भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 542, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 542

५१६ सटीकजातपारिजाते- इदानीं त्रेधा कालचक्रगतिनिरूपणमाह—कालचक्रगतिरिति । पूर्वसूरिभिः = गर्गपरा- शराद्यैः कालचक्रस्य, त्रेधा = त्रिविधा, गतिः निश्चिता = निर्णीता । कास्ता इत्याह-१ मण्डू- कगमनम्, २. पृष्ठतो गमनम्, ३. सिंहावलोकनं ( एतदेव पुनरागमनं नाम ) भवेत् । गतीनां लक्षणञ्च पृष्ठत इति । कर्किकेसरिणोः = कर्कसिंहयोः पृष्ठतो गमनं भवति । मीन- वृश्चिकयोः, चापमेषयोश्च गतिः केसरी = सिंहावलोकनम् । कन्याकर्कटयोः, सिंहयुग्मयोः मण्डूकी गतिर्भवति । एतदुक्तं भवति । सव्ये, अपसव्ये च चक्रे कर्किकेसरिणोः गमनं ( कर्क- स्य मिथुने सिंहस्य कर्के गमनं ) पृष्ठतो गमनं कथ्यते । एवं मीनवृश्चिकयोः, धनुर्मेषयोश्च । नवमपञ्चमयोः । पारस्परिकं गमनं केसरी-गतिरुच्यते । एवमेव सिंहमिथुनयोश्च कन्याक- र्कटयोः गमनं मण्डूकी गतिः भवति । तथा च पाराशरीये— प्रथमे गतिर्मण्डूकी द्वितीये मर्कटी तथा । बाणायनवपर्यन्तं गतिः सिंहावलोकनम् ॥ कन्यायां कर्कटे चापि सिंहमे मिथुनेऽपि च । मण्डूकीगतिसंज्ञो वै तादृशं रोगकारणम् ॥ मीने तु वृश्चिके चापि चापे मेषे तथैव च । सिंहावलोकनं चैव तादृशं च फलं लभेत् ॥ इति॥ एतत् क्लान्तईशाविचारे बोद्धव्यम् । कस्यचिद्दशायां कर्कतो मिथुनस्यान्तर्दशा, सिंहात्कर्कस्यान्तर्दशा चेद्भवति तदा तत्पृष्ठतो गमनं ( मर्कटी गतिः ) कथ्यते । एवं किल सर्वत्र बोद्धव्यम् । तस्य फलञ्च वक्ष्यमाणप्रकारेण विज्ञेयम् ॥ ८९-९१३ ॥ इस कालचक्रकी गति पंडितोंने तीन प्रकारकी कही हैं । १-मण्डूक गमन । २-पृष्ठसे ( पीछे ) गमन । ३-सिंहावलोकन नाम पुनरागमनका ॥ ८९-९० ॥ कर्क सिंहका पृष्ठसे गमन है । ५ से ४में तथा ४से ३में आना पृष्ठ गमन है। मीन वृश्चिक का धनुर्मेषका सिंहावलोकन गति है ( मीनसे वृश्चिकमें और धनुसे मेषमें जानेको सिंहावलोकन कहते हैं) कन्या-कर्ककी, सिंह-मिथुनकी (६ से ४ में और ५ से-३ में जानेकी) मण्डूक गति कहते हैं ॥ ९१३ ॥ सिंहावलोकसमये ज्वरातिस्थाननाशनम् ॥ ९२ ॥ बन्धुस्नेहादिनाशं च समानजनपीडनम् । जले वा पतनं कूपे विषशस्त्राग्निजं भयम् ॥ ९३ ॥ वाहनात्पतनं वाऽपि दशाच्छिद्रान्विते सति ॥ क्रूरास्तनीचापचयखेचरस्य दशा यदि ॥ ९४ ॥ दशाच्छिद्रमिति ज्ञेयं प्रवदन्ति विपश्चितः ॥ १ ॥ इदानीं सिंहावलोकफलं दशाच्छिद्रञ्चोच्यते । क्रूरग्रहस्य, अस्तङ्गतस्य ( रविणा सहि- तस्य ) नीचङ्गतस्य, अपचयस्य ( क्षीणरश्मेः ) ग्रहस्य दशा दशाच्छिद्रमिति विपश्चितः ( विद्वांसः ) कथयन्ति । शेषं स्पष्टमेवेति ॥ ९१३-९४३ ॥ ( सिंहावलोकके समय ज्वरसे कष्ट, स्थानका नाश, बन्धुस्नेहादिका नाश, समान जनकी पीडा, जलमें वा कूपमें गिरना, विष-शस्त्र-अग्निका भय, वाहन ( घोड़ा आदि ) से गिरना ये सब उस समय दशा छिद्र होने पर कहने चाहिये। क्रूर, अस्ते गत, नीचगत, निर्बल ग्रहकी दशा दशाछिद्र है यह पण्डित लोग कहते हैं ॥ ९२-९४३ ॥ मण्डूकगतिसम्भूतसमये मरणं गुरोः ॥ ९५ ॥ पित्रोर्वा विषशस्त्राग्निज्वरचोराग्निभिर्भयम् । मण्डूकसमये सव्ये समानजनपीडनम् ॥ ९६ ॥ केसरीयुग्ममण्डूके मातुर्मरणमादिशेत् । मरणं राजभीतिं च सन्निपातज्वरेर्भयम् ॥ ९७ ॥