भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 55, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 55

राशिशीलाध्यायः ॥१॥ २९ मेषादि राशियों में क्रमसे ८।९।२२।२२।१।१।४।२३।१८।२०।२० और १० वां चन्द्रमा के अंश मुहूर्त्त और जन्मकालमें मरणसूचक हैं । एवं २१।१४।१८।८।१९।२२।२४।११।२३।१४।१९ और ९ वां अंश पुष्कर नामक होते हैं। ये मुहूर्त्त और जन्मकाल में शुभसूचक हैं। जिसके जन्मसमयमें चन्द्रमा मेषके ८ वें अंश पर हो उसका ८ वें वर्षमें मरण कहना चाहिये । इसी तरह हर एक राशिमें जाने । (सु० ज्ञा० कारः ) ॥ ५७-५८ ॥ अथ मेषादिराशीनां वासदेशाः । क्रमात्पाटलकर्नाटचरचोलवसुन्धराः । पाण्ड्यकेरलकोल्लासमलयावनिसैन्धवाः ॥ ५९ ॥ उदक्पाञ्चालयवनकोशलक्षितिसंज्ञकाः । मेषादिसर्वराशीनां वासदेशाः प्रकीर्तिताः ॥ ६० ॥ इदानीं राशीनां वासदेशा उच्यन्ते । मेषादिसर्वराशीनां = द्वादशानां क्रमात् पाटलादयो द्वादश वासदेशा प्रकीर्त्तिताः सद्भििरिति । मेषस्य पाटलाः । वृषस्य कर्नाटः । मिथुनस्य चरः । कर्कस्य चोलः । सिंहस्य पाण्ड्यः । कन्यायाः केरलः । तुलायाः कोल्लासः । वृश्चिकस्य मलयः । धनुषः सैन्धवः । मकरस्योदक्पाञ्चालः । कुम्भस्य यवनः । मीनस्य कोशलः । प्रयोजनम्-तद्राश्युदये जनिमतां तदुक्तदेशः श्रेयस्करो भवतीति ॥ ५९-६० ॥ पाटल, कर्नाट, चर, चोल, पांडु, केरल, कोल्लास, मलय, सैन्धव, पांचाल, यवन, और कोशल ये क्रमसे मेषादि राशियों के देश हैं ॥ ५९-६० ॥ अथ राशीनां प्लवत्वनिरूपणम् । स्वाम्याशाख्यं यत्तदापप्लवत्वं भानुक्रान्तादम्बुसंज्ञोऽभिजित्स्यात् । होरातन्त्रे पारिजाताभिधाने संज्ञाध्यायः कीर्तितो राशिशीलः ॥ ६१ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते राशिशीलाध्यायः प्रथमः ॥ १ ॥

इदानीं ग्रहाणां प्लवत्वकथनपूर्वकमध्यायमुपसंहरति । स्वाम्याशाख्यं यत् = स्वामिनोऽ-
धिपतेराशाख्यं यत् = या दिगिति, तद्राशोरापप्लवत्वं = निम्नता भवति । यथा मेषराशेरधिपो
भौमस्तस्य दक्षिणा दिकस्यां मेषः प्लवाख्य इति । एवं सर्वत्र । अथाभिजित् । भानुक्रा-
न्तादम्बुसंज्ञः = सूर्याक्रान्तराशेश्चतुर्थो राशिरभिजित्स्यादभिजित्संज्ञको भवति । यथा मेषे
रविश्चेत्तदा कर्कोऽभिजिदिति ।
अथाध्यायोपसंहारः । होरातन्त्रे = जातकशास्त्रे, पारिजाताभिधाने = 'पारिजात'
इति नामके ग्रन्थे राशिशीलः = राशीनां शीलविशिष्टः संज्ञाध्यायो मया ग्रन्थकर्त्रा कीर्तितो
वर्णित इति ॥ ६१ ॥
पारिजाते सुधा टीका कपिलेश्वररचिता । प्रथमे राशिशीलेऽस्मिन्नध्याये पूर्णतां गता ॥ १ ॥
सभी राशि अपने २ स्वामी की दिशा में प्लवित ( नीचोन्मुख ) होती हैं और सूर्य
जिस राशिमें हो उससे चौथी राशि अभिजित् संज्ञक है । होराशास्त्रके पारिजात नामक
ग्रन्थमें राशिशील नामक पहला संज्ञाध्याय समाप्त हुआ । (सु० शा० कारः ) ॥ ६१ ॥
इति श्रीवैद्यनाथविरचिते जातकपारिजाते राशिशीलाख्ये प्रथमेऽध्याये
'विमला' हिन्दी टीका समाप्ता ॥ १ ॥