जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 83, कुल 588 में से
संदर्भ में पढ़ेंधरासुतः = मङ्गलः - पीनबीज-कफ-शस्त्र-पावक-ग्रन्थिरुक्-व्रण-दारिद्र्योद्भूतै रो- गैस्तथा वीराः = शूराः, शैवगणाः = कपालिनः, भैरवाः = भूतादयस्तैः आशु = शीघ्रमेव भीतिं = भयं कुरुते ॥ ७७ ॥ शशिजः = बुधः-गुह्यरोगेण, उदररोगेण, अदृश्य-( रहस्यदेश-) रोगेण, वायुरो- गेण, कुष्ठरोगेण, मन्दाग्निना, शूलरोगेण, संग्रहणीरोगेण च तथा बुधादयः = मनीषिणः, वि- ष्णुप्रियदासाः = वैष्णवास्तपस्विनः, भूताः = प्रेतास्तैरतीव दुःखं कारयति ॥ ७८ ॥ इन्द्रगुरुर्बृहस्पतिः - आचार्यः = गुरुः, देवः, गुरुः = श्रेष्ठजनः, भूसुराः = ब्राह्मणा- स्तेषां शापदोषैः = दुर्वाक्यदोषैः शोकं, तथा गुल्मरोगं च करोति । आसुरेज्यः = शुक्रः - स्त्रीविकृतिजनितप्रमेहरोगे