जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 578, कुल 588 में से
संदर्भ में पढ़ें५५२ सटीकजातकपारिजाते- उपसंहारः- अष्टादशाध्यायिनि सर्वहोरासमुद्धृते जातकपारिजाते । राशिखरूपारिदशाफलान्तं प्रोक्तं मया भानुमुखप्रसादात् ॥ १७२ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजातेऽष्टादशोऽध्यायः ॥ १८ ॥ इदानीं पूर्वोक्तानां दशान्तर्दशानां ग्रहस्थितिवशेन शुभाशुभत्वमाह । प्रसूतो=नराणां जन्मकाले सम्यग्बलिनः = पूर्वोक्तैर्बलैर्युक्तस्य ग्रहस्य, स्वकीयतुङ्गभागे (परमोच्चांशे) व्यवस्थितस्य च ग्रहस्य सम्पूर्णानाम्नी दशा भवति । तत्फलञ्च । धनारोग्यविवर्धिनी सा दशा भवति । तथा भगवान् गर्गः— सर्वैर्बलैरुपेतस्य परमोच्चगतस्य च । सम्पूर्णाख्या दशा ज्ञेया धनारोग्यविवर्धिनी ॥ यश्चोच्चराशिगत एव भवति न परमोच्चांशगतस्तथा यो ग्रहो न पूर्णबलैर्युतः किन्तु किञ्चिदूनबलयुतो