जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 65, कुल 588 में से
संदर्भ में पढ़ेंग्रहनामस्वरूपगुणभेदाध्यायः ॥२॥ ३९ तनयात् क्रमशः = शनैश्चरादिक्रमेण छायासुनुगुरुक्ष्ममाजदिनकृच्छुकेन्दुपुत्रेन्दवः = शनि-बृह- स्पति-मङ्गल-सूर्य-शुक्र-बुध-चन्द्राः, ज्योतिर्भचक्राश्रिताः=ज्योतिषां = नक्षत्राणां, भचक्रे= राशिचक्रे, आश्रिताः = सङ्गताः भवन्ति । स्वस्वराशिचक्रे ( कक्षायां ) सर्वे ग्रहा भ्रमन्ति । तेषु सर्वोपरि शनिस्तस्याधो गुरुस्तस्याधो भौमस्ततो रविस्ततः शुक्रस्ततो बुधस्ततश्चन्द्रमा इति । तथोक्तं श्रीभास्कराचार्येण— “भूमेः पिण्डः शशाङ्ककविरविकुजेज्यार्किनक्षत्रकक्षा” इति । अत्रेदमध्येवधेयम्—यः सर्वोपरिस्थस्तस्य गतिः सर्वाल्पा । यश्च सर्वाधःस्थस्तस्य सर्वा- धिका गतिरिति । यतः सर्वा अपि कक्षाश्चक्रकला-( २१६००' ) ङ्किता भवन्ति, तथा सर्वेषां ग्रहाणां योजनात्मिका गतिस्तुल्यैव— “पा दोनगोक्षधृतिभूमितयोजनानि ( ११८५८१८४ ), खेटा व्रजन्त्यनुदिनं निजवर्त्मनीमे” इति भास्करोक्तेः । तेन महत्कक्षायां तावति योजनेऽल्पसङ्ख्याः कला भवन्ति, लघुकक्षायां तावत्येव योजने बह्व्यः कला भवन्ति । तेन शनेः सर्वाधिककक्षायां सर्वाल्पा गतिश्चन्द्रस्य सर्वाल्पकक्षायां सर्वाधिका गतिरिति गतिविदां स्पष्टमेवातोऽलमतिविस्तरेण । उक्तञ्च तत्रभवता भास्करेण— “कक्षाः सर्वा अपि दिविषदां चक्रलिप्ताङ्कितास्ता वृत्ते लघ्व्यो लघुनि, महति स्युर्महत्यश्च लिप्ताः ॥ तस्मादेते शशिजभृगुजादित्यभौमेज्यमन्दा मन्दाक्रान्ता इव शशधराद्यान्ति यान्तः क्रमेण” ॥ इति ॥ २७३ ॥ कक्षाप्रदर्शनम्— अपनी २ कक्षाओंमें शनि आदि ग्रह ज्योतिष्चक्र ( नक्षत्र-राशि-मण्डल ) में लगे हुये भ्रमण करते हैं । सबसे ऊपर शनि, उसके नीचे गुरु, उसके नीचे मङ्गल, फिर