जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 74, कुल 588 में से
संदर्भ में पढ़ें४८ सटीकजातकपारिजाते- ॥ पञ्चधामैत्रीचक्रम् ॥
| नैसर्गिकाः | तात्कालिकाः | ||
|---|---|---|---|
| मित्राणि | समाः | शत्रवः | |
| मित्राणि | अतिमित्रम् | मित्रम् | समाः |
| समाः | मित्रम् | ० | शत्रुः |
| शत्रवः | समः | शत्रुः | अधिशत्रुः |
तात्कालिक मैत्री और नैसर्गिक ( स्वाभाविक ) मैत्रीसे अतिमित्र और अतिशत्रु बढ़ कर पांच प्रकारकी मैत्री होती है। तात्कालिक और नैसर्गिक दोनों जगह मित्र होनेसे वे अतिमित्र होते हैं। दोनों जगह शत्रुता होनेसे अतिशत्रु ग्रह होते हैं। एकमें मित्र दूसरे में सम होनेसे सिर्फ मित्र होते हैं। एकमें सम, और दूसरेमें शत्रु होनेसे केवल शत्रु । एवं एकमें शत्रु और दूसरेमें मित्र होनेसे सम होते हैं। जैसे-इस चक्रमें सूर्यसे तीसरे और चौथेमें, गुरु और मङ्गल सूर्यके तात्कालिक मित्र हैं, तथा नैसर्गिकमें भी मित्र हैं, इस- लिये ये दोनों अतिमित्र हुवे । शुक्र १२ वें होनेसे तत्कालमें मित्र है, तथा निसर्गमें शत्रु है, इसलिये सूर्यका शुक्र सम हुआ । शनि ७ वें होनेसे तत्कालमें शत्रु तथा निसर्गमें भी शत्रु है, इसलिये सूर्यका शनि अतिशत्रु हुआ। बुध २ रे होनेसे तत्कालमें मित्र, एवं नैसर्गिक सम है, इसलिये यह मित्र हुआ । इसी प्रकार अन्यत्र भी जानना चाहिये । ( सु० शा० कार ) ॥ ४५-४६ ॥ अथ ग्रहाणां स्थिरत्वादिनिरूपणम् । रविः स्थिरः शीतकरश्चरः स्यादुग्रः कुजश्चन्द्रसुतस्तु मिश्रः । मृदुः सुरेज्यो भृगुजौ लघुश्च शनिः सुतीक्ष्णः कथितो मुनीन्द्रैः ॥ ४७ ॥ क्रमाच्चरागद्विशरीरभानामुपान्त्यधर्मस्मरगास्तदीशाः । खरेशमान्दिस्थितराशिनाथा ह्यतीव बाधाकरखेचराः स्युः ॥ ४८ ॥ इदानीं ग्रहाणां स्वभावा वर्ण्यन्ते । रविः स्थिरः = स्थिरमतिः । शीतकरश्चन्द्रश्चरश्च- लधीः । कुज उग्रः = क्रूरस्वभावः स्यादिति । चन्द्रसुतः = बुधः मिश्रः = विविधस्वभावः । सुरेज्यः = गुरुर्मृदुः = शीतलमतिः । भृगुजः = शुक्रो लघुर्मन्दप्रकृतिः । शनिः सुतीक्ष्णः = सूक्ष्मस्वभावो मुनीन्द्रैः कथितः । अथ भावानां बाधकग्रहा उच्यन्ते । चरागद्विशरीरभानां = चरस्थिरद्विस्वभावराशीनां ( पूर्वोक्तानां ) क्रमात् उपान्त्यधर्मस्मरगाः = एकादश-नवम-सप्तमस्थानगता ग्रहा वा तेषु ग्रहाभावे तदीशाः = एकादश-नवम-सप्तमस्थानानामधिपाः यदि खरेशमान्दिस्थितराशिनाथाः स्युस्तदा ते तत्तद्भावस्यातीव बाधाकरखेचराः स्युः । अत्रेदं विचिन्त्यम् । यस्य भावस्य विचारः क्रियते स यदि चरराशिस्तदा तस्मादेकादशगतो वा तदीशो ग्रहो यदि खरेशमा- न्दिस्थितराशिनाथः स्यात्तदा तद्भावस्य स ग्रहो बाधको भवति । यदि विचारणीयो राशिः स्थिरस्तदा तस्मान्नवमगतो वा नवमेशः, एवं यदि विचारणीयभावो द्विस्वभावस्तदा तस्मा- त्सप्तमगतः सप्तमेशो वा ग्रहो यदि खरेशमान्दिस्थितराशिनाथः स्यात्तदा असौ ग्रहो विचा-