जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 56, कुल 588 में से
संदर्भ में पढ़ेंअथ ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ तत्रादौ सूर्यादीनां कालात्मत्वादिनिरूपणम् ॥ कालस्यात्मा भास्करश्चित्तमिन्दुः सत्त्वं भौमः स्याद्वचश्चन्द्रसूनुः । देवाचार्यः सौख्यविज्ञानसारः कामः शुक्नो दुःखमेवार्कसूनुः ॥ १ ॥ अथेदानों कालाङ्गे सूर्यादिग्रहाणामधिकारनिरूपणं क्रियते-कालस्येति । भास्करः=सूर्यः, कालस्य = कालपुरुषस्यात्मा भवति । इन्दुश्चन्द्रश्चित्तमन्तःकरणम् । भौमः = मङ्गलः सत्त्वं = बलम् । चन्द्रसूनुः = बुधो वचः = वचनम् । देवाचार्यः = गुरुः, सौख्यविज्ञानसारः= सुखज्ञानपरः । शुक्रः कामः = मदनम् । अर्कसूनुः = शनिर्दुःखं भवति । प्रयोजनञ्च-जन्म- काले तत्तद्ग्रहे बलिनि पुरुषस्य तत्तदधिकृदङ्गभावो बलवान् भवति, निर्बले च निर्बल इति । तयोक्तं स्वल्पजातके— “आत्मादयो गगनगैर्बलिभिर्बलवत्तराः । दुर्बलैर्दुर्वला ज्ञेया विपरीतं शनेः स्मृतम् ॥” इति । काल (समय) रूपी पुरुषका अङ्गविभाग इस प्रकार है—सूर्य आत्मा, चन्द्रमा चित्त (मन), मङ्गल पराक्रम, बुध वचन, बृहस्पति सुख तथा विज्ञान का सार, शुक्र काम और शनि दुःख है । जन्मकालमें बली ग्रहका अङ्ग पुष्ट, निर्बलका निर्बल जाने ॥ १ ॥ अथ रव्यादीनां राजत्वादिनिरूपणम् । दिनेशचन्द्रौ राजानौ सचिवौ जीवभार्गवौ । कुमारो वित् कुजो नेता प्रेष्यस्तपननन्दनः ॥ २ ॥ स्पष्टार्थः । प्रयोजनञ्च--पुरुषस्य जन्मकाले यो ग्रहो बलीयानसौ निजानुरूपं जातकं करोति । तथोक्तं सारावल्याम्— “सत्त्वा नराणां कुर्वन्ति जन्मसमये निजमेव सत्त्वम् ।” इति ॥ २ ॥ सूर्य और चन्द्रमा राजा, बृहस्पति और शुक्र मन्त्री, बुध राजकुमार, मङ्गल नेता और शनि दूत हैं ॥ २ ॥ अथ सूर्यादीनां नामान्तराणि । हेलिः सूर्यस्तपनदिनकृद्भानुपूषारुणार्काः, सोमः शीतद्युतिरुडुपतिर्ग्लौर्मृगाङ्केन्दुचन्द्राः ॥ आरो वक्रक्षितिजक्षुधिराङ्गारकक्रूरनेत्राः, सौम्यस्तारातनुजबुधविद्बोधनात्रेय्सुपुत्राः ॥ ३ ॥ मन्त्री वाचस्पतिगुरुसुराचार्यद्वेज्यजीवाः, शुक्रः काव्यः सितभृगुसुतास्फुजिद्दानवेज्याः । छायासूनुस्तर णितनयः कोणशान्यार्कि मन्दाः, राहुः सर्पाशुरफणितमः सैंहिकेयागवञ्च ॥ ४ ॥ ध्वजः शिखी केतुरिति प्रसिद्धा वदन्ति तज्ज्ञा गुलिकश्च मान्दिः ॥ ४३ ॥ इदानीं ग्रहाणां नामान्तराण्युच्यन्ते । हेल्याद्यष्टौ नामानि सूर्यस्य । सोमादीनि सप्त नामानि चन्द्रस्य । आरादीनि षष्णनामानि मङ्गलस्य । सौम्यादीनि षण्णामानि बुधस्य । मन्त्र्यादीनि षट् गुरोर्नामानि । शुक्रप्रभृति सप्त नामानि शुक्रस्य । छायासुनुमुखानि षट् शनेर्नामानि । राहादीनि सप्त राहोर्नामानि । ध्वजादीनित्रीणि केतोर्नामानि । गुलिको मान्दि- श्चेति द्वयं गुलिकस्य नाम तज्ज्ञाः = ज्योतिषशास्त्रविदो वदन्तीति ॥ ३-४३ ॥ सूर्यके-हेलि, सूर्य, तपन, दिनकृत, भानु, पूषा, अरुण और अर्क नाम हैं। चन्द्रमाके- सोम, शीतद्युति, उडुपति, ग्लौ, मृगाङ्क, इन्दु और चन्द्र नाम हैं। मंगलके-आर, चक्र,