जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 68, कुल 588 में से
संदर्भ में पढ़ें४२ सटीकजातकपारिजाते- इदानीं ग्रहाणामूर्ध्वादिदृष्टिविवरणम् । अथ दिननाथभौमौ = सूर्यमङ्गलावूर्ध्वदृष्टी भवतः । तावुपरिष्टादवलोकयतः । कवीन्दुसून्वोः शुक्रबुधयोः कटाक्षेण दृष्टिर्भवति । तौ कटाक्षेणाव- लोकयतः । शशाङ्कगुर्वोः = चन्द्रबृहस्पत्योः समभागदृष्टिः । तौ समं पश्यतः । अहिनाथश- न्योः = राहुशनैश्चरयोरधोऽक्षिपातः, शनिराहू निम्नदृष्टी, तावधस्तादवलोकयत इति । प्रयो- जनम्-जन्मनि बलीग्रहवशाज्जन्तोरूर्ध्वदृग्विचारः ॥ ३२ ॥ सूर्य और मङ्गलकी ऊर्ध्व दृष्टि है। शुक्र और बुधकी कटाक्ष दृष्टि है। चन्द्रमा और बृहस्पतिकी सम दृष्टि है । राहु और शनिकी नीचे दृष्टि रहती है ॥ ३२ ॥ अथ ग्रहाणां स्थानबलम् । स्वोच्चत्रिकोणस्वसुहृद्द्रेष्काणराश्यंशवैशेषिकवर्गवन्तः । आरोहवीर्याधिकविन्दु