भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 570, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 570

५४४ सटीकजातपारिजाते- इदानीं गुरुदशाफलमाह सरलार्थकेन श्लोकेन । अत्र यदि गुरुच्चस्थः स्वमूलत्रिको- णादौ च भवेत्तदा शुभतरं फलं स्यात् । परञ्चोच्चगतोऽपि यदि नीचादिनवांशगतो भवेत्तदा अशुभमेव फलं भवति । एवं नीचादिदुःस्थानस्थे गुरौ पापं फलं ब्रूयात् । परञ्च नीचादावपि यद्युच्चनवांशगतो भवेत्तदा फलमुत्तममेवेति वाच्यम् ( श्लो. ११९ द्र. ) ॥ १०९ ॥ बृहस्पति अपनी दशामें स्थानप्राप्ति, धन-वाहन-वस्त्रप्राप्ति, राजप्रीति, चित्तशुद्धि- ऐश्वर्यज्ञान-आचार-पुत्र-स्त्रीका लाभ करता है ॥ १०९ ॥ अथ गुरुदशायामन्तर्दशाफलानि । बृ. बृ.—नृपप्रीतिं तथोत्साहं सर्वकार्यार्थसाधनम् । विद्याविज्ञानमाप्नोति गुरौ गुरुदशान्तरे ॥ ११० ॥ बृ. श.—द्वेषबुद्धिं मनस्तापं पुत्रमूलाद्धनव्ययम् । कर्मनाशमवाप्नोति शनौ जीवदशान्तरे ॥ १११ ॥ बृ. बु.—वैश्यवर्गेण वित्ताप्तिं राजस्नेहं सुखावहम् । सत्कर्म्माचारसिद्धिं च बुधे जीवदशान्तरे ॥ ११२ ॥ बृ. के.—मुक्ताप्रवालभूषाप्तिस्तीर्थयात्रा धनायतिः । गुरुभूपवशादाप्तिः केतौ जीवदशान्तरे ॥ ११३ ॥ बृ. शु.—वाहनादिधनप्राप्तिः छत्रचामरवैभवम् । स्त्रीपीडा जनविद्वेषो भृगौ जीवदशान्तरे ॥ ११४ ॥ बृ. सू.—शत्रुनाशं जयं सौख्यं चित्तोत्साहं धनागमम् । राजप्रसादमरोग्यं रवौ जीवदशान्तरे ॥ ११५ ॥ बृ. चं.—स्त्रीकृतोत्साहमैश्वर्यं राजप्रीतिः सुखावहम् । दिव्यवस्त्रविभूषाप्तिं चन्द्रे जीवदशान्तरे ॥ ११६ ॥ बृ. मं.—कर्मनाशं च सञ्चारं ज्वरतापं महद्भयम् । धननाशं निरुत्साहं कुजे जीवदशान्तरे ॥ ११७ ॥ बृ. रा.—सर्वक्लेशभयं रोगं सर्वोपद्रवकारणम् । धनच्छेदमवाप्नोति राहौ जीवदशान्तरे ॥ ११८ ॥ विशेषः—नीचांशोपगतः स्वतुङ्गभवने जीवस्य पाके भयं चोरारातिनृपैः कलत्रतनयद्वेषं करोत्यश्रियम् । नीचे तुङ्गनवांशको यदि महाराजप्रसादं सुखं विद्याबुद्धियशोधनादिविभवं देशाधिपत्यं तु वा ॥ ११९ ॥ अधुना गुरुदशायां सर्वेषामन्तर्दशाफलान्युच्यन्ते । श्लोकास्तु सरलार्था एवेति ॥११०-११९॥ बृहस्पतिकी दशामें बृहस्पतिकी अन्तर्दशा हो तो राजाकी प्रीति तथा उत्साह, सर्व- कार्यार्थसाधन, विद्या और विज्ञान प्राप्त होता है ॥ ११० ॥ बृहस्पतिकी दशामें शनिकी अन्तर्दशा हो तो द्वेषबुद्धि, मनमें ताप, पुत्रके कारण धन व्यय और कर्मका नाश होता है ॥ १११ ॥ बृहस्पतिकी दशामें बुधकी अन्तर्दशा हो तो वैश्यवर्गसे धन प्राप्ति, राजाकी प्रीति, सुखप्राप्ति, सत्कर्मकी सिद्धि होती है ॥ ११२ ॥ बृहस्पतिकी दशामें केतुकी अन्तर्दशा हो तो मोती, मूँगा, भूषणकी प्राप्ति, तीर्थयात्रा धनप्राप्ति और गुरु तथा राजाके वशसे प्राप्ति होवे ॥ ११३ ॥ बृहस्पतिकी दशामें शुक्रकी अन्तर्दशा हो तो वाहन आदि धन प्राप्ति, छत्र चामर सम्पत्तिकी प्राप्ति, स्त्री पीडा, जनोंसे वैर होता है ॥ ११४ ॥