जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 53, कुल 588 में से
संदर्भ में पढ़ेंपणफरसंज्ञानि भवन्ति । व्ययरिपुगुरुदुश्चिक्यानि = द्वादश-षष्ठ-नवम-तृतीयभवनानि च आपोक्लिमानि भवन्ति । तयोक्तं सारावल्याम्— “केन्द्रात्परं पणफरमापोक्लिमसंज्ञितं तयोः परतः” इति । मृत्युबन्धुद्वयं च = अष्टमचतुर्थभावद्वयं 'चतुरस्रं' प्रभवति । तयोक्तं वराहेण— “लग्नाच्चतुर्थनिधने चतुरस्रसंज्ञे” इति । उपचयम् । दुश्चिक्यायारिशानानि = तृतीयैकादशषष्ठदशमभवनान्युपचयभवनान्य- चार्यमुख्याः = प्राक्तना मुनय आहुः । शेषाः=अवशिष्टाः, नवधनजलधीकामरन्ध्रान्त्यहोरा= नवम-द्वितीय-चतुर्थ-पञ्चम-सप्तमाष्टम-द्वादश प्रथमभावाः 'पीडर्त्तसंज्ञाः' भवन्ति । तथोक्तं स्वल्पजातके-“त्रिषेडेकादशदशभान्यपचयभवनान्यतोऽन्यथाऽन्यानि” इति । अथ भावानां स्थितिवशाच्छुभाशुभफलदत्वमुच्यते । एते भावाः पूर्वोक्तास्तदीशन्दु- ज्ञसितगुरुभिः = स्वस्वामि-बुध-शुक्र-बृहस्पतिभिः संयुताः = सहिताः, वा वीक्षिताः=अव- लोकिताः, अन्यैरितरैर्न युक्ता न दृष्टाश्च यदि भवन्ति तदा जन्मतः पृच्छतो वा = जातस्य, प्रष्टुर्वा शुभफलदा भवन्ति । तयोक्तं सारावल्याम्— “आत्मीयनाथदृष्टः सहितस्तेनैव तत्प्रियैर्वाऽपि । शशिसुतजीवभ्यामपि राशर्बलवान् चेच्छेषैः ॥” इति ॥ ५३-५५ ॥ ( १०।१।७।४ ) भावोंकी केन्द्र, कण्टक और चतुष्टय संज्ञा हैं। लग्नसे ( १।५ ) की त्रिकोण संज्ञा है । लग्नसे नवमको त्रित्रिकोण कहते हैं ॥ ५३ ॥ ( १।४।७।१० ) भाव केन्द्र हैं। ( २।५।८।११ ) भाव पणफर हैं। ( १२।६।९।३ ) भाव आपोक्लिम संज्ञक हैं। अष्टम और चतुर्थ चतुरस्र हैं ॥ ५४ ॥ ( ३।११।६।१० ) इन चार स्थानोंकी उपचय संज्ञा है। शेष ८ स्थान ( ९।२।४।५।७।८। १२।१ ) पीडर्त्त संज्ञक हैं। ये भाव जन्मकुण्डली वा प्रश्नकुण्डलीमें अपने अपने स्वामियोंसे और बुध, शुक्र, बृहस्पतिसे युक्त हों वा देखे जाते हों तो और अन्यग्रहसे युत या दृष्ट न हों तो शुभफल देते हैं ॥ ५५ ॥ अथ राशीनामुदयमानानि । नखाः जिना विंशतिरष्टयुक्ता रदाङ्गलोका वियदर्णवाख्याः । मेषादिमानं क्रमश्रो वदन्ति तुलादिषट्कस्य विलोमतस्ते ॥ ५६ ॥ अयेदानीं लग्नानामुदयमानान्युच्यन्ते । तत्र मेषस्य नखां(२०)शाः । वृषस्य जिन (२४)भागाः । मिथुनस्याष्टाधिकविंशति-(२८)भागाः । कर्कस्य रदां-(३२)शाः । सिंह- स्याङ्गलोकां-(३६)शाः । कन्यायाः वियदर्णवां-(४०)शा उदयमानानि सन्ति । एवमेतेषां वैपरीत्येन तुलादिषड्राशीनामुदयांशा ज्ञेयाः । अथात्र पठिता एते उदयभागाः सार्द्धसप्ताङ्गुलपलभादेशीयाः । तत्प्रत्यक्षार्थं गणि- तम्— पलभाऽङ्गुलादिः=७ १/२ । ततश्चरदलानि ७५, ६०, २५ । एभ्यः— “लङ्कोदया विघटिका गजभानि गोऽङ्कदन्त्याश्विपक्षदहनाः क्रमगोत्क्रमस्थाः । हीनान्विताश्चरदलैः क्रमगोत्क्रमस्थैर्मेषादितो घटत उत्क्रमतस्त्विमे स्युः ॥” इत्यादिना सार्द्धसप्ताङ्गुलपलभादेशीयोदयमानानि— मे. मी.=२७८^प—७५^प = २०३^प अत्र स्वल्पान्तरात् २००^प गृहीताः। दशाप्ता अंशा २०° वृ. कुं.=२९९^प—६०^प = २३९^प ,, ,, २४०^प ,, ,, ,, २४° मि. म.=३२३^प—२५^प = २९८^प ,, ,, २८०^प ,, ,, ,, २८° क. ध.=३२३^प + २५^प = ३४८^प ,, ,, ३२०^प ,, ,, ,, ३२°