भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 59, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 59

ग्रहनामस्वरूपगुणभेदाध्यायः ॥२॥ ३३ इदानीं ग्रहाणां शुभाशुभादि निरूप्यते-प्रकाशकाविति । शीतकर-प्रभाकरौ = चन्द्र- सूर्यौ, प्रकाशकौ ( सकलतारकापेक्षयाऽधिकप्रभाकरावित्यर्थः ) धरासुतादयः पञ्च = मङ्गल- बुध-गुरु-शुक्र-शनयस्ताराग्रहा न स्वतस्तेजस्का इति । तथोक्तं तत्त्वविवेके- "तेजसां गोलकः सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः । प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः ॥" इति । शिखिसिंहिकासुतौ = केतुराहू, तमःस्वरूपौ = छायास्वरूपावन्धकारमयावित्यर्थः । शशिज्ञामरेज्यभार्गवाः = (१) चन्द्र-(२) बुध-गुरु-शुक्राः, शुभाः = शुभग्रहाः । क्षीणे- न्दुमन्दरविराहुशिखिक्षमाजाः = कृष्णपक्षीयचन्द्र-शनि-रवि-राहु-केतु-मङ्गलाः, पापाः = पापग्रहाः । पापयुतचन्द्रसुतश्च = पापग्रहेण केनचिद्युतो बुधोऽपि पापी भवति । तथोक्तं वरा- हेण-"क्षीणेन्द्वर्कमहीसुतार्कत नयाः पापा बुधस्तैर्युतः ।” अथोक्तेषु शुभेष्वशुभेषु चात्यन्तशुभाशुभत्वनिरूपणम् । तेषामुक्तग्रहाणां गुरुदानवेज्यौ = बृहस्पतिशुक्रावतीव शुभदौ स्तः । दिवाकरसुतक्षितिजौ = शनिमङ्गलौ चातीव क्रूरावशुभौ भवेतामिति । अत्र कालपरत्वेन चन्द्रस्य शुभाशुभत्वमुच्यते । शुक्लादिरात्रिदशकऽहनि = शुक्लपक्षप्रतिपदादितो दशमीं यावच्चन्द्रो मध्यवीर्यशाली = मध्यबली भवति । द्वितीयदशके= शुक्लौकादशीमारभ्य कृष्णपक्षपञ्चमीं यावदसौ चन्द्रोऽतिशुभप्रदो बलीयान् भवति । तृतीय- दशके = कृष्णपक्षपञ्चमीमारभ्यामावास्यां यावच्चन्द्रो बलवर्जितो निर्बलोऽशुभ इति । यदि सौम्येक्षणादिसहितः = अशुभोऽपि चन्द्रः शुभग्रहैर्युक्तो दृष्टश्च चेद्भवैत्तदा, शोभनः = शुभदो भवतीति ॥ ८-१० ॥ चन्द्रमा और सूर्य प्रकाश ( उजेला ) करनेवाले हैं । मंगलादि पांच (मं०बु०बृ०शु० श० ) तारा ग्रह हैं । केतु और राहु तम- (अन्धकार ) स्वरूप हैं। चन्द्रमा, बुध, बृहस्पति और शुक्र शुभग्रह हैं । क्षीणचन्द्रमा शनि, सूर्य, राहु, केतु और मंगल पापग्रह हैं । पापग्रहसे युक्त बुध भी पापग्रह है । इनमें बृहस्पति और शुक्र विशेष शुभ हैं। शनि और मंगल क्रूर हैं। शुक्लपक्ष की प्रतिपदासे दश दिन चन्द्रमा मध्यबली रहते हैं। फिर दश दिन पूर्ण बली, तीसरे दशकमें बलहीन रहते हैं । परन्तु यदि चन्द्रमा शुभग्रहोंसे दृष्टियुत हों तो शुभ होते हैं ॥ १० ॥ अथ रव्यादीनामुदयप्रकारः । रव्यारराहुमन्दाश्च पृष्ठेनोद्यन्ति सर्वदा । शिरसा शुक्रचन्द्रज्ञा जीवस्तृभयतो व्रजेत् ॥ ११ ॥ इदानीं ग्रहाणामुदयविवरणं क्रियते । रव्यारराहुमन्दाश्च = सूर्यमङ्गलराहुशनयः, सर्वदा पृष्ठेनोद्यन्ति । ते पूर्वाभिमुखास्तिष्ठन्तीति भावः । शुक्रचन्द्रज्ञाः शिरसा । एतेषां शिर एव प्रथममुदयक्षितिजे आयाति । जीवः = बृहस्पतिस्तूभयतः = पृष्ठेन शिरसा चोदेति ॥ ११ ॥ सूर्य, मङ्गल, राहु और शनि सदा पृष्ठ से उदित होते हैं । शुक्र, चन्द्रमा और बुध शिरसे. उदित होते हैं । बृहस्पति पृष्ठ और शिर दोनों प्रकार से उदित होते हैं ॥ ११ ॥ अथ रव्यादीनामाकारविशेषाः । दिवाकरज्ञौ विहगस्वरूपौ सरीसृपाकारयुतः शशाङ्कः । पुरन्दराचार्यसितौ द्विपादौ चतुष्पदौ भानुसुतक्ष्माभौ ॥ १२ ॥ इदानीं ग्रहाणामाकारविशेषा उच्यन्ते । दिवाकरज्ञौ = सूर्यबुधौ, विहगस्वरूपौ = पक्षि- रूपिणौ । शशाङ्कश्चन्द्रः सरीसृपाकारयुतः = कीटाकृतिसहितः । पुरन्दराचार्यसितौ = गुरु- ( १ ) चन्द्रः शुक्लपक्षीयः । ( २ ) बुधः पापवियुक्तः ।