भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 541, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 541

कालचक्रदशाध्यायः ॥१७॥ ५१५ यत्प्रोक्तं राजयोगादौ चान्द्रयोगे च यत्फलम् । नाभासादिषु यत्प्रोक्तं शुभपापेक्षणादपि ॥ ८५ ॥ द्विग्रहादिषु यत्प्रोक्तं ग्रहाणां पूर्वसूरिभिः । तद्राशिचक्रकाले तु स्वधिया योजयेद् बुधः ॥ ८६ ॥ इदानीं पूर्वोक्तानामखिलानां फलानां परिपाककालं चक्रदशायामाह-संज्ञाध्याय इत्या- दिभिः । संज्ञाध्यायमारभ्यात्रावधि भावराशिग्रहादिमूलका यावन्तो योगाः समुदितास्तेषां फलपरिपाककालं तद्राशिचक्रकाले = सव्यासव्योपगतचक्रदशायां तत्तद्राशिसम्बन्धिदशा- काले बुधः = विद्वान् स्वधिया तारतम्येन विविच्य योजयेत् । सर्वे एव ग्रहा राशयश्च स्वस्व- दशायामेव स्वस्वशुभाशुभं फलं ददाति । तथा च वराहः— संज्ञाध्याये यस्य यद् द्रव्यमुक्तं कर्माजीवो यश्च यस्योपदिष्टः । भावास्थानालोकयोगोद्भवं च तत्तत्सर्वं तस्य योज्यं दशायाम् ॥ इति ॥ ८४-८६ ॥ संज्ञाध्यायमें जो द्रव्यादि फल कहे हैं, कर्माजीवमें जिसका जो फल है, आश्रय योगज जो फल हैं, ग्रहोंके स्थानोद्भव जो फल हैं, राजयोगादिमें जो फल कहा है, चान्द्रयोगमें जो फल है, नाभस आदि योगमें जो फल कहा है, शुभ और पापकी दृष्टिसे जो फल कहा है, ग्रहोंके द्विग्रहादि योगसे जो फल कहे हैं उन सबोंको राशिचक्रदशा कालमें बुद्धिसे विचार कर कहे ॥ ८४-८६ ॥ मेषादिराशिचक्रं तु भूभागे न्यस्य दक्षिणम् । अल्यादि हौत्तरं यच्च तच्चक्रं तत्र निर्दिशेत् ॥ ८७ ॥ फलं वा विफलं वाऽपि प्रागादिद्युचरादधः । राशिदिग्भागतो वाऽपि तद्दिग्भागे विनिर्दिशेत् ॥ ८८ ॥ यथोपदेशमार्गेण सर्वेषां फलमीदृशम् ॥ ½ ॥ मेषादीति । मेषादिमीनान्तकं राशिचक्रं, दक्षिणं = सव्यमार्गजातं भूभागे न्यस्य=विलि- ख्य, तथा हि अल्यादि = वृश्चिकादि, औत्तरम् = अपसव्यमार्गजं ( वृश्चिकतो वैपरीत्येन धनुर- न्तम् ) यच्चक्रं तदपि तत्र भूभागे न्यस्य तस्मात्फलाफलं बुधो विनिर्दिशेत् । तत्र यस्य भावस्य राशेर्वा यत्फलादि तत्तद्राशिदिग्भागतो लभ्यं स्यादिति तारतम्येन यथोपदेशमार्गेण सर्वेषां ग्रहराश्यादीनां विनिर्दिशेत् । एतदुक्तं भवति । सव्ये वा अपसव्ये चक्रे यस्य राशेः सम्बन्धिदशायां शुभाशुभफलं वक्तव्यं स्यात् स राशिचक्रे यद्दिग्भावे पतितस्तस्मिन् दिग्भागे तत्तत्फलस्य लाभं ब्रूयादिति ॥ ८७-८८½ ॥ मेषादि राशिचक्र सव्य प्रकार (क्रम) से लिखे और वृश्चिक आदि अपसव्य (व्युत्क्रम) प्रकारसे लिखे। दोनों चक्रोंमें सम्भवानुसार ज्ञानकर उसके फल कहे। दोनों (अपसव्य-सव्य) चक्रके बीच जो ग्रह पूर्वादि जिस दिशामें (चक्रस्थ दिशामें) हो उस दिशामें सफल या विफल यथासम्भव पूर्वोक्त फल कहे ॥ ८७-८८½ ॥ अथ त्रिविधकालचक्रगतिः । कालचक्रगतिह्येषा निश्चिता पूर्वसूरिभिः ॥ ८९ ॥ मण्डूकगमनं चैव पृष्ठतो गमनं तथा । सिंहावलोकनं नाम पुनरागमनं भवेत् ॥ ९० ॥ पृष्ठतो गमनं चैव कर्किकेसरिणोरपि । मीनवृश्चिकयोश्चापमेषयोः केसरी गतिः ॥ ९१ ॥ कन्याकर्कटयोः सिंहयुग्मयोर्मण्डुकी गतिः ॥ ½ ॥