जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 547, कुल 588 में से
संदर्भ में पढ़ेंकालचक्रदशाध्यायः ॥१७॥ ५२१ अधुना अन्तर्दशाविधिरुच्यते-दशामिति । एकैकस्य ग्रहस्य राशेर्वा दशायां प्रत्ये- कस्य ग्रहस्य राशेर्वा अवान्तर्दशा भवति, सैवान्तर्दशाशब्देनोच्यते । तस्यानयनप्रकारः । यस्य ग्रहस्य दशामध्ये यदीयान्तर्दशानयनमपेक्षितं भवेत्तयोर्ग्रहयोः ये स्वस्वदशामानं तयोः गुणनं कार्यम् । एकस्य दशामन्यस्य दशाब्दैः सङ्गुण्येत । तद्गुणनफलं सर्वायुः- संख्यया हरेत् = यद्राशिसम्बन्धिदशायामन्तर्दशा साध्यते तद्राशौ यत्पूर्णायुर्मानं तेन विभ- जेदिति । लब्धं वर्षमासदिनादिका अन्तर्दशा ज्ञेया । उदाहरणम्—यथा कस्यचिज्जन्म मूलनक्षत्रस्य चतुर्थचरणे वर्त्तते, तदा तस्य सव्य- चक्रे कर्कसम्बन्धिदशायां जन्मेति तत्र पूर्णायुर्मानं = ८६ वर्षाणि । तत्र यदि धनुर्गुरुदशायां मकरशनेरन्तर्दशाऽपेक्ष्यते तदा धनुर्गुरुदशामानेना १० नेन मकरशनिदशा ४ गुणिता जाता = ४०, एतत्सर्वायुःसंख्यया ८६ भक्तेति जातं गुरुदशायां शन्यन्तर्दशावर्षादि ०।५।१७।२६। एवं सर्वत्र विजानीयात् । अत्रोपपत्तिः—सर्वग्रहदशायोगमिते पूर्णायुषि ग्रहाणां पृथक् पृथक् दशामितिः पठिता। अथैकैकस्य ग्रहस्य दशारूपे पूर्णायुषि प्रत्येकस्यावान्तर्दशा साध्यते । तदर्थमयमनुपातः- यदि सर्वग्रहदशायोगमिते पूर्णायुषि साध्यस्य ग्रहस्यैतन्मिता दशा लभ्यते तदा प्रकृतग्रह- दशारूपे पूर्णायुषि केति ? ( प्र. ग्र. द. × सा. ग्र. द. / पूर्णायुः = अन्तर्दशा ) लब्धं साध्यग्रहस्य प्रकृतग्रहदशायामन्तर्दशामितिरित्युपपन्नम् ॥ १०७ ॥ दशाको दशावर्षसे गुणा करके सर्वायुः संख्या ( पूर्णायु ) से भाग दे लब्ध वर्ष, मास, दिनादिक अन्तर्दशा होती है ॥ १०७ ॥ चक्रेशाब्दा भुक्तिराशीश्वराब्दैर्हत्वा तत्तद्राशिमानायुराप्ताः । अब्दा मासा वासरा नाडिकाद्या दुःस्थानेशा दुःखरोगाकराः स्युः ॥१०८॥ इत्थं महादायदिनं महाब्दैः सङ्गुण्य तत्रान्तरदास्तु दाये । पुनस्तदा तत् परमायुरब्दैर्हृतं दशास्वान्तरगा दशा स्यात् ॥ १०९ ॥ विनाडीकृत्य नक्षत्रं स्वैः स्वैः संवत्सरैः पृथक् । दायैः सङ्गुण्य सर्वायुराप्तं सूक्ष्मदशाफलम् ॥ ११० ॥ ग्रहवत्सरवासरा हृताः परमायुष्यसमामितध्रुवैः । निजवर्षगुणाः स्वपाकदा इति पाकेष्वखिलेषु चिन्तयेत् ॥ १११ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते सप्तदशोऽध्यायः ॥१७॥ एते श्लोकाः १०७ श्लोकतुल्यार्थका एवेत्यलम् ॥ १०८-१११ ॥ पारिजाते सुधा टीका कपिलेश्वरनिर्मिता। कालचक्रदशाख्येऽस्मिन्नध्याये पूर्णतां गता १७ चक्रेशके वर्षको भुक्तिराशीश्वरके वर्षसे गुणा कर उस २ राशिके पूर्णायुसे भाग देनेसे वर्ष, मास, दिन, घटी आदि स्पष्ट होता है। दुष्ट स्थानका स्वामी दुःख रोग कारक होता है । इस प्रकार एकके महादशावर्षको दूसरेके महादशावर्षसे गुणा कर वहां परमायु संख्यासे ( १२० से ) भाग देवे तो दशामें अन्तर्दशा होती है ॥ १०९ ॥ नक्षत्रके घट्यादिको पला बनाकर उस नक्षत्रकी पूर्णायुसे गुने और पूर्णायु (सर्वायु) मानसे भाग देवे तो लब्ध वर्षादि सूक्ष्म दशा होगी ॥ ११० ॥ जिस ग्रहकी दशामें अभीष्ट ग्रहकी अन्तर्दशा लानी हो उसकी दशा वर्षादिको पूर्णायुसे भाग दे और अभीष्ट ग्रहकी दशा वर्षसे गुणा करे तो वर्षादि अन्तर्दशा हर एककी होती है ॥ इति जातकपारिजाते कालचक्राख्ये सप्तदशाध्याये 'विमला' हिन्दी टीकासमाप्ता ॥ १७ ॥