जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 75, कुल 588 में से
संदर्भ में पढ़ेंग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ४९ रणीयभावस्यातीव बाधको भवतीति । अत्र खरो वक्ष्यमाणः 'विलग्नजन्मद्रेष्काणाद्यस्तु द्वाविंशतिः खरः' तदीशः, मान्दिः = गुलिको वा यत्र तिष्ठति तद्राशिपतिरिति खरेशमान्दि- स्थितराशिनाथ इत्यनेनावगन्तव्यः । बाधकग्रहदशायां तत्तद्भावस्य हानिरिति वाच्यम् । अत्रान्येऽपि बाधकग्रहा उक्ताः-सर्वार्थचिन्तामणौ- “तत्तद्भावाद्रन्ध्रपो वा खरेशो द्रेष्काणानां चापि नायोऽर्कपुत्रः । मान्दीशो वा तन्नवांशाधिपो वा तेषां मध्ये यो ग्रहः क्रूरभावः ॥ तत्तद्भावेशस्याधिशत्रुग्रहो वा यो वा खेटो बिन्दुशून्यर्क्षयुक्तः । तत्तत्पाके मूर्त्तिभावादिकानां नाशं ब्रूयाद् दैववित्प्राभिकश्च" इति ॥ ४७-४८ ॥ सूर्य स्थिरबुद्धि, चन्द्रमा चञ्चल, मङ्गल क्रूरमति, बुध मिश्रस्वभाव, गुरु कोमलमति, शुक्र लघुबुद्धि और शनि तीक्ष्ण प्रकृति है, ऐसा पण्डितोंने कहा है। चर, स्थिर और द्विस्वभाव राशिसे क्रमसे ११, ९, ७ इन स्थानोंमें रहने वाले ग्रह या उनके स्वामी यदि खरेश या गुलिकस्थित राशिका स्वामी हों तो वे उन भावोंके बाधक होते हैं। (सु० ज्ञा० कार) ॥ ४७-४८ ॥ अथ सूर्यादिभ्यः फलविशेषचिन्ता । सूर्यादात्मपितृप्रभाव्निरुजाशक्तिश्रियश्चिन्तयेत् चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः ॥ सत्त्वं रोगगुणानुजावनिसुतज्ञातीन्धरासूनुना विद्याबन्धुविवेकमातुलसुहृत्त्वक्कर्मकृद्बोधनः ॥ ४९ ॥ प्रज्ञानित्यशरीरपुष्टितनयज्ञानानि वागीश्वरात् पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः ॥ आयुर्जीवनमृत्युकारणविपत्सम्पत्प्रदाता शनिः सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥ ५० ॥ इदानीं कस्माद्ग्रहात्किं विचारणीयमित्युच्यते । आत्मनः = स्वशरीरस्य, पितुर्जनकस्य, प्रभावः = पराक्रमस्तस्य, नैरूज्यं = आरोग्यं तस्य, आशक्तिर्वस्त्वविच्छेदस्तस्य, श्रियः = सम्पदस्तासां सूर्याद्विचारः कर्त्तव्यः । चेतः = मनः, बुद्धिः = क्षमता ( व्यावहारिकं ज्ञानमिति ) नृपाणां प्रसादः = प्रसन्नता, जननी = माता, सम्पदैश्वर्यमित्येतेषां करः = कर्त्ता चन्द्रमाः । एषां विचारश्चन्द्रतः कर्त्तव्यः । सत्त्वं = शौर्य्यम्, रोगः, गुणाः, अनुजाः=भ्रातरो भगिन्यश्च, अवनिः = भूः, सुताः = पुत्राः, पुंस्त्वञ्च, ज्ञातयो दायादा एतान्धरासूनुना = मङ्गलेन चिन्तयेत् । विद्यायाः, बन्धूनां, विवेकस्य, मातुलः = जननीसहोदरस्तस्य, सुहृदो मित्राणि तेषाम्, त्वचः, कर्म्म = कर्त्तव्यं तस्य चैतेषां कृत्कर्त्ता बोधनः = बुधो भवति । एषां विचारो बुधात् कर्त्तव्यः । प्रज्ञा = बुद्धिः, नित्यशरीरपुष्टिः = स्वास्थ्यम्, तनयाः = आत्मजाः, ज्ञाना- न्यध्यात्मकानि तानि वागीशात् = बृहस्पतेश्चिन्तयेत् । पत्नी = स्त्री, वाहनानि=गजाश्वादयः, भूषणान्यलङ्करणानि, मदनः = कामः, व्यापारः=वाणिज्यं, सौख्यञ्चैतानि भृगोः=शुक्राच्चिन्त- नीयानि । आयुः, जीवनम् ( जीविका ), मृत्युकारणम्, विपत् ( दुःखम् ), सम्पत् ( सुखम् ) एतेषां प्रदाता शनिः । शनेरेषां विचारः कर्तव्यः । पितामहः=पितुः पिता तं सर्पेण = राहुणा चिन्तयेदर्थात्पितामहस्य विचारो राहुणा सहावेद्यते । मातामहं=मातुर्जनकं शिखिना=केतुना चिन्तयेत् । केतोः सकाशान्मातामहस्य विचारो विधेय इति । निर्द्दिष्टानां भावानामुपग्रहाः कारकत्वेन गृह्यन्तेऽतस्तेषां शुभाशुभबलाद्भावानामपि शुभाशुभं वाच्यमिति फलितम् ॥ ४९-५० ॥ ५ जा०