जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 525, कुल 588 में से
संदर्भ में पढ़ेंमेषगोयमकुलीरमन्दिरेष्वंशकेषु परमायुरुच्यते । ज्ञानकं मदगजास्तदा क्रमात्तत्र कोणभवनेषु तद्वदेत् ॥ १२ ॥ एवमायुः परिज्ञानं देहजीवौ प्रकल्प्य च । सव्ये तु प्रथमांशस्तु देह इत्यभिधीयते ॥ १३ ॥ जीवः सर्वेष्वन्त्यपादौ विलोममपसव्यके । इदानीं कालचक्रक्रममाह—पद्म प्राचीति । तत्र चक्रलेखनप्रकारो हि चक्रदर्शनेन स्फुट- स्यात् । कालचक्रे सूर्यादीनां दशावर्षाणि क्रमेण भूतादयः सन्ति । अर्थात् सूर्यस्य = ५ व० । चन्द्रस्य = २१ व० । मं० = ७ व० । बु० = ९ व० । गुरोः = १० व० । शु० = १६ व० । शनेः = ४ वर्षाणि । एतानि किल वर्षाणि प्रतिराशि खण्डनवके राशीनां ( 'पौर- ज्ञावो मातासहोधी' इत्यादि वक्ष्यमाणसव्यापसव्योपगतानां ) स्वामिनां वशतो ज्ञेयानि । सव्यचक्रवाक्यानि— [L1