भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 54, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 54

२८ सटीकजातकपारिजाते- सिं. वृ.=२९९^प + ६०^प = ३५९^प अत्र स्वल्पान्तरात् ३६०^प गृहीता दशांशा अंशा ३६° क. तु.=२७८^प + ७५^प = ३५३^प ” ” ४००^प ” ” ” ४०° स्वदेशीयोदयमानार्थं स्वदेशीयपलभातश्च खण्डैश्चोक्तविधिना गणितं कार्यम् । इह ये राशोनामुदयभागाः पठितास्ते स्थिराः केवलं नष्टादिचिन्तायां द्रव्यपरिज्ञानाय पुरुषावयव- ज्ञानाय चेति ॥ ५६ ॥ मेषादि छ राशियोंके क्रमसे २०, २४, २८, ३२, ३६, ४० अंश मान हैं और तुलादि छ राशिके विलोमसे ये ही मान हैं ॥ ५६ ॥ अथ राशीनां शुभाशुभभागाः । तनुः शरा रारिखराः किरीटिनो घना गुरुर्हेयनखा नरा नुकाः । शशाङ्कभागा यदि तुम्बुरादिके मुहूर्त्तजन्मादिषु मृत्युसूचकाः ॥ ५७ ॥ पुत्रो वटुर्दिव्यजनाधिको धनी विराटयो गोत्रवयो धिको धुनाः । मेषादिके पुष्करभागसंज्ञका मुहूर्त्तजन्मादिषु शोभनप्रदाः ॥ ५८ ॥ इदानीं राशीनामशुभभागान्छुभभागांश्चाह । मुहूर्त्तजन्मादिषु = मुहूर्त्तेषु जन्मसु च तुम्बुरादिके = मेषादिराशौ यदि तन्वादिकाः शशाङ्कभागाश्चन्द्रांशा भवेयुस्तदा ते मृत्युसूचका भवन्ति । यथा मेषे तनुरष्टौ ( तनुशब्देन मूर्त्तिरुच्यते, मूर्त्तयोऽष्टौ-‘क्षिति-जल-पवन-हुता- शन-यजमाना-काश-सोम-सूर्याख्याः’ शिवस्येति । ) अष्टमोंऽशश्चान्द्रो मेषस्याशुभ- करो भवति जन्मवतामिति । वृषे शराः = पञ्चविंशः ( अत्र “कटपयवर्गभवै” रित्याद्युक्तप्र- कारेणाङ्कसङ्केतो ज्ञेयः ) मिथुने रारिः=द्वाविंशः । कर्के खराः = द्वाविंशः । सिंहे किरी=एक- विंशः । कन्यायां टिनः = प्रथमः । तुलायां घनाः = चतुर्थः । वृश्चिके गुरुः = त्रयोविंशः । धनुषि हेयः = अष्टादशः । मकरे नखाः=विंशः । कुम्भे नराः=विंशः । मीने नुकाः=दशमः अंशोऽशुभः । अत्रेदमवधेयं-यस्य जन्मकाले राशिपठितांशप्रमितश्चन्द्रो भवेत्तदा तावत्स- ङ्ख्यामिते वर्षे तस्य जातकस्य मृत्युरादेश्य इति । तथोक्तं सर्वार्थचिन्तामणौ— “कुम्भे विंशतिभागे स्यान्मृत्युं दद्यान्निशाकरः । एकविंशतिभागेस्तु सिंहे तत्त्वैस्तु ग्लौः वृषे ॥ अष्टमे मेषचन्द्रस्तु त्रयोविंशतिकोऽलिगः । द्वाविंशतिः कुलीरे तु तुलायां वेदभागकः ॥ विंशतिमर्करे चन्द्रः कन्यायां प्रथमांशकः । धन्विन्यष्टादशो भागो मीने दशमभागयुक् ॥ द्वाविंशतिर्नृयुग्मे तु चन्द्रोऽप्येवं मृतिप्रदः । ये ये निशाकरांशास्तु मृत्युभागा विवक्षिताः ॥ तावद्भिर्वत्सरैर्जातो मृत्युमेति न संशयः” ॥ इति ॥ अथ शुभांशाः । मेषादिके = मेषप्रभृतिराशौ, पुत्रादयः पुष्करभागसंज्ञाः = पुष्कराख्यां- शांः, मुहूर्त्तजन्मादिषु शोभनप्रदा भवन्ति । तथथा—मेषे पुत्रः = एकविंशतितमोंऽशः पुष्क- राख्यः शुभो भवति । एवं-वृषे वटुः = चतुर्दशः । मिथुने दिव्यं = अष्टादशः । कर्के जनः= अष्टमः । सिंहे अधिकः = एकोनविंशः । कन्यायां धनी = नवमः । तुलायां विरा = चतु- र्विशः । वृश्चिके टयो = एकादशः । धनुषि गोत्रः = त्रयोविंशः । मकरे वयः = चतुर्दशः । कुम्भे धिकः = एकोनविंशः । मीने धुनाः = नवमोंऽशः पुष्करसंज्ञो भवति । जन्मकाले पठि- तराशिभागतुल्यश्चन्द्रो जातस्य शुभकरो भवतीति ॥ ५७–५८ ॥

राशयःमे.वृ.मि.क.सिं.क.तु.वृ.ध.म.कु.मी.
शुभांशाः२११४१८१९२४११२३१४१९
अशुभांशाः२५२२२२२१२३१८२०२०१०
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 54, कुल 588 में से · BharatKosha