भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 66, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 66

४० सटीकजातकापारिजाते- सूर्य, फिर शुक्र, फिर बुध, सबके नीचे (पृथिवीके ऊपर) चन्द्रमाकी कक्षा है। (सु० ज्ञा० कार) ॥ २७३॥ अथ सूर्यादीनां धातुविशेषादि । मज्जास्नायुवसाऽस्थिशुक्ररुधिरत्वग्धातुनाथाः क्रमाद् आरार्कीज्यदिनेशशुक्रशशभृत्तारासुताः कीर्तिताः ॥ २८ ॥ लवणकटुकपायस्वादुतिक्ताम्लमिश्राः शशिरविशनिजीवारामुरेज्यज्ञनाथाः ॥ अयनदिवसपक्षर्त्त्वब्दमासक्षणेशा रविकुजसितसौम्या मन्दजीवेन्दवश्च ॥ २९ ॥ इदानीं ग्रहाणां दैहिकधातवो रसाः समयाश्च निरूप्यन्ते । आरार्कीज्यदिनेशशुक्रश- शभृत्तारासुताः क्रमान्मज्जादीनां नाथाः कीर्तिताः । यथा-मज्जाया आरः भौमः । स्नायुषः आर्किः = शनिः । वसायाः ईज्यः = गुरुः । अस्थिनो दिनेशः = रविः । शुक्रस्य शुक्रः । रुधि- रस्य शशभृच्चन्द्रः । त्वचस्तारासुतः = बुधो नाथोऽधिपतिः कीर्तितः । प्रयोजनम्-जन्मनि यो ग्रहो बलीयांस्तद्धातुसारो जातको भवति । व्याधिप्रश्ने च तद्धातुकोपो वाच्य इति । अथ रसाः । शश्यादीनां लवणादयो रसाः । यथा-शशिनश्चन्द्रस्य लवणः । रवेः कटुः । शनेः कषायः । जीवस्य स्वादु = मधुरम् । आरस्य = मङ्गलस्य तिक्तम् । असुरे- ज्यस्य = शुक्रस्य आम्लम् । ज्ञस्य = बुधस्य मिश्राः षड्रसा इति । प्रयोजनम्-निषेक- काले यो बलीयान्ग्रहस्तदुक्तरसदोहदो भवति गर्भिण्यास्तथा प्रसूतिकाले प्रसूताया भोजन- ज्ञानमिति । अथ समयाः । सूर्यादीनामयनाद्यः । तत्र सूर्योऽयनपतिः (अयनं मासषट्कं तदर्धे द्वयं सौम्यायनं याम्यायनं च मकरकर्कटाभ्यामिति) । कुजो दिवसपतिः । सितः पक्षपतिः (पक्षः पञ्चदश दिनानि) । सौम्यः ऋतुपतिः (ऋतुर्मासद्वयम्) । मन्दोऽब्दपतिः । जीवो मासपतिः । इन्दुः क्षणपतिः (क्षणो घटीद्वयम्) भवति । प्रयोजनम्-प्रश्नकाले यस्य ग्रहस्य नवांशो लग्ने भवेत्स ग्रहस्तस्मात्नवांशाद्यावत्सङ्ख्ये नवांशके स्यात्तत्सङ्ख्यकायनादि- काले ग्रहस्य शुभाशुभफलपक्तिर्वाच्या इति ॥ २८-२९ ॥ मज्जा, स्नायु, वसा (चर्बी), अस्थि (