भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 73, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 73

ग्रहानामस्वरूपगुणभेदाध्यायः ॥२॥ ४७ शुक्रके-शनि और बुध मित्र हैं। चन्द्र और सूर्य्य शत्रु हैं। बृहस्पति और मङ्गल सम हैं। शनिके-सूर्य्य, चन्द्रमा और मङ्गल शत्रु हैं। बृहस्पति सम है। शुक्र और बुध मित्र हैं। इसको नैसर्गिक मैत्री कहते हैं ॥ ४२-४४ ॥ अथ ग्रहाणां नैसर्गिकमित्रसमशत्रुबोधकचक्रम् ।

ग्रहाःशत्रवःमित्राणिउदासीनाः
सूर्य्यस्यशुक्रः, शनिःमङ्गलः, चन्द्रः, गुरुःबुधः
चन्द्रस्यरविः, बुधःगुरुः, मङ्गलः, शुक्रः, शनिः
मङ्गलस्यबुधःरविः, चन्द्रः, गुरुःशुक्रः, शनिः
बुधस्यचन्द्रःसूर्य्यः, शुक्रःशनिः, गुरुः, मङ्गलः
गुरोःशुक्रः, बुधःसूर्य्यः, मङ्गलः, चन्द्रःशनिः
शुक्रस्यसूर्य्यः, चन्द्रःशनिः, बुधःगुरुः, मङ्गलः
शनेःसूर्य्यः, चन्द्रः, मङ्गलःशुक्रः, बुधःगुरुः
अथ पञ्चधा-मैत्रीविचारः ।
तत्कालनैसर्गिकतश्च पञ्चधा पुनः प्रकल्प्यास्त्वतिमित्रशत्रवः ॥ ४५ ॥
द्वयोः सुहृत्वं त्वतिमित्रता भवेद् द्विधाऽरयस्ते तु सदाऽतिशत्रवः ।
सुहृत्समत्वं सुहृदेव केवलं रिपुः समारिस्त्वरिमित्रता समः ॥ ४६ ॥
इदानीं तात्कालिक नैसर्गिकयोः संमिश्रणात्पञ्चधा मैत्री वर्ण्यते । पुनस्तत्कालनैसर्गिकतश्च=
तत्काले "अन्योन्यतः सोदरे"त्यादिना या मैत्री कीर्त्तिता तथा नैसर्गिकी "मित्राणि
भानोरि"त्यादिना या मैत्री वर्णिता ताभ्यां पुनरतिमित्राण्यतिशत्रवश्च प्रकल्प्यास्तदा पञ्चधा
अतिमित्र-मित्र-सम-अतिशत्रु-शत्रव इति पञ्चप्रकारा मैत्री भवेत् । अथ तात्कालनैसर्गि-
कतः पञ्चधा मैत्री कथं जायते तदाह । द्वयोः = तात्कालनैसर्गिकयोः सुहृत्वं = मित्रत्वम-
तिमित्रता भवेत् । यो ग्रहो यस्य तत्कालमित्रं निसर्गमित्रं च स तस्याधिमित्रं भवति ।
द्विधाऽरयः = ये तत्काले निसर्गौ च शत्रुत्वमुपगतास्ते सदाऽतिशत्रवो भवन्ति । सुहृत्सं-
मत्वं = एकत्र मित्रमन्यत्र समस्तदा केवलं सुहृदेव=मित्रमेव । समारिस्तु=एकत्र समोऽन्य-
त्रारिस्तदा तु रिपुः=शत्रुः । अरिमित्रता=एकत्रारिरन्यत्र मित्रं तदा समो भवतीति स्पष्टार्थं
चक्रं विलोक्यम् ॥ ४५-४६ ॥
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 73, कुल 588 में से · BharatKosha