जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 70, कुल 588 में से
संदर्भ में पढ़ें४४ सटीकजातकापारिजाते- वक्रो विलोमगतिः, समागमश्चन्द्रेण संयोगस्तयोरुपगाः = विलोमगतयश्चन्द्रयुक्ताश्च, सितज्ञारा- मरेज्यासिताः = शुक्र-बुध-मङ्गल-गुरु-शनयस्तथा दिव्याशायनगेन्दुतिग्मकिरणौ = दिव्य- म्य ( स्वर्गस्य ) याऽऽशा (दिक्) सा दिव्याशा, तदयनमुत्तरायनमित्यर्थः । तस्मिन् गतौ चन्द्रसूर्यौ चैते चेष्टाबलांशाधिका भवन्ति । अत्रेदमुक्तं भवति-सूर्य्याचन्द्रमसौ सौम्यायने चेष्टाबलयुक्तौ भवतस्तथा भौमादयः पञ्च ग्रहा जयिनो वक्राश्चन्द्रसंयुक्ता वा भवेयुस्तदा चेष्टाबलयुक्ताः स्युरिति ॥ ३६ १/२ ॥ शुक्र, बुध, मङ्गल, गुरु, और शनि ये ग्रह यदि युद्धमें विजयी हों, या वक्री हों, या चन्द्रमासे युक्त हों तो उनके चेष्टाबल पूर्ण होते हैं । चन्द्रमा और सूर्यके उत्तरायनमें चेष्टाबल अधिक होते हैं । (सु० शा० कार) ॥ ३६ १/२ ॥ अथ ग्रहाणां निसर्गबलम् । सौम्यक्षेपेयुता महीसुतमुखाश्चेष्टाबलाढ्याः क्रमान् नैसर्गस्य बलाधिकाः शनिकुजज्ञाचार्य्यशुक्रेन्दिनाः ॥ ३७ ॥ क्रमेण दृक्स्थाननिसर्गचेष्टादिक्कालवीर्याणि च षड्बलानि । सुधाकरेष्विन्दुशरेन्दुशैलभेदानि तानि प्रवदन्ति सन्तः ॥ ३८ ॥ स्वरूपषष्ट्यंशविपष्टिकांशा मृगादिवीर्य्योपगषड्बलाढ्याः । क्रमेण तद्योगभवं ग्रहाणां बलं हि पूर्णं त्रिपदं दलं वा ॥ ३६ ॥ इदानीं ग्रहाणां निसर्गबलानि तद्भेदांश्चाह । महीसुतमुखाः = भौमादयः पञ्च ग्रहाः सौम्यक्षेपेयुताः = उत्तरशरयुताश्चेष्टाबलयुक्ता भवन्ति । ग्रहाणामेकत्र योगे यो ग्रह उत्तरदिक्स्थः स चेष्टाबलयुक्त इति । तथोक्तं वराहेण- “उदगयने रविशीतमयूखौ वक्रसमागमताः परिशेषाः । विपुलकरा युधि चोत्तरसंस्थाश्चेष्टितवीर्य्युताः परिकल्प्याः” इति ॥ अथ नैसर्गिकम् । शनिकुजज्ञाचार्य्यशुक्रेन्दिनाः = शनि-मङ्गल-बुध-गुरु-शुक्र-चन्द्र- सूर्याः क्रमान्नैसर्गस्य बलाधिका भवन्ति । सर्वतोऽल्पवीर्य्यः शनिः, ततोऽधिकबली भौमस्ततो बुधस्ततो गुरुस्ततः शुक्रस्ततश्चन्द्रस्ततः सूर्यो बली भवति । तथोक्तं बृहज्जातके- “श-कु-बु-गु-शु-च-साद्या वृद्धितो वीर्य्यवन्तः” इति । अथ बलभेदाः । १ दृक् = दृष्टिवलम् । २ स्थानवलम् । ३ निसर्गबलम् । ४ चेष्टा- बलम् । ५ दिग्बलम् । ६ कालवीर्य्यम् । इति क्रमेण प्रत्येकस्य षड्बलानि । तानि-सुधाक- रेष्विन्दुशरेन्दुशैलभेदानि = एक-पञ्च-क-पञ्च-क-सप्त ( १।५।१।५।१।७ ) भेदानि भव- न्तीति सन्तः प्रवदन्ति । तानि यथा- 'दृग्बलमेकविधम् । स्थानबले-उच्चबलं, सप्तवर्ग- जबलं, युग्मायुग्मबलं, केन्द्रादिबलं, द्रेष्काणबलमिति' पञ्च भेदाः । निसर्गबलमेकमेव । चेष्टाबले-वक्र-समागम-सौम्यायना-यनबलानीति चत्वारो भेदाः । दिग्बलमेकमेव । काल- बले-'नतोन्नत-पक्ष-दिनरात्रित्रिभाग-वर्षेश-मासेश-दिनेश-होरेशबलानीति' सप्त भेदा भवन्ति । ( केशवीया द्रष्टव्या ) । अथ योगजं बलमाह । मृगादिवीर्य्योपगषड्बलाढ्याः = मृगादिवीर्य्यं = सौम्यायनबल- मुपगतं = प्राप्तं यस्मिन् षड्बले तेनाढ्याः = युक्ताः स्वरूपषष्ट्यंशविपष्टिकांशाः । ग्रहाणां स्वरूपाः = पूर्णाङ्काः, षष्ट्यंशाः = स्वरूपस्य षष्टितमभागाः १/६०, विपष्टिकांशाः = स्वरूपस्य षष्ट्यधिकशतत्रयांशाः १/३६०, तदा तद्ग्रहाणां योगभवं = योगजं बलं स्यात् । तत् क्रमेण