भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 114, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 114

[ अगस्त्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६५

करतलादिव सङ्क्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधि-जलमिव मुनिना निखिलमाश्रमोपान्तवर्त्तिषु विभक्तं महाह्रदेषु । यत्र च दशरथ-सुत-निशित-शर-निकर-निपात-निहत-रजनीचर-बल-बहल-रुधिर-सिक्त-मूलमद्यापि तद्रागाविद्ध-निर्गत-पलाशमिवाभाति नव-किसलयमरण्यम् । अधुनापि यत्र जलधरसमये गम्भीरमभिनव-जलधर-निवह-निनादमाकर्ण्य भगवतो रामस्य त्रिभुवन-विवर-व्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शष्प-कवलमस्रमुजल-लुलिता-दीनदृष्टयो वीक्ष्य शून्या दश दिशो जरा-

वैदेह्याः करतलात् हस्ततलात् लताकिसलयेषु व्रततिपल्लवेषु संक्रान्तो लग्न इव सन् रागो लौहित्यं स्फुरति दीप्तिमान्भवति । सङ्क्रान्त इवेति क्रियोत्प्रेक्षा ।

यत्र चेति । यत्र च आश्रमपदे, मुनिना अगस्त्येन पूर्वं पीतं चुलुकीकृतं पश्चादुद्गीर्णम् वान्तं निखिलं समग्रं जलनिधिजलं समुद्रसलिलम् आश्रमोपान्तवर्त्तिषु आश्रमनिकटस्थायिषु महाह्रदेषु महातडागेषु विभक्तमिव विभज्य स्थापितमिव । अत्रापि विभक्तमिवेति क्रियोत्प्रेक्षा, अत एव हि तडागानामगाधसलिल-युक्तत्वं ध्वन्यते इत्यलङ्कारेण वस्तु व्यङ्ग्यम् ।

यत्र चेति । दशरथसुतयो रामलक्ष्मणयोः निशिताः तीक्ष्णा ये शरा बाणाः तेषां यो निकरः समूहः तस्य निपातेन वर्षणेन निहतानि घातितानि यानि रजनीचरबलानि असुरसैन्यानि तत्सम्बन्धीनि बहलानि विपुलानि रुधिराणि रक्तानि तैः सिक्तानि मूलानि यस्य तत्, नवानि नूतनानि किसलयानि पल्लवानि यत्र तत् तथोक्तम् अरण्यं वनं (कर्तृ), अद्यापि इदानीं कालपर्यन्तमपि तेषां रुधिराणां रागेण रक्तिम्ना आविद्धानि युक्तानि विद्यमानानि निर्गतानि निःसृतानि पलाशानि पत्राणि यः तत् तथोक्तमिव आभाति शोभते । इहापि क्रियोत्प्रेक्षा ।

अधुनापीति । अधुनापि इदानीमपि यत्र आश्रमपदे जलधरसमये वर्षाकाले गम्भीरं मञ्जुलम् अभिनवा नूतना ये जलधरा मेघास्तेषां निवहस्य समूहस्य निनादं गर्जनम् आकर्ण्य श्रुत्वा भगवतः पूज्यस्य रामस्य दाशरथेः त्रिभुवनस्य त्रिलोक्याः विवराणि छिद्राणि तानि व्याप्नोति पूरयतीति स तस्य, चापघोषस्य धनुः शब्दस्य अत्र मातुः स्मरतीतिवत् कर्मणि षष्ठी, तेन धनुःशब्दमित्यर्थः, स्मरन्तः चिन्तयन्तः दशदिशः दशाशाः शून्याः रामलक्ष्मणसीतारहिताः, वीक्ष्य अवलोक्य, अजस्रं निरन्तरम् अश्रुजलैः तेषां शोकजनितनयनसलिलैः लुलिता विह्वलीभूताः दीनाः कातराः दृष्टयो लोचनानि येषां ते तथोक्ताः, तथा जरया वृद्धावस्थया जर्जरिताः विशीर्णा विषाणानां शृङ्गाणां कोटयोऽग्रभागा येषां ते तथोक्ताः, जानक्या वैदेह्या संवर्द्धिताः शष्पसलिलादिप्रदानेन वृद्धिं प्रापिताः जीर्णमृगाः वृद्धहरिणाः शष्पं बालतृणं तस्य कवलं ग्रासं न गृह्णन्ति न स्वीकुर्वन्ति तेषां शोकेनेत्याशयः । अत्र गम्भीरजलदनिनादाकर्णनेन

से वृक्ष ऐसे प्रतीत होते थे मानों आज भी उनमें उन तपस्वियों के अग्निहोत्रों से उठे हुये धुएँ की रेखायें लगी हुई हों, जहाँ लताओं की नयी-नयी सुकुमार कोपलों से फूटती हुई लाली ऐसी प्रतीत होती थी मानों पूजा के लिये फूल चुनते समय उनमें लगी हुई जानकी के करतलों की लाली ही आज भी फूट फूट कर बिखर रही हो, जहाँ आश्रम के निकटवर्ती सरोवरों में भरा हुआ जल ऐसा प्रतीत होता था मानों भगवान् अगस्त्य ने समुद्र का पिया हुआ समस्त जल ही उगलकर इन सरोवरों में बाँट दिया हो, जहाँ नयी-नयी कोपलों से भरा हुआ वन लाल भभूका हो उठा था मानों रामचन्द्र जी के तीखे बाणों की वर्षा से मारे गये राक्षसों के गाढ़े रक्त से सिंची हुई जड़ों वाले वृक्षों से आज भी उसी रक्त की लाली में सने हुये लाल लाल पल्लव फूट पड़े हों, जहाँ आज भी भगवती जानकी द्वारा पालपोस कर बढ़ाये गये बुढ़ौती से कटी-फटी सींगों वाले आश्रमों के बूढ़े हरिण वर्षा के दिनों में नयी-नयी साँवली घटाओं की गम्भीर ध्वनि सुनकर भगवान् राम के धनुष की तीनों लोकों में फैली हुई ध्वनि का स्मरण करते हुए आँसुओं से छलछलायी हुई करुण दृष्टि द्वारा अपने बन्धुओं से सूनी (जिन्हें राम के धनुष ने पहले ही मार डाला था, अथवा राम से सूनी) दसों दिशाओं को


१. ....'च' इति क्वचिन्न ।
२. 'निशित' इति पाठः क्वचिन्न ।
३. बहलबहुल ।
४. रक्त ।
५. तद्रागानुविद्ध ।
६. किसलम् ।
७. गम्भीररवम् ।
८. 'निवह' इति पाठः क्वचिन्न ।
९. सम्यक् रूप ।
१०. लुलितदृष्टयः ।

६ का० कथा०

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 114, कुल 709 में से · BharatKosha