जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 62, कुल 588 में से
संदर्भ में पढ़ें३६ सटीकजातकपारिजाते- मणिः, कुजस्य काञ्चनं=स्वर्णम्, बुधस्य शुक्तिः=कांस्यादिमिश्रितो धातुः, बृहस्पतेः रौप्यं= रजतम्, शुक्रस्य मुक्ता (मोती), शनैश्चरस्यायो लौहमिति । प्रयोजनम्-प्रसवे प्रश्ने च बल- वद्ग्रहद्रव्यसत्ता, ग्रहशुभदशायां तत्तद्द्रव्याप्तिररिष्टकर्तरि ग्रहे तत्तद्द्रव्यदानञ्चेति । अथा- धिदेवताः । दिवाकरमुखात् = सूर्यादितः क्रमेण-वह्न्यम्बुषन्मुखहरीन्द्रशचीविरञ्चिमुख्या अधिदेवता भवन्ति । यथा-सूर्यस्य वह्निरग्निरधिदेवता । चन्द्रस्याम्बु = जलम् । मङ्गलस्य षण्मुखः = कार्त्तिकेयः । बुधस्य हरिर्विष्णुः । गुरोरिन्द्रो देवराट् । शुक्रस्य शचीन्द्रपत्नी । शनेः विरञ्चिः=ब्रह्मेति । प्रयोजनञ्च-ग्रहप्रीतये ग्रहदेवता पूज्या, यात्रायाञ्च ग्रहदेवतां सम्पू- ज्य तद्दिशां यायादिति ॥ २० ॥ सूर्यादि ग्रहोंके क्रमसे ताम्र, मणि, सुवर्ण, शुक्ति, रूपा, मोती और लोह द्रव्य हैं। सूर्यादि ग्रहोंकी क्रमसे अग्नि, जल, कार्तिकेय, विष्णु, इन्द्र, इन्द्राणी और ब्रह्मा अधिदेवता हैं। अथ रव्यादीनां रत्नानि । माणिक्यं दिननायकस्य, विमलं मुक्ताफलं शीतगोः माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मकम् ॥ देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शनेः नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके ॥ २१ ॥ स्पष्टम् । प्रयोजनञ्च-ग्रहशुभदशायां तत्तन्मणिप्राप्तिः, ग्रहवैगुण्ये तत्तन्मणिधारणञ्च ॥ सूर्यका माणिक्य, चन्द्रमाका स्वच्छ मोती, मंगलका मूंगा, बुधका गारुत्मक, बृहस्पतिका पुष्पराग, शुक्रका हीरा, शनिका निर्मल नील, राहुका गोमेदमणि, केतुका वैदूर्य रत्न है ॥ अथ ग्रहाणां वस्त्रादिनिरूपणम् । स्थूलाम्बरं नूतनचारुचेलं कृशानुतोयाहतमध्यमानि ॥ दृढांशुकं जीर्णमनादिकानां वस्त्राणि सर्वे मुनयो वदन्ति ॥ २२ ॥ प्रागादिका भानुसितारराहुमन्देन्दुविद्देवपुरोहिताः स्युः ॥ शुक्रारचन्द्राङ्गजरेज्यमन्दा वसन्तमुख्यावधिपा दृगाणैः ॥ २३ ॥ देवतोयतटवह्निविहाराः कोशगेहशयनोत्कटदेशाः ॥ भानुपूर्वनिलयाः परिकल्प्या वेश्मकोणनिलयाश्चनिकेत् ॥ २४ ॥ इदानीं ग्रहाणां वस्त्राणि, दिशः, ऋतवो वासदेशाश्चोच्यन्ते । इनादिकानां वस्त्राणि । सूर्यस्य स्थूलाम्बरं = स्थूलसूत्ररचितमिति । चन्द्रस्य नूत- नचारुचेलं = नवं मनोरमं च । मङ्गलस्य कृशानुहतं = दग्धम् । बुधस्य तोयाहतं=जलार्द्रम् । गुरोर्मध्यमं = नातिजीर्णं नातिनवम् । शुक्रस्य दृढांशुकं = चिरस्थायि । शनेर्जीर्णं = पुरातनं वस्त्रं भवतीति सर्वे प्राक्तना मुनयो वदन्ति । प्रयोजनम्-सूतिकावस्त्रज्ञाने प्रश्ने च बलवद्ग्र- हवशाद्वस्त्रज्ञानमिति । अथ दिशः । प्रागादिकाः=पूर्वादिक्रमतः, भानुसितारराहुमन्देन्दुविद्देवपुरोहिताः= सूर्य-शुक्र-मङ्गल-राहु-शनि-चन्द्र-बुध-गुरवः स्युः । पूर्वादिशां विदिशां चाष्टानामे- तेऽष्टौ ग्रहा अधिपा भवन्तीत्यर्थः । अथर्तवः । शुक्रारचन्द्राङ्गजरेज्यमन्दा दृगाणैर्वसन्तमुख्यावधिपा भवन्ति । अत्र दृगा- णपरत्वेनर्तूनां परिज्ञानं कृतमिति । यथा-लग्ने शुक्रद्रेष्काणे वसन्तर्तुः । लग्ने भौमद्रेष्काणे ग्रीष्मः । चन्द्रद्रेष्काणे वर्षा । बुधद्रेष्काणे शरत् । गुरुद्रेष्काणे हेमन्तः । शनिद्रेष्काणे शिशि- र्तुरिति । परञ्चात्र लग्नगतैः शुक्रादिभिर्ग्रहैर्वसन्तादयः ऋतवो वाच्याः । लग्ने ग्रहाभावे