भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 579, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 579

भानुः सूर्यो मुखं प्रधानो येषु ते भानुमुखाः सूर्यादयो नव ग्रहास्तेषां प्रसादात् = कृपाबलात्, मया = श्रीवैद्यनाथेन कर्त्रा, प्रोक्तं = कथितमिति ॥ १६९-१७२ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता। दशाफलेऽस्मिन्नध्याये पूतिमष्टादशे गता ॥ १८ ॥ उच्चभागमें बली सम्पूर्ण फल देता है। बलरहित ग्रहकी दशा रिक्त (खाली) होती है। नीच अंश, शत्रु भागमें प्राप्त ग्रह जातकको अनिष्ट फल देता है ॥ १६९ ॥ उस उस भावसे धनेश और सप्तमेशकी दशा अन्तर्दशामें उससे युक्त दृष्ट कारकोंसे उस २ भावका नाश होता है। त्रिकोण धन और लाभ स्थानमें स्थित शुभग्रह यदि बली हों तो अपनी दशा अन्तर्दशाके समय विपुल सुखको करते हैं ॥ १७०-१७१ ॥ होरासे समुद्धृत जातकपारिजातमें अठारह अध्याय राशि-रूपादिसे दशाफलान्तको सूर्यादि ग्रहोंकी कृपासे निर्माण किया है ॥ १७२ ॥ इति मिरजापुर मण्डलान्तर्गत 'आही' ग्रामवासिसरयूपारीणवंशावतंसपाण्डेयो- पाह्णपण्डितश्रीमच्छत्रधरसूनुना-अखिलभारतीयवर्ण्यासस्कारसमिति-वैदिक कर्मकाण्डाचार्य-दैवज्ञभूषण-पण्डित-श्रीमातृप्रसादशास्त्रिणा विरचिता 'विमला'ख्या हिन्दीटीका-समाप्ता ।

अथ ग्रन्थोपसंहारः । शाखाभिरष्टादशसंख्यकाभिरध्यायरूपाभिरतिप्रकाशः । ज्योतिर्मयः सर्वफलप्रधानः सङ्कीर्तितो जातकपारिजातः ॥ १ ॥ उक्तं राशिगुणालयं ग्रहगतिस्थानस्वभावाकृति- राधानाडुिसमस्तजीवजननं बालाद्यनिष्टाकरम् । आयुर्जातकभङ्गयोगजविधिः श्रीराजयोगादिजो द्वित्र्यादिग्रहयोगजः शुभकरो मान्द्यब्दजं च क्रमात् ॥ २ ॥ पश्चादष्टकवर्गबिन्दुगणितं होराधनस्थानजं दुश्चिक्यावनिभावजं सुतरिपुस्थानप्रयुक्तं फलम् । कन्दर्पाष्टमधर्मराशिनितं व्यापारलाभान्त्यजं नारीजातक लक्षणं निगदितं चक्रं दशान्तर्दशा ॥ ३ ॥ श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधी- रदित्यादिसमस्तखेटकृपया विद्वज्जनप्रीतये । होरासिन्धुसमुद्धृतामृतमयीमष्टादशाध्यायिनीं चक्रे जातकपारिजातसरणिं गीतोत्सुकश्लोकिनीम् ॥ ४ ॥ इति जातकपारिजातः समाप्तः । अधुना चतुर्भिः श्लोकैर्ग्रन्थो पसंहारमाह । अयं जातकपारिजातः = जातकेषु पारिजातः (सुरद्रुमः ) अध्यायरूपाभिरष्टादशशाखाभिर्युतोऽतिप्रकाशो दोषादिरहितः, ज्योतिर्मयः ज्योतींषि ग्रहनक्षत्राद्यस्तन्मयः ग्रहनक्षत्रविषयैरोतप्रोतः, सर्वफलप्रधानः मानवजीवने जन्मादि-निधनान्तं यावत्फलमस्ति तत्प्रकाशने मुख्यतमः अयं ग्रन्थरूपेण सङ्कीर्तितः । अस्मिन् जातकपारिजाते राशिगुणस्वरूपम् १, ग्रहनामस्वरूपगुणभेदकम् २, आधा- नादिजन्माध्यायः ३, बालायरिष्टाध्यायः ४, आयुर्र्दायाध्यायः ५, जातकभङ्गः ६, राजयो- ४६। जा० पा०