जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 90, कुल 588 में से
संदर्भ में पढ़ें६४ सटीकजातकपारिजाते- Notes- ( ७-१०) श्लोका बृहज्जातकस्य । सूर्य-लग्ननवांशका स्वामी हो तो भीतरकी पुष्ट लकड़ी ( शीशम आदि ) कहे । शनि- हो तो देखनेमें अप्रिय ( तेन्दुवा आदि ) कहे । चन्द्रमा-हो तो दूधवाले वा रसवाले ( ऊँख गन्ना ) आदि वृक्ष कहे । मङ्गल-हो तो कांटेवाले (बेल बबूलरादि) बृहस्पति-हो तो फलवाले ( आम आदिके ) वृक्ष, बुध-हो तो बिना फलवाले वृक्ष कहे । शुक्र-हो तो पुष्प वाले ( चमेली चम्पा आदि ) वृक्ष कहे । फिर चन्द्रमा-चिकने देवदारु आदि और पुनः मङ्गल- कटु वृक्षको उत्पन्न करता है ॥ ९ ॥ पूर्वोक्त स्थल या जलराशिके स्वामी शुभग्रह यदि पापग्रहकी राशिमें हो तो रुचिर ( अच्छा ) वृक्ष दुष्ट भूमिमें पैदा हो । यदि पापग्रह शुभराशिमें स्थित हो तो अशोभन ( दुष्ट ) वृक्ष सुन्दर भूमिमें हो । शुभग्रह शुभराशिमें हों तो शुभ वृक्ष रुचिर भूमिमें हो और अशुभसे अशुभ वृक्ष अशुभ भूमिमें जाने । वह ग्रह अपने नवांशसे जितने नवांशपर प्राप्त हो उतने ही वृक्ष उसी २ प्रकारके कहे ॥ १० ॥ इति वियोनिजन्मप्रकरणम् । अथ निषेकविधिः । कुजेन्दुहेतु प्रतिमासमार्त्तवं गते तु पीडर्क्षमणुष्णदीधितौ ॥ अतोऽन्यथास्थे शुभपुङ्ग्रहेक्षिते नरेण संयोगमुपैति कामिनी ॥ ११ ॥ इदानीं निषेकविधिरुच्यते । ऋतोस्तत्र प्रधानत्वात्प्रथमं ऋतुलिरूपणं ततो दम्पत्योर्बो- गलक्षणमाह । स्त्रीणां प्रतिमासं=मासं मासं प्रति यदार्त्तवं = ऋतौ जातं रजस्तत् कुजेन्दु- हेतु = कुजो मङ्गलः, इन्दुश्चन्द्रस्तौ हेतुर्निमित्तं यस्य तदिति । स्त्रीणां रहस्यदेशात् प्रतिमासं यद्रजो निस्सरति तस्य कुजेन्दू कारणम् । यतश्चन्द्रो जलतत्त्वः, भौमोऽग्नितत्त्वः, तत्र जल- मेव रक्तं तथाऽग्निरेव पित्तं, पित्तेनालोडितमङ्गं रजोरूपेण परिणमति । तयोक्तं कल्याणवर्मणा- "इन्दुर्जलं कुजोऽग्निर्जलमङ्गं त्वग्निरेव पित्तं स्यात् । एवं रक्ते क्षुभिते पित्तेन रजः प्रवर्त्तते स्त्रीषु" ॥ इति ॥ अथ गर्भधारणयोग्यमार्त्तवं निरूप्यते । अणुष्णदीधितौ=चन्द्रे, पीडक्षं गते = स्त्रिया जन्मराशेरनुपचयर्क्ष = नवधनजलधीकामरन्ध्रान्त्यहोराणामन्यतमं प्राप्ते कुजेन दृष्टे गर्भग्रहणयोग्यमार्त्तवं भवति, परं बालवृद्धातुरवन्ध्याभ्योऽन्यत्र । तथोक्तम्--- "स्त्रीणां गतोऽनुपचयर्क्षमणुष्णरश्मिः सन्द्दृश्यते यदि धरातनयेन तासाम् । गर्भग्रहार्त्तवमुशन्ति तदा, न बन्ध्यावृद्धातुराल्पवयसामपि वैतदिष्टम्" ॥ इति ॥ अथ पुरुषसंयोगसम्भवमाह । अतोऽन्यथास्थे=चन्द्रे पुरुषजन्मार्क्षादुपचयर्क्षस्थे, शुभपुङ्ग्रहेक्षिते=शुभग्रहेषु यः पुमान् ग्रहस्तेन ( गुरुणा ) ईक्षिते = दृष्टे, कामिनी=ऋतुमती स्त्री नरेण=पुरुषेण सह संयोगमुपैति । ईदृग्योग एव दम्पत्योर्योगो गर्भाधानयोग्यं मैथुनं च भवतीति । तथोक्तं च- "पुरुषोपचयगृहस्थो गुरुणा यदि दृश्यते हिममयूखः । स्त्रीपुरुषसंयोगं तदा वदेदन्यथा नैव" इति । पुरुषसंयोगविचारोऽयमृतुशुद्धौ ( चतुर्थदिने ) कार्यः । "ऋतुविरमे स्नातायां यद्युपचयसंस्थितः शशी भवति । बलिना गुरुणा दृष्टो भर्त्रा सह सङ्गमश्च तदा" इति दर्शनात् । वक्ष्यतिच स्वयं पुरतः- "नाद्याश्चतस्रोऽत्र निषेकयोग्या पराश्च युग्माः सुतदाः प्रशस्ताः" इति ॥ ११ ॥