भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 61, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 61

ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ३५ बृहस्पति, शुक्र, मङ्गल और बुध शाखाओंके स्वामी हैं। जैसे ऋग्वेदका गुरु, यजुर्वेदका शुक्र, सामवेदका मङ्गल और अथर्ववेदका बुध है। मङ्गल और सूर्य धातुस्वरूप ग्रह हैं। मूल प्रधान चन्द्र और शनि हैं। शुक्र और बृहस्पति जीव हैं। बुध मिश्रसंज्ञक है ॥ १५ ॥ अथ ग्रहाणामवस्थेय्यत्त । दीप्तः प्रमुदितः स्वस्थः शान्तः शक्तः प्रपीडितः । दीनः खलस्तु विकलो भीतोऽवस्था दश क्रमात् ॥ १६ ॥ स्पष्टम् ॥ १६ ॥ १ दीप्त, २ मुदित, ३ स्वस्थ, ४ शान्त, ५ शक्त, ६ प्रपीडित, ७ दीन, ८ खल, ९ विकल और १० भीत ये क्रमसे ग्रहों की दश अवस्थायें होती हैं ॥ १५ ॥ अथ स्थानविशेषादवस्थाविशेषाः । स्वोच्चत्रिकोणोपगतः प्रदीप्तः स्वस्थः स्वहेगे मुदितः सुहृद्भे । शान्तस्तु सौम्यग्रहवर्गयातः शक्तोऽतिशुद्धः स्फुटरश्मिजालैः ॥ १७ ॥ ग्रहाभिभूतस्त्वतिपीडितः स्यादरातिराश्यंशगतोऽतिदीनः । खलस्तु पापग्रहवर्गयोगान्नी चेऽतिभीतो विकलोऽस्तयातः ॥ १८ ॥ ग्रहाभिभूत इति । ग्रहैः = स्वेतरैरभिभूतो युद्धे पराजितोऽतिपीडितो भवति । अथ, किं नाम ग्रहाणां युद्धं कथञ्च तत्र पराजितो भवतीत्युच्यते । भौमादिग्रहाणां परस्परयुक्तानां ग्रह- युद्धमिति नाम । उक्तञ्च— “दिवसकरेणस्तमयः समागमः शीतरश्मिसहितानाम् । कुसुतादीनां युद्धं निगद्यतेऽन्योन्ययुक्तानाम् ॥” तत्र ग्रहयुद्धे पराजितस्य लक्षणम्— “दक्षिणदिक्स्थः पुरुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥” इति । अन्यत्सर्वं स्पष्टमेवेति ॥ १७-१८ ॥ अपनी उच्चराशिमें, त्रिकोणमें स्थित ग्रह प्रदीप्त होता है। अपने गृहमें स्थित ग्रह स्वस्थ, मित्रके गृहमें रहनेवाला मुदित, शुभग्रहके वर्गमें स्थित ग्रह शान्त, स्फुटरश्मिजालों से अत्यन्त शुद्ध ग्रह शक्त, ग्रहोंसे पराजित (हारा हुआ) अतिपीडित, शत्रु की राशि और नवांशमें प्राप्त ग्रह अतिदीन, पापग्रह के वर्गयोगसे खल, नीचमें अतिभीत और अस्त ग्रह विकल होता है ॥ १७-१८ ॥ अथ ग्रहाणां वर्णविशेषाः । वर्णास्ताम्रसितारक्तहरितपीतकर्कुराः ॥ कृष्णकान्तिरिनादीनां नष्टादौ च प्रकीर्तिताः ॥ १६ ॥ स्पष्टम् । ग्रहाणां वर्णास्तु पूर्वमस्यैवाध्यायस्य ७ मे श्लोके वर्णिताः, पुनर्वर्णनं पिष्टपेष- णमेवेति ॥ १९ ॥ सूर्यादि ग्रहोंके ताम्र, सफेद, खूब लाल, हरा, पीला, चित्र और कृष्ण वर्ण हैं। ये नष्ट द्रव्यादिके ज्ञान होनेके लिये कहे गये हैं ॥ १९ ॥ अथ रव्यादीनां द्रव्याणि अधिदेवताश्च । द्रव्याणि ताम्रम णिकाञ्चनशुक्तिरौप्यमुक्तान्ययश्च दिननाथमुखग्रहाणाम् । वह्न्यम्बुपद्ममुखहरीन्द्रशचीविरञ्चिमुख्या दिवाकरमुखादधिदेवताः स्युः ॥ २० ॥ इदानीं ग्रहाणां द्रव्याण्यधिदेवताश्चोच्यन्ते । दिननाथमुखग्रहाणां=सूर्यादीनां ग्रहाणां ता मणिकाञ्चनशुक्तिरौप्यमुक्तान्ययश्चैतानि द्रव्याणि सन्ति । यथा सूर्यस्य ताम्रम् , चन्द्रस्य

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 61, कुल 588 में से · BharatKosha