जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
DevanagariHindipublished588 पृष्ठ
पृष्ठ 73, कुल 588 में से
संदर्भ में पढ़ेंपृष्ठ 73
ग्रहानामस्वरूपगुणभेदाध्यायः ॥२॥ ४७ शुक्रके-शनि और बुध मित्र हैं। चन्द्र और सूर्य्य शत्रु हैं। बृहस्पति और मङ्गल सम हैं। शनिके-सूर्य्य, चन्द्रमा और मङ्गल शत्रु हैं। बृहस्पति सम है। शुक्र और बुध मित्र हैं। इसको नैसर्गिक मैत्री कहते हैं ॥ ४२-४४ ॥ अथ ग्रहाणां नैसर्गिकमित्रसमशत्रुबोधकचक्रम् ।
| ग्रहाः | शत्रवः | मित्राणि | उदासीनाः |
|---|---|---|---|
| सूर्य्यस्य | शुक्रः, शनिः | मङ्गलः, चन्द्रः, गुरुः | बुधः |
| चन्द्रस्य | ० | रविः, बुधः | गुरुः, मङ्गलः, शुक्रः, शनिः |
| मङ्गलस्य | बुधः | रविः, चन्द्रः, गुरुः | शुक्रः, शनिः |
| बुधस्य | चन्द्रः | सूर्य्यः, शुक्रः | शनिः, गुरुः, मङ्गलः |
| गुरोः | शुक्रः, बुधः | सूर्य्यः, मङ्गलः, चन्द्रः | शनिः |
| शुक्रस्य | सूर्य्यः, चन्द्रः | शनिः, बुधः | गुरुः, मङ्गलः |
| शनेः | सूर्य्यः, चन्द्रः, मङ्गलः | शुक्रः, बुधः | गुरुः |
| अथ पञ्चधा-मैत्रीविचारः । | |||
| तत्कालनैसर्गिकतश्च पञ्चधा पुनः प्रकल्प्यास्त्वतिमित्रशत्रवः ॥ ४५ ॥ | |||
| द्वयोः सुहृत्वं त्वतिमित्रता भवेद् द्विधाऽरयस्ते तु सदाऽतिशत्रवः । | |||
| सुहृत्समत्वं सुहृदेव केवलं रिपुः समारिस्त्वरिमित्रता समः ॥ ४६ ॥ | |||
| इदानीं तात्कालिक नैसर्गिकयोः संमिश्रणात्पञ्चधा मैत्री वर्ण्यते । पुनस्तत्कालनैसर्गिकतश्च= | |||
| तत्काले "अन्योन्यतः सोदरे"त्यादिना या मैत्री कीर्त्तिता तथा नैसर्गिकी "मित्राणि | |||
| भानोरि"त्यादिना या मैत्री वर्णिता ताभ्यां पुनरतिमित्राण्यतिशत्रवश्च प्रकल्प्यास्तदा पञ्चधा | |||
| अतिमित्र-मित्र-सम-अतिशत्रु-शत्रव इति पञ्चप्रकारा मैत्री भवेत् । अथ तात्कालनैसर्गि- | |||
| कतः पञ्चधा मैत्री कथं जायते तदाह । द्वयोः = तात्कालनैसर्गिकयोः सुहृत्वं = मित्रत्वम- | |||
| तिमित्रता भवेत् । यो ग्रहो यस्य तत्कालमित्रं निसर्गमित्रं च स तस्याधिमित्रं भवति । | |||
| द्विधाऽरयः = ये तत्काले निसर्गौ च शत्रुत्वमुपगतास्ते सदाऽतिशत्रवो भवन्ति । सुहृत्सं- | |||
| मत्वं = एकत्र मित्रमन्यत्र समस्तदा केवलं सुहृदेव=मित्रमेव । समारिस्तु=एकत्र समोऽन्य- | |||
| त्रारिस्तदा तु रिपुः=शत्रुः । अरिमित्रता=एकत्रारिरन्यत्र मित्रं तदा समो भवतीति स्पष्टार्थं | |||
| चक्रं विलोक्यम् ॥ ४५-४६ ॥ |