कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 113, कुल 709 में से
संदर्भ में पढ़ें| ६४ | कादम्बरी- | [ कथामुखे- |
|---|
श्यामलीकृत-परिसरं सरिता च कलसयोनि-परिपोत-सागरमार्गानुगतयेव बद्धवेणिकया गोदा- वर्या परिगतमाश्रमपदमसीत् ।
यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदन-लक्ष्मी-विभ्रमविरामो रामो महामुनिमगस्त्यमनुचरन् सह सीतया लक्ष्मणोपरचित-रुचिर-पर्णशालः पञ्चवट्यां कञ्चित् कालं सुखमुवास । चिरशून्येऽद्यापि यत्र शाखानिलोनि-निभृत-पाण्डु-कपोतपङ्क्तयो लग्न-तापसाग्निहोत्र-धूमराजय इव लक्ष्यन्ते तरवः । बलिकर्म्म-कुसुमान्युद्धरन्त्याः सीतायाः
दिशीति। दिशि दिशि प्रत्येकदिशि 'नित्यवीप्सयोः' इति द्विवचनम्, शुकवत् कीरदेहवत् हरितै-नीलवर्णैः कदलीवनैः रम्भाविपिनैः 'रम्भाग्रचेऽथ कदली' इति मेदिनी, श्यामलीकृतः कृष्णवर्णीकृतः परिसरः प्रान्तभूमिर्यस्य तत्। शुकहरितैरित्यत्र लुप्तोपमा।
सरितेति। कलसयोनिन अगस्त्येन परिपीतस्य चुलुकीकृतस्य मृतस्येत्याशयः, सागरस्य समुद्रस्य मार्गम् अध्वानम् अनुगतयेव अनुव्रजितयेव बद्धा धृता वेणिका सलिलधारा यया तया, बद्धा संकरा-विधानायैव संयता वेणिका केशशचनाविशेषो यया तया च, गोदावर्या तन्नामिकया सरिता नद्या परिगतं परिव्याप्तम्। अगस्त्येन चुलुकीकृततया निधनमुपगतस्य समुद्रस्य अनुव्रजनं सर्वदा केशसंयमनञ्च पति-व्रतया विधेयमेवेत्याशयः। उक्तञ्च 'न प्रोषिते तु संकुर्याद्वेणीं च प्रमोचयेत्' इति। 'अनुगतयेव' इति क्रियोत्प्रेक्षा। समासोक्तिरपि व्यञ्जना। तदुक्तं दर्पणे-
'समासोक्तिः समैर्यत्र कार्य्यलिङ्गविशेषणैः। व्यवहारसमारोपः प्रकृतेऽन्यस्य वस्तुनः ॥'
यत्रेति। यत्र यस्मिन्नाश्रमस्थाने दशसु दिशासु अप्रतिहतो रथो यस्य स दशरथः तस्य वचनं वनगमनादेशम् अनुपालयन् पालनं कुर्वन् तथैवानुतिष्ठन्नित्यर्थः, उत्सृष्टं त्यक्तं राज्यं येन सः, दशवदनो लङ्काधिपतिर्दशाननस्तस्य या लक्ष्मीः राज्यश्रीः तस्या विभ्रमस्य विलासस्य विरामोऽवसानं यस्मात् स तथोक्तो रामः महामुनिं मुनिश्रेष्ठम् अगस्त्यम् अनुचरन् सेवमानः, लक्ष्मणेन सुमित्रानन्दनेन उपरचिता निर्मिता रुचिरा मनोज्ञा पर्णशाला उटजो यस्य सः, कञ्चित्कालं पञ्चवट्यां जनस्थाने सीतया जनकनन्दिन्या सह सुखम् आनन्दपूर्वकं यथा स्यात्तथा उवास निवसति स्म । 'विरामो राम' इत्यत्र यमकालङ्कारः । तदुक्तं दर्पणे-
'सत्यर्थे पृथगर्थायां स्वरव्यञ्जनसंहते । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥'
चिरेति । 'चिरशून्ये बहोः कालात् मुनिवृन्दरहिते, यत्र यस्मिन्नाश्रमपदे अद्यापि इदानीमपि, शाखासु निलीना अवस्थिता निभृता निःशब्दाः पाण्डवः श्वेता ये कपोताः पारावताः तेषां पङ्क्तयो राजयः येषु ते, अत एव लग्नाः संलग्नाः तापसानां तपस्विनां यदग्निहोत्रं दैनिकयज्ञविशेषः तस्य धूमा-नाम् अग्निशिखानां राजयः पङ्क्तयो येषु ते तथोक्ता इव तरवो वृक्षा लक्ष्यन्ते अवलोक्यन्ते । इह पदार्थ-हेतुकं काव्यलिङ्गमलङ्कारः, तथा धूमपङ्क्तीनां संलग्नत्वस्योत्प्रेक्षणात् क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
बलोति । बलिकर्म्मणे देवपूजनकार्यस्य कुसुमानि प्रसूनानि उद्धरन्त्याः सञ्चयं कुर्वन्त्याः सीताया
तथा मूंज की करधनी पहिने और हाथों में हरे पत्तों का दोना लिये हुये एक झोपड़ी से दूसरी झोपड़ी तक घूम-घूमकर भीख माँगा करते थे। वह जङ्गल से पिता के अग्निहोत्र के लिये समिधाओं (हवन की लकड़ियों) का इतना बड़ा गट्ठर बाँधकर लाया करते थे कि पिता ने उनका दूसरा नाम ही इध्मवाह (हवन की लकड़ियां ढोने वाला) रख दिया था। उस आश्रम के चारों ओर सुग्गों के समान हरे-हरे केलों की घनी बाढ़ लगी हुई थी जिसकी घनी हरियाली से वहाँ कुछ-कुछ अन्धकार सा छाया रहता था। उस आश्रम से सटी हुई एक ही प्रखर धारा में बहती हुई गोदावरी नदी ऐसी प्रतीत होती थी मानो एक चोटी वाली समुद्र की विधवा पत्नी अपने पति के पीछे पीछे उसका समस्त जीवन पी लेने वाले अगस्त्य के आश्रम में चली आई हो।
और जहाँ पञ्चवटी में दशरथ की आज्ञा का पालन करने के लिये राज्य छोड़कर महामुनि अगस्त्य की सेवा करते हुये रावण की राज्यलक्ष्मी का वैभव मिटा देने वाले भगवान् रामचन्द्र जी ने सीता जी के साथ लक्ष्मण द्वारा बनाई गई पत्तों की सुन्दर झोपड़ी में कुछ दिनों तक सुख से निवास किया था, बहुत दिनों से ऋषियों के न रहने के कारण जिस सूने प्रदेश में डालियों पर चुपचाप बैठे हुए सफेद कबूतरों की पंक्तियों
१. श्यामीकृत ।
२. कावेर्या ।
३. रामो ।
४. अतिचिर ।
...पङ्क्तयोऽमलग्न... ।