जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 60, कुल 588 में से
संदर्भ में पढ़ें३४ सटीकजातसपारिजाते- शुक्रौ, द्विपादौ = नररूपौ । भानुसुतक्ष्माजौ = शनिमङ्गलौ, चतुष्पदौ = पशुसदृशौ वर्त्तेते इति ॥ १२ ॥ सूर्य और बुध पक्षी के सदृश रूपवाले हैं। चन्द्रमा सरीसृप (कीट) की आकृति से युक्त हैं। बृहस्पति और शुक्र द्विपद हैं। शनि और मङ्गल चतुष्पद हैं ॥ १२ ॥ अथ रव्यादीनां सञ्चारदेशाः। जलाशयौ चन्द्रसुरारिवन्द्यौ बुधालयग्रामचरौ गुरुज्ञौ । कुजाहिमन्दध्वजवासरेशा भवन्ति शैलाटविसञ्चरन्तः ॥ १३ ॥ इदानीं ग्रहाणां गोचरदेशा उच्यन्ते । चन्द्रसुरारिवन्द्यौ=चन्द्रशुक्रौ, जलाशयौ=जल- चरौ । गुरुज्ञौ = बृहस्पतिबुधौ, बुधालयग्रामचरौ = गुरुर्बुधानां=विदुषामालयाः = भवनानि तेषु चरति, बुधो ग्रामः = सामान्यलोकानामधिकासस्तत्र चरतीति । द्वावपि ग्राम्यौ । कुजा- हिमन्दध्वजवासरेशाः=मङ्गल-राहु-शनि-केतु-सूर्याः, शैलाटविसञ्चरन्तः = शैलाः पर्वताः अटव्यो वनानि तेषु सञ्चरन्तो विहरणशीला भवन्ति । प्रयोजनञ्च-प्रसवे प्रश्ने च बलीयान् ग्रह आत्मसञ्चारदेशं कुरुते ॥ १३ ॥ चन्द्रमा और शुक्र जलचर हैं। बृहस्पति और बुध पण्डितोंके गृहमें और ग्रामचर हैं। मङ्गल, राहु, शनि, केतु और सूर्य पर्वतों और वनोंमें रहनेवाले हैं ॥ १३ ॥ अथ रव्यादीनां बाल्यादिवयोर्निरूपणम् । बालो धराजःशशिजः कुमारकस्त्रिंशद्गुरुः षोडशवत्सरः सितः । पञ्चाशदकॊ विधुरब्दसप्ततिः शताब्दसङ्ख्याः शनिराहुकेतवः ॥ १४ ॥ स्पष्टम् । प्रयोजनम्-हृतनष्टादौ चौरादेर्वयोज्ञानम् ॥ १४ ॥ मंगल बाल है। बुध कुमार है। ३० वर्षका गुरु है। १६ वर्षका शुक्र है। ५० वर्षका सूर्य है। ७० वर्षका चन्द्रमा है। १०० वर्षके शनि, राहु और केतु हैं ॥ १४ ॥ अथ ग्रहाणां शाखाधिपत्यनिरूपणं धातुमूलादिसंज्ञाञ्च । शाखाधिपा जीवसितारबोधना भानुस्वरूपद्युचरौ कुजारुणौ । मूलप्रधानौ तुहिनाकरार्कजौ जीवौ सितार्यौ तु विमिश्र इन्दुजः ॥ १५ ॥ इदानीं शाखाधिपनिरूपणपूर्वकं ग्रहाणां धातवादिसंज्ञा उच्यन्ते । जीवसितारबोधनाः = बृहस्पति-शुक्र-मङ्गल-बुधाः, शाखाधिपा भवन्ति । तत्र बृहस्पतिः ऋग्वेदाधिपः, शुक्रो यजुर्वेदपतिः, मङ्गलः सामवेदाधिपः, बुधोऽथर्ववेदपतिर्भवति । तथोक्तं रामाचार्येण- "शाखेशाः स्युर्जीवशुक्रारसौम्याः ।" इति । प्रयोजनम्- "शाखेशवारतनुवीर्यमतीव शस्तम् ।" इति । अथ धातवादिसंज्ञा । कुजारुणौ = मङ्गलसूर्यौ, धातुस्वरूपद्युचरौ = तौ धातुसंज्ञकौ ग्रहाविति । मूलप्रधानौ तुहिनाकरार्कजौ = चन्द्रशनी मूलमुख्यौ = तौ मूलसंज्ञाविति । सि- तार्यौ = शुक्रबृहस्पती, जीवौ = जीवकारकौ ग्रहाविति । इन्दुजः = बुधः, विमिश्रः=धातुमुल- जीवानां सङ्कलनरूपोऽर्थाद्बुधस्य भागतत्रये त्रयाणां यथाक्रमं निवेश इति । अत्र पराशर- कृता संज्ञा यथा- "राहारपङ्गुचन्द्राश्च विज्ञेया धातुखेचराः । मूलग्रहौ सूर्यशुक्रावपरा जीवसंज्ञकाः ॥" इति । तत्र धातुः (१) स्वर्णादित्याद्युक्तश्लोकाज्ज्ञेयं प्रत्येकस्य विवरणम् ॥ १५ ॥ ( १ ) प्रथमाध्यायस्य १९ श्लोकः ।