग, जीवयुक्त हो तो महाभय होता है। दोनोंका संयोग होनेसे मृत्यु होती है ॥ २९ ॥ दो ग्रहोंसे युक्त देह या जीव हो तो अधिरोग, तीनसे अपमृत्यु, चारसे निश्चित मृत्यु हो ॥ देह और जीव दोनों पापग्रहसे युक्त हों तो राजासे और चोरसे भय हो । दोनों दो दो पापग्रहोंसे युक्त होनेसे मृत्यु हो, इसमें संशय नहीं है ॥ ३१ ॥ उस देह या जीवमें सूर्य हो तो अग्निबाधा, चन्द्रमा हो तो ज्वलन बाधा, मंगल हो तो शस्त्रसे पीडा, बुध हो तो वायु की बाधा हो ॥ ३२ ॥ बृहस्पति हो तो उदर बाधा, शुक्र हो तो अग्निका भय हो, शनि हो तो गुल्म बाधा हो, राहु हो तो विषका किया रोग हो ॥ ३३ ॥ भ्रातृस्थानगतो जीवो दारस्थानगतः कुजः । तथा जन्मगतो मन्दो राहुर्नवमराशिगः ॥ ३४ ॥ चन्द्रोऽष्टमगृहं यातः सूर्यो रिष्फगृहं गतः । बुधः सप्तमभावस्थो भार्गवः शत्रुराशिगः ॥ ३५ ॥ इत्येवं मरणस्थानं तस्मिन्पापयुतेऽथवा । पापदृष्टेऽरिनिचस्थे दुर्बले दुःखमाप्नुयात् ॥ ३६ ॥ अधुना कानिचिन्मरणस्थानान्युच्यन्ते-भ्रातृस्थानेति । १. जीवो ( गुरुः ) यदि भ्रातृस्थानगतः = तृतीयभावस्थो भवेत्तदा तृतीयं मरणस्थानं भवति । २. कुजो दारस्थान- ( ७ ) गतः स्यात्तदा दारस्थानं ( ७ ) मरणं ज्ञेयम् । ३. जन्मगतः =लग्नस्थितः, मन्दः । ४. नवमस्थितो राहुः । ५. अष्टमगतः चन्द्रः । ६. द्वादशगतो रविः । ७. सप्तमगतो बुधः । ८. अष्टमस्थः शुक्रश्च यदि भवति तदा किलैतत् मरणस्थानं भवति । तस्मिन् = मरणस्थाने, पापयुते = पापग्रहेण सहिते अथवा पापदृष्टे अरिनीचस्थे ( तत्तद्राशौ यो ग्रहो भवेत्तस्य ग्रहस्यासौ राशिर्नीचो वा शत्रुगृहं स्यात् तदा ) दुर्बले वा ग्रहे सति तद्योगकारकदशायां नरो दुःखमाप्नुयात् । अत्र बहूनां योगकर्त्तृग्रहाणां मध्ये बलवतो ग्रहणं भवति । तद्दशायां दुःखं प्राप्नुयाज्जातक इति ॥ ३४-३६ ॥ भ्रातृ स्थानमें बृहस्पति हो, सप्तम स्थानमें मंगल हो, जन्म स्थानमें शनि हो, राहु नवम राशिमें हों, चन्द्रमा अष्टम गृहमें हो, सूर्य १२ वें हो, बुध ७वें हो, शुक्र छठे हो तो