भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 64, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 64

३८ सटीकजातकपारिजाते- अथ गुणाः । आदित्यामन्त्रिशीतकिरणाः = सूर्य-गुरु-चन्द्राः, सत्त्व(१)- प्रधानग्रहा भवन्ति । सूर्य-गुरु-चन्द्रेषु सत्वगुणोऽधिको भवति । शुक्रज्ञौ = शुक्रबुधौ सरजो- गुणौ = रजोगुणयुक्ताविति । शनिधरापुत्रौ = शनिमङ्गलौ, तमःस्वामिनौ = तमोगुणाधिपती भवतः । अत्र भविष्यति कस्यचिदियमाशङ्का यदस्यैवाध्यायस्य प्रथमश्लोके 'सत्त्वं भौम' इत्युक्तमत्र शनिधरापुत्रौ तमः स्वामिनाविति किमुच्यते ? । सत्यं तदुच्यते । तत्र सत्त्वं शौर्य- मिति बोद्धव्यम् । तनु कार्याकार्यप्रवृत्तानां समेषामेव वर्त्तते । इह सत्त्वं गुणवाचकम् । तत्तु महात्मन्येव तिष्ठति । तथोक्तं च- “यः सात्विकस्तस्य दयास्थिरत्वं सत्यार्जवं ब्राह्मणदेवभक्तिः । रजोऽधिकः कालकलाकृतस्त्रीसंसक्तचित्तः पुरुषोऽतिशूरः ॥ तमोऽधिकः वञ्चयिता परेषां मूर्खोंऽलसः क्रोधपरोऽतिनिद्रः” ॥ इति ॥ २६ ॥ बृहस्पति और शुक्र ब्राह्मण हैं । सूर्य और मङ्गल क्षत्रिय हैं । वैश्यका स्वामी चन्द्रमा है । शूद्रका बुध और अंत्यजोंका स्वामी शनि है । सूर्य, बृहस्पति और चन्द्रमा सत्त्वगुणी हैं । शुक्र और बुध रजोगुणी हैं । शनि और मङ्गल तमोगुणी हैं ॥ २६ ॥ अथ ग्रहाणां नरादिसंज्ञा महाभूताधिपत्यञ्च । नराकारा भानुक्षितिजगुरवः शुक्रशशिनौ वधूरूपौ षण्ढप्रकृतिपुरुषौ मन्दशशिजौ ॥ वियत्क्षोणीतेजपवनपयसामेव पतयः सुराचार्यज्ञारद्युमणिसुतदैत्यारिसचिवाः ॥ २७ ॥ इदानीं ग्रहाणां पुरुषादिनिरूपणं पञ्चमहाभूताधिपत्यनिरूपणं च क्रियते । भानुक्षितिज- गुरवः = सूर्यमङ्गलवृहस्पतयः, नराकाराः = पुरुषग्रहा इति । शुक्रशशिनौ, वधूरूपौ = स्त्रीग्रहौ । मन्दशशिजौ = शनिबुधौ, षण्ढप्रकृतिपुरुषौ = नपुंसकग्रहौ भवतः । प्रयोजनम्—जन्मकाले प्रश्नकाले च बलवानात्मपक्षमेव करोति । अथ महाभूताधिपाः । सुराचार्य-ज्ञा-र-द्युमणिसुत-दैत्यारिसचिवाः वियतक्षोणीतेजः पवनपयसामेव पतयो भवन्ति । यथा-सुराचार्यः = गुरुर्वियतः = गगनस्याधिपतिः । ज्ञः = बुधः, क्षोण्याः = पृथिव्याः । आरः = मङ्गलस्तेजसः । द्युमणिसुतः = शनिः, पवनस्य = वायोः । देवानामरयो दैत्यास्तेषां सचिवो मंत्री = शुक्रः पयसः = जलस्याधिपतिरिति । सूर्याचन्द्रमसोस्तु विंशतितमे श्लोके वह्नम्बुन्युक्ते । प्रयोजनम्—स्वदशायां महाभूतच्छायां कुर्व्वन्ति ग्रहा इति ॥ २७ ॥ सूर्य मङ्गल और गुरु पुरुषग्रह हैं । शुक्र और चन्द्रमा स्त्रीग्रह हैं । शनि और बुध नपुं- सक हैं । गुरु आकाशतत्त्वका स्वामी, बुध पृथ्वीका, मङ्गल तेज का, शनि वायुका और शुक्र जलतत्त्वका स्वामी है ॥ २७ ॥ अथ ग्रहाणां कक्षाक्रमः । कक्षायां क्रमशो दिनेशतनयाज्ज्योतिर्भचक्राश्रिताः । छायाूसूनुगुरुक्षमाजदिनकृच्छुक्रेन्दुपुत्रेन्दवः ॥ २७½ ॥ इदानीं ग्रहाणां गतिद्योतकं कक्षाक्रमं निरूपयति । कक्षायां = स्वस्वभ्रमणमार्गे दिनेशन-


( १ ) सर्वेषु त्रयोऽपि गुणास्तिष्ठन्त्येव परं यस्मिन् यो गुणोऽधिको भवति स तद्गुणः कथ्यते । तेनात्र प्रधानपदोपादानमिति ।